शिवप्रोक्तं श्रुतिसारनिरूपणम्

शिवप्रोक्तं श्रुतिसारनिरूपणम्

अहमेकोऽखिलाधारश्चाहं विश्वप्रवर्तकः । अहं विश्वमिदं सर्वं मय्येवान्त्ये विशत्यम्पि ॥ २॥ अहं धाता विधाताच मत्तोऽन्यो नास्तिकश्चन । सृजामीदं ग्रसामीदं भरामीदंसुरोत्तमाः ॥ ३॥ यथोर्णनाभिस्सूत्रांश्च ग्रसते सृजतीत्यपि । तथैवेदं जगज्जालं भवद्भिस्सुरसत्तमाः ॥ ४॥ कालात्माहं ब्रह्मक्षत्रमोदनं मृत्युपादशम् । अहं जीवं प्रविश्यैव सर्वभूतेषु संस्थितः ॥ ५॥ सर्वभूतेषु भूतान्तर्गुहायां सर्वदा स्थितः । सर्वेन्द्रियगुणातीतस्सर्वेन्द्रियविवर्जितः ॥ ६॥ मदाधारा इमे लोका लोक्या यूयं सुरासुराः । तपने तापकश्चाहं चन्द्रेचैव प्रसादकः ॥ ७॥ अनिले चलनश्चाहमनले ह्युष्णको ह्यहम् । इन्द्रे यमे प्रतापोऽहं लक्ष्मीश्चाहं धनाधिपे ॥ ८॥ अश्विनेऽपि च भैषज्यं मरुतां मातरस्सदा । विश्वेषां हृदयञ्चाहं वसूनां हृद्गतस्सदा ॥ ९॥ असुराणां सुराणाञ्च सम्पदा समवस्थितः । तमसा सात्विकेनैव मुनीनां राजसस्सुराः ॥ १०॥ गुणत्रयोऽहं विबुधा गुणहीनोऽस्मि केवलः । अहं हि निर्गुणस्साक्षात्तमः पारे प्रतिष्ठितः ॥ ११॥ अपांरसस्तथैवाहं ज्तोतिषां ज्योतिरस्म्यहम् । भूताकाशेचेतयिताव्यापकश्शब्दगोस्म्यहम् ॥ १२॥ पृथिव्याञ्च तथा गन्धो गुणो देवाश्च संस्थितः । वायुश्वाहं तथा देवा एतेषामाद्यसृष्टयः ॥ १३॥ (वायुश्वाहं तथा देवा एषां सन्धाविसृष्टयः) ॥ १३॥ चराचरमिदं प्रोक्तं जगत्स्थावरजङ्गमम् । एतेषामानुलोम्येन सृष्टयस्स्युः प्रवर्तिताः ॥ १४॥ एतेषां प्रातिलोम्येन स्थितौ प्रलयसञ्ज्ञिताः । एतेषां कार्यकरणे नैव किञ्चिदहं सुराः ॥ १५॥ निलिम्पा नैव लोपेन किन्तु साक्षी सनातनः । मत्सन्निधानविरहे जगन्नैव प्ररोचते ॥ १६॥ अयस्कान्तमणेर्यद्वत्सन्निधौ लोहसूचयः । चेष्टन्ति विविधं देवास्तथैवेदं जगत्सुराः ॥ १७॥ सन्निधौ चेष्टते मेऽद्य सर्वे क्रीडनका मम । मम रूपपरिज्ञानं भवतामतिदुर्लभम् ॥ १८॥ षडूर्मिरहितश्चाहं पञ्चकृत्यविवर्जितः । ब्रह्माप्यहं सृजामीदं रजसा केवलं जगत् ॥ १९॥ विष्णुःपालयिता चाहं सात्विकं गुणमास्थितः । रुद्रोभूत्वासंहरामि तामसोऽहं चराचरम् ॥ २०॥ सदाशिवोऽहं देवेशो ह्यनुग्रहकरोऽस्म्यहम् । मन्मायामोहितं चैव करोमीश्वररूपधृक् ॥ २१॥ पञ्चकृत्यपरश्चाहं पञ्चकोशातिगोऽस्म्यहम् । पञ्चप्राणविहीनोऽहं पञ्चभूतैकवर्तनः ॥ २२॥ इयं मम परा शक्तिर्विक्षेपावरणात्मिका । यया सम्मोहिता यूयं जगत्सासुरमानुषम् ॥ २३॥ स्थास्नुर्गछत्सुरेन्द्राश्च पराशक्तिरियं मम । सृष्टौ स्थितौ तथा नाशे कारणम्त्वियमेव हि ॥ २४॥ ममैव शक्तिः परमा विविधज्ञानदायिनी । एनां प्रणमत क्षिप्रमेतस्याः कृपया सुराः ॥ २५॥ मत्प्रसादादावरणशक्तिनाशः प्रजायते । यावत्कर्मविपाको हि देहिनां भवतां सुराः ॥ २६॥ विक्षेपाय च सा शक्तिरनुवर्तेत सत्तमाः । ममैवांशो जीव एव स्वाज्ञानात्परिजृम्भते ॥ २७॥ नानायोनिशरीरेषु ह्यशीर्णो दुःखभागभुक् । एवं द्विधा देहगेहे वृक्षे पक्षिवदास्थितौ ॥ २८॥ एकः कर्मात्मकं भुङ्क्ते फलं वै सुखदुःखयोः । तथान्यस्साक्षिवद्भाति द्वासुपर्णेति मन्त्रतः ॥ २९॥ ब्रह्मैव संसरत्येष स्वाविद्यातो दिवौकसः । स्वविद्यया मुच्यते च तपसाकेवलेन हि ॥ ३०॥ अहम्मानतयापन्नः फलभुक्सुखदुःखयोः । स्वर्गे च नरके चैव सदा वै सम्प्रवर्तते ॥ ३१॥ मज्ज्ञानान्मुक्तिमाप्नोतिनान्यथाकर्मकोटिभिः । जीवापेतम्म्रियत्येतन्नजीवोम्रियतेसुराः ॥ ३२॥ षडूर्मिरहितश्चाहं सर्वदेहेषु सत्तमाः । षट्कोशकमिदं देहं प्रविश्याखिलभासकः ॥ ३३॥ षडूर्मिरिन्द्रियोर्थैश्च कामयामि चराचरम् । (षड्वर्गैरिन्द्रियार्थैश्च कामयामि चराचरम्) । सत्यकामश्च सङ्कल्पस्सर्वलोकान्त्सृजाम्यहम् ॥ ३४॥ सङ्कल्पात्पितरोदेवाउपतिष्ठन्तिमामिह । नमेशोकोऽस्तिमोहोवाजिघृत्साचपिपासका ॥ ३५॥ अशरीरश्शरीरेषु ह्यनवस्थेष्ववस्थितः । महांश्चाहं विभुश्चाहमात्माशीर्योऽहमेव हि ॥ ३६॥ अवस्थात्रयदूरोऽहमसङ्गः पुरुषस्त्वहम् । सर्वाकाशस्सर्वभासस्सर्वावासोऽहमीश्वरः ॥ ३७॥ यो मां वेद स वेदेदं यो मामज्ञानमोहितः । परादात्स परादेदं ज्ञात्वानन्दं विभेति न ॥ ३८॥ शान्ति परां गच्छति च न कामी भवति स्थिरः । ब्रह्म मां वेद स ब्रह्म मां वेत्येव सुरासुराः ॥ ३९॥ (ब्रह्म मां वेद स ब्रह्म भवत्येव सुरासुराः) ॥ ३९॥ अस्तिब्रह्मेतिमांवेदतस्याहं मोचकोऽस्मि च । नान्तःप्रज्ञश्चन बहिःप्रज्ञानं ब्रह्मचास्म्यहम् ॥ ४०॥ एषोन्तर्मायिच सदा ह्यमृत्योर्मृत्युरूपतः । अहमेव सदा ब्रह्म साक्ष्यसाक्ष्यादिवर्जितः ॥ ४१॥ अयमात्मा सदा ब्रह्म देशकालस्थितोऽप्यहम् । तत्वमेतत्सर्वमसीत्यादिवाक्यैकरूपतः ॥ ४२॥ अहं वाक्येषु सर्वेषु चाहमेवास्मि भासकः । आनन्दं परमं ज्ञात्वा तरत्येव भवार्णवम् ॥ ४३॥ उपास्यं मामभिज्ञात्वा शोकमोहौ तरत्यपि । यूयं मामेव जानीथाप्यन्यत्सर्वं वृधैव हि ॥ ४४॥ सत्यं ज्ञानमनन्तोऽहं असत्यात्सत्यता जगत् । (सत्यं ज्ञानमनन्तोऽहं मत्सत्यात्सत्यता जगत्) । मत्सत्तयैव हि जडं चेतते विविधं जगत् ॥ ४५॥ महानन्दाम्बुधेस्सर्वे शीकरं जगदेव हि । रसोऽहं सर्वभूतेषु रसतां जानते तु ये ॥ ४६॥ रसास्तेनन्दमात्रञ्च जीवन्त्येवसुरास्सदा । कोवान्यःप्राणितिसदामदाकाशंविनासुराः ॥ ४७॥ न तत्र गच्छति मनो नवाग्गच्छति चेन्द्रियम् । परमात्माहमेवाद्य स एवाद्य स उश्वकः ॥ ४८॥ असङ्गस्त्वरसस्पर्शोह्यघ्राणो गन्ध एव हि । अपाणिपादकार्यादिः पायूपस्थादिवर्जितः ॥ ४९॥ प्रमाप्रमेयरहितस्तर्कदूरोऽहमेव हि । अहं जानामि सर्वं हि न मां जानाति कश्चन ॥ ५०॥ पराञ्चि खान्यकृणवं तस्मान्माञ्च न पश्यति । मत्प्रसादयुतः कश्चिज्जानात्येव हि वा न वा ॥ ५१॥ द्रष्टाहं दृश्यरहितो दर्शनञ्चाहमेव हि । षोडशोऽहं सुरश्रेष्ठाश्श्रोता घ्राताहमेव हि ॥ ५२॥ बुद्धेर्बोद्धा मनश्चापि प्राणप्राणोऽहमीश्वरः । सर्वा एव कला देहे चेन्द्रियाण्यहमेव हि ॥ ५३॥ सर्वे मय्येव लीयन्ते नाहं तेषु व्यवस्थितः । (सर्वे मय्येव लीयन्ते तेनाहं तेष्ववस्थितः) । एक एवाहमद्वैतश्चतुर्थश्शिव एव हि ॥ ५४॥ मज्जं मल्लञ्च मदनं जगद्विद्ध सुरास्सदा । भूमाहं परमानन्दो मां न जानाति कश्चन ॥ ५५॥ एकोऽहं भुवने जडाजडगतिस्स्वैरं हि नानाजगत् नास्त्येव प्रतिभाति किञ्चिदपि वै तन्मार्गतृष्णोपमम् । तेनाद्री न भवेत्क्षमा सुरगणा नास्त्येव किञ्चिज्जगत्सर्वं शम्भूतया विभाति सकलं कस्यस्विदेतत्सुराः ॥ ५६॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये शिवप्रोक्तं श्रुतिसारनिरूपणम् ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ५१ - श्रुतिसारनिरूपणम् । २-५६॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 51 - shrutisAranirUpaNam . 2-56.. Notes: Śiva शिव elucidates to Devī देवी the Essence of Śruti-s श्रुतिसार; whereby, He details about His Presence in all that is manifest and non-manifest, as told by Him to the Deva-s देवाः. Encoded and proofread by Ruma Dewan
% Text title            : Shivaproktam Shrutisaranirupanam
% File name             : shrutisAranirUpaNamshivaproktaM.itx
% itxtitle              : shrutisAranirUpaNam shivaproktam (shivarahasyAntargatA)
% engtitle              : shrutisAranirUpaNamshivaproktaM
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 51 - shrutisAranirUpaNam | 2-56||
% Indexextra            : (Scans 1)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org