शिवोद्वाहगमनवर्णनम्
(शिवरहस्यान्तर्गते ईशाख्ये)
शिव उवाच ।
नन्दिन् मद्गणपा यत्र समायान्तु मदन्तिकम् ॥ ५॥
विष्णो सन्नह्यतां सेना सुराणामस्त्रशोभिता ।
नदी विष्णुः प्रणम्ये शक्रमाज्ञापयंस्तदा ॥ ६॥
हरिरुवाच ।
सन्नह्यतां महासेना सुराणां सुपताकिनी ।
मा विलम्बो भवत्वत्र निर्गच्छति महेश्वरः ॥ ७॥
गिरीन्द्रनिलयं देव्याः कर्तुं पाणिग्रहं विभुः ।
- - शिवोद्वाहगमनवर्णनम् - -
देवपत्न्यश्च याः सर्वा मातरो भूषणान्विताः ॥ ८॥
मण्डयित्वा स्वकाङ्गानि वासोभूषणगन्धकैः ।
पुष्पैर्दिव्याङ्गरागैश्च नीराजनकराःस्त्रियः ॥ ९॥
समागच्छन्तु देवेश-पाणिग्रहणमङ्गले ।
इन्द्रोऽप्याज्ञापयामास आनेतुं मातलिं प्रति ॥ १०॥
स मातलिस्त्वरायुक्तो देवसेनां समानयत् ।
शक्रस्य गणपा ये च वज्रोद्यतकराः शुभाः ॥ ११॥
मकुटोज्ज्वलमस्तास्ते युवानो मृष्टकुण्डलाः ।
रक्तचन्दनलिप्ताङ्गा वाद्यकास्तत्र चागताः ॥ १२॥
पताकावैजयन्तीभिः पटहानकनिःस्वनैः ।
तथा यमगणास्तत्र कृष्णाङ्गा विकृतायुधाः ॥ १३॥
करालदंष्ट्रोरुशिखा मुसलायुधपाणयः ।
समागता यमेनैव पाशदण्डायुधेन च ॥ १४॥
वारुणा गणपास्तत्र हरिता बाहुशालिना ।
पाशखड्गकराः सर्वे नियुतं वरुणेन हि ॥ १५॥
यक्षाधिपेन साहिता यक्षाः शिक्षाविशारदाः ।
प्रयुतं खड्गखेटाधैः समायाता मदोद्धताः ॥ १६॥
वायुना वायुगणपास्तोमरासक्तपाणयः ।
समायाता(?)युतं तत्र गन्धस्रग्वरभूषिताः ॥ १८॥
निरृतेर्गणपा येऽत्र प्रासासिवरपाणयः ।
देवेन तेनचायाता अयुतं भूषणान्विताः ॥ १९॥
ईशानो गणपैस्तत्र समायाताः सहस्रशः ।
निषङ्गिभिः कवचिभिर्हेतितोमरपाणिभिः ॥ २०॥
इषुमद्भिश्चापधृग्भिर्दिविभूम्यन्तरिक्षगैः ।
अथायाश्च मरुतः सहस्राण्यत्र षोडश ॥ २१॥
वसवो बलिनस्तत्र त्रिंशत्साहस्रमूर्जिताः ।
द्वादशादित्यकास्तत्र सहस्रेण पृथक् पृथक् ॥ २२॥
सुधन्वानसहस्रेण धनुर्बाणकरा गताः ।
अश्विनौ द्विसहस्रेण बलेन शरपाणिना ॥ २३॥
नागाः किम्पुरुषाः सिद्धा गन्धर्वा वाद्यवादकाः ।
पिशाचा गरुडा यक्षा राक्षसा दैत्यनायकाः ॥ २४॥
नागाश्चाप्सरसो रूपलावण्या गीतपेशलाः ।
पितरो यातुधानाश्च डाकिन्यो योगिनीगणाः ॥ २५
(धृतनानाविधास्त्राश्च डाकिन्यो योगिनीगणाः) ॥ २५॥
किन्नरा भैरवास्तत्र चामुण्डा शाकिनीगणाः ।
गावोऽथ मातरस्तत्र समायाताः सुपेशलाः ॥ २६॥
सर्वाभरणभूषाढ्या स्रुग्गन्धाश्च सुवाससः ।
धृतनानाविधास्त्राश्च नानावाद्यकृतादराः ॥ २७॥
अथादितिर्दितिर्लक्ष्मीर्धेनुर्वाणी च कालिका ।
पुलोमा विपुला चैव सिह्मिका सुरसा तथा ॥ २८॥
सिद्धिरृद्धिः क्रिया दुर्गा स्वधास्वाहा दनुः कुहूः ।
राका स्पृहा सिनीवाली स्वरा बुद्धिर्मतिः शची ॥ २९॥
अरुन्धती च सावित्रीगायत्रीरोहिणीमुखाः ।
गार्गी मैत्रायणी चैव अनसूया पतिव्रता ॥ ३०॥
लोपामुद्रा तथा गार्गी सन्नतिः सुनतिः क्रुधा ।
रम्भा मृणालिका चैव मेनका सहजन्यका ॥ ३१॥
विप्रचित्तिर्मिश्रकेशी ऊर्वशी चारुहासिनी ।
विश्वाची च घृताची च मित्रविन्दा अलम्बुसा ॥ ३२॥
एताश्चाप्सरसां श्रेष्ठाः अप्सरःकोटयो नव ।
हावभावमनोज्ञेन तौर्यत्रिकयुता ययुः ॥ ३३॥
सागरा गिरयो मेध्या नद्यः संवत्सरा ग्रहाः ।
सोमेन सहिताः सर्वे सामायातास्त्रिकोटिकम् ॥ ३४॥
मनोहरेण वेषेण ऋक्षाणि ऋषयो मनुः ।
वेदा मन्त्रास्तथा यज्ञाश्छन्दांसि प्रणवस्तथा ॥ ३५॥
मन्त्रग्रामं तथा सर्वम्पुराणानि च शास्त्रकम् ।
स्वरूपवेषाभरणास्तत्र जग्मुश्च सङ्घशः ॥ ३६॥
उद्वाहः शङ्करस्येति देवदेवाज्ञया तदा ।
भासयन्तो भूषणैश्च शास्त्राणां वादघोषणैः ॥ ३७॥
त्रिषष्टिकोटितुरगाः रुक्मभाण्डपरिच्छदाः ।
जविनो बलसम्पन्नाः संस्थिताः सुरसादिनः ॥ ३८॥
सुरघृष्टां महीं चक्रुर्हेषाभूषैकसन्मुखाः ।
तोमराङ्कुशबाणाग्रपताकावलिभूषिताः ॥ ३९॥
गजा महामात्रयुता दन्तवेष्टशराग्रकाः ।
उद्यत्कुम्भाः कर्णतालैर्लम्बितालोलचामराः ॥ ४०॥
त्रिंशत्कोटिर्ययुस्तत्र मेघा इव भुवं गताः ।
रथाः पञ्चशतं कोट्यः सुतरङ्गाः सुचक्रकाः ॥ ४१॥
सुपताकाः सावरोधा सदश्वाः सम्प्रचोदिताः ।
रथनेमिस्वनैस्तत्र गजाश्ववृकबृंहितैः ॥ ४२॥
धूयमानपताकाग्रैः शङ्खदुन्दुभिनिःस्वनैः ।
बधिरीकृतदिक्चक्रं पङ्क्तिशः संस्थिताः सुराः ॥ ४३॥
प्रणन्तुं श्रीमहेशानं तत्र तत्र स्वकाः स्वकाः ।
गणेन्द्रा वारणेन्द्राभा नन्दिकेशज्ञया गताः ॥ ४४॥
उद्वाहः शङ्करस्येति तत्राजग्मुः पृथक् पृथक् ।
सूर्याभाः शङ्खवर्णाश्च रक्तनीलारुणप्रभाः ॥ ४५॥
सुपीता हरितास्तत्र युवानो बलशालिनः ।
कोट्योऽथ सङ्ख्या तेषां तु तत्र नामानि वै शृणु ॥ ४६॥
नन्दिकेशोऽथ दशभिर्भैरवोऽष्टाभिरेव च ।
भृङ्गी कोटिद्वयेनाथ रिटिः कोट्या समाययौ ॥ ४७॥
नवकोट्या वीरभद्रः कालाग्निर्दशकोटिभिः ।
बाणत्रयेण वृषभश्चण्डीशः पञ्चभिर्वृतः ॥ ४८॥
नियुतं च महानन्दी सोमनन्दी तथाऽयुतम् ।
दशभिः केसराक्षश्च विद्युतोऽष्टभिरेव च ॥ ४९॥
पञ्चभिस्तु कपालीशः पङ्क्तिभिस्च पिचण्डिलः ।
कुम्भकश्च कुहुण्डश्च द्विकोटिभ्यां समीयतुः ॥ ५०॥
विष्टम्भः कोटिगणपैर्भेरुण्डश्चात्र कोटितः ।
पिप्पलः सद्रथश्चैव प्रयुतं नियुतं तथा ॥ ५१॥
आययौ च सहस्राणां नवत्या धुन्धुलीगणः ।
सप्ताशीतिसहस्रेण महाकालस्तु कोटितः ॥ ५२॥
अभीतो दशसाहस्रैः सुमुखः पञ्चभिस्तथा ।
पिङ्गलश्च त्रिसाहस्रैः कुमुदोऽष्टसहस्रकैः ॥ ५३॥
पूर्णभद्रोऽयुतेनागात् सुभद्रः सप्तभिर्ययौ ।
विलोमा दशसाहस्रैः पिङ्गलोऽथाष्टभिर्ययौ ॥ ५४॥
कुम्भाण्डः षट्सहस्रेण रणभद्रोऽथ विंशतिः ।
प्रयुधानो निधानश्च अष्टाशीतिसहस्रकैः ॥ ५५॥
एते गणेश्वरास्तत्र समायाताः पृथक् पृथक् ।
एते चान्येऽप्यसङ्ख्यातास्तत्राजग्मुर्धृतायुधाः ॥ ५६॥
सर्वे भस्मावदाताश्च जटामकुटधारिणः
नीलकण्ठास्त्रिणेत्राश्च हारकेयूरपन्नगाः ॥ ५७॥
निषङ्गिणश्च सर्वेऽपि शरकार्मुकपाणयः ।
समागतांस्तान् गणपान्निवेद्य सुरसत्तमान् ॥ ५८॥
नन्दिकेशः पुरस्तस्थौ हरिणाजिष्णुना तथा ।
तानागतानथ ज्ञात्वा महादेवो वृषं तदा ॥ ५९॥
चक्रे तुरङ्गमाकारं श्वेताभ्रशिखरोपमम् ।
रत्नपल्याणसंयुक्तं सुखलीनास्यकं तथा ॥ ६०॥
स्वयं च मुकुटोद्दामशोभी चन्द्रार्कभासुरः ।
रत्नमुक्तालसद्धारो रत्नग्रैवेयकाङ्गदः ॥ ६१॥
त्रिलोचनोऽरविन्दाक्षो लसद्दिव्याम्बरो बभौ ।
सुमनोवर्षनिकरैरभिवृष्टो महेश्वरः ॥ ६२॥
दुन्दुभीनां निनादैश्च वेदबन्दिकृतस्तवैः ।
जपतां गणदेवानां स्तवैर्नीराजनैः स्त्रियां (?) ॥ ६३॥
नन्दिनो हस्तमालम्ब्य तण्डुसन्धृतछत्रकः ।
रत्नपादुकपादाब्जो निर्ययौ स गणैः सुरैः ॥ ६४॥
हरिणा चाथ शक्रेण प्रोत्सारितसुरासुरः ।
आलोकनेन सर्वेषां प्रणामालिं प्रगृह्य च ॥ ६५॥
नदत्सु गजभेरीषु(?) शङ्खध्मातासु दिक्ष्वपि ।
वर्षत्सु अभ्रेषु कुसुमं नृत्यन्तीष्वप्सरस्सु च ॥ ६६॥
नारदस्तुम्बुरुश्चापि वीणयाऽगायतां तदा ॥ ६७॥
तुङ्गं तुरङ्गमधिरुह्यपिनाकपाणि-
रश्वाधिपः सुरवरैर्गणमुख्यसङ्घैः ।
पादातिभिर्हरिमहेन्द्रमुखैश्च सिद्धैः
सम्पूजितो गिरिवरस्य गृहं जगाम ॥ ६८॥
त्वङ्गत्तुरङ्गसुखलीनविचालनेन
हृष्यत्पदातिगणसन्धृतपादपद्मः ।
मायूरवीजनसुवीजितचामरौघैः
छत्रावृतास्यकमलो गिरिशः प्रतस्थे ॥ ६९॥
हिमाचलगृहं ययौ सुरवरैर्गणेन्द्रैर्हरो
नदत्सुगजपृष्ठगैर्विजितकाब्धिभेरीरवैः ।
सुवर्षितसुराङ्गनाकुसुमलाजकार्द्राक्षतैः
सुरोरुसुपताकिनीचलदपारवेत्राग्रके ॥ ७०॥
नदत्सुगणबृंहितैर्हयवरोरुहेषारवै
रथाङ्गपरिवर्तनैः श्रुतिशिरोगतैश्चस्तवैः ॥ ७१॥
द्योतन्ति तत्र गणपाः किल कामरूपाः
शूलासिबाणवरहस्तधृतोर्ध्वचापाः ।
देहप्रभाविजित तप्तसुजातरूपा
यूपा इवाग्रनिकरा अपि भूपरूपाः ॥ ७२॥
ईशानपूजननिरस्तसमस्तपापाः ॥ ७३॥
धृतबाणगणा गजेश्वरास्ते
भगणेशानविलासिसत्कपर्दाः ।
फणिभस्मविभूषणा ययुर्वै
हर ते शरणं हृदा सदा प्रपन्नाः ॥ ७४॥
॥ इति शिवरहस्यान्तर्गते शिवोद्वाहगमनवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । अध्यायः १७ शिवोद्वाहगमनवर्णनम् । ५-७४ ॥
- .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . adhyAyaH 17 shivodvAhagamanavarNanam . 5-74 ..
Notes:
Śiva शिव mounted on Nandi नन्दि; accompanied by several Deva-s देवाः, Ṛṣi-s ऋषयः et al, along with an extensive complex retinue commences the journey towards the abode of Himācala हिमाचल, for the Ceremony of Pāṇigrahaṇa पाणिग्रहण of Pārvatī पार्वती.
Proofread by Ruma Dewan