शिवप्रोक्तं श्रुतिसारनिरूपणम्
अहमेकोऽखिलाधारश्चाहं विश्वप्रवर्तकः ।
अहं विश्वमिदं सर्वं मय्येवान्त्ये विशत्यम्पि ॥ २॥
अहं धाता विधाताच मत्तोऽन्यो नास्तिकश्चन ।
सृजामीदं ग्रसामीदं भरामीदंसुरोत्तमाः ॥ ३॥
यथोर्णनाभिस्सूत्रांश्च ग्रसते सृजतीत्यपि ।
तथैवेदं जगज्जालं भवद्भिस्सुरसत्तमाः ॥ ४॥
कालात्माहं ब्रह्मक्षत्रमोदनं मृत्युपादशम् ।
अहं जीवं प्रविश्यैव सर्वभूतेषु संस्थितः ॥ ५॥
सर्वभूतेषु भूतान्तर्गुहायां सर्वदा स्थितः ।
सर्वेन्द्रियगुणातीतस्सर्वेन्द्रियविवर्जितः ॥ ६॥
मदाधारा इमे लोका लोक्या यूयं सुरासुराः ।
तपने तापकश्चाहं चन्द्रेचैव प्रसादकः ॥ ७॥
अनिले चलनश्चाहमनले ह्युष्णको ह्यहम् ।
इन्द्रे यमे प्रतापोऽहं लक्ष्मीश्चाहं धनाधिपे ॥ ८॥
अश्विनेऽपि च भैषज्यं मरुतां मातरस्सदा ।
विश्वेषां हृदयञ्चाहं वसूनां हृद्गतस्सदा ॥ ९॥
असुराणां सुराणाञ्च सम्पदा समवस्थितः ।
तमसा सात्विकेनैव मुनीनां राजसस्सुराः ॥ १०॥
गुणत्रयोऽहं विबुधा गुणहीनोऽस्मि केवलः ।
अहं हि निर्गुणस्साक्षात्तमः पारे प्रतिष्ठितः ॥ ११॥
अपांरसस्तथैवाहं ज्तोतिषां ज्योतिरस्म्यहम् ।
भूताकाशेचेतयिताव्यापकश्शब्दगोस्म्यहम् ॥ १२॥
पृथिव्याञ्च तथा गन्धो गुणो देवाश्च संस्थितः ।
वायुश्वाहं तथा देवा एतेषामाद्यसृष्टयः ॥ १३॥
(वायुश्वाहं तथा देवा एषां सन्धाविसृष्टयः) ॥ १३॥
चराचरमिदं प्रोक्तं जगत्स्थावरजङ्गमम् ।
एतेषामानुलोम्येन सृष्टयस्स्युः प्रवर्तिताः ॥ १४॥
एतेषां प्रातिलोम्येन स्थितौ प्रलयसञ्ज्ञिताः ।
एतेषां कार्यकरणे नैव किञ्चिदहं सुराः ॥ १५॥
निलिम्पा नैव लोपेन किन्तु साक्षी सनातनः ।
मत्सन्निधानविरहे जगन्नैव प्ररोचते ॥ १६॥
अयस्कान्तमणेर्यद्वत्सन्निधौ लोहसूचयः ।
चेष्टन्ति विविधं देवास्तथैवेदं जगत्सुराः ॥ १७॥
सन्निधौ चेष्टते मेऽद्य सर्वे क्रीडनका मम ।
मम रूपपरिज्ञानं भवतामतिदुर्लभम् ॥ १८॥
षडूर्मिरहितश्चाहं पञ्चकृत्यविवर्जितः ।
ब्रह्माप्यहं सृजामीदं रजसा केवलं जगत् ॥ १९॥
विष्णुःपालयिता चाहं सात्विकं गुणमास्थितः ।
रुद्रोभूत्वासंहरामि तामसोऽहं चराचरम् ॥ २०॥
सदाशिवोऽहं देवेशो ह्यनुग्रहकरोऽस्म्यहम् ।
मन्मायामोहितं चैव करोमीश्वररूपधृक् ॥ २१॥
पञ्चकृत्यपरश्चाहं पञ्चकोशातिगोऽस्म्यहम् ।
पञ्चप्राणविहीनोऽहं पञ्चभूतैकवर्तनः ॥ २२॥
इयं मम परा शक्तिर्विक्षेपावरणात्मिका ।
यया सम्मोहिता यूयं जगत्सासुरमानुषम् ॥ २३॥
स्थास्नुर्गछत्सुरेन्द्राश्च पराशक्तिरियं मम ।
सृष्टौ स्थितौ तथा नाशे कारणम्त्वियमेव हि ॥ २४॥
ममैव शक्तिः परमा विविधज्ञानदायिनी ।
एनां प्रणमत क्षिप्रमेतस्याः कृपया सुराः ॥ २५॥
मत्प्रसादादावरणशक्तिनाशः प्रजायते ।
यावत्कर्मविपाको हि देहिनां भवतां सुराः ॥ २६॥
विक्षेपाय च सा शक्तिरनुवर्तेत सत्तमाः ।
ममैवांशो जीव एव स्वाज्ञानात्परिजृम्भते ॥ २७॥
नानायोनिशरीरेषु ह्यशीर्णो दुःखभागभुक् ।
एवं द्विधा देहगेहे वृक्षे पक्षिवदास्थितौ ॥ २८॥
एकः कर्मात्मकं भुङ्क्ते फलं वै सुखदुःखयोः ।
तथान्यस्साक्षिवद्भाति द्वासुपर्णेति मन्त्रतः ॥ २९॥
ब्रह्मैव संसरत्येष स्वाविद्यातो दिवौकसः ।
स्वविद्यया मुच्यते च तपसाकेवलेन हि ॥ ३०॥
अहम्मानतयापन्नः फलभुक्सुखदुःखयोः ।
स्वर्गे च नरके चैव सदा वै सम्प्रवर्तते ॥ ३१॥
मज्ज्ञानान्मुक्तिमाप्नोतिनान्यथाकर्मकोटिभिः ।
जीवापेतम्म्रियत्येतन्नजीवोम्रियतेसुराः ॥ ३२॥
षडूर्मिरहितश्चाहं सर्वदेहेषु सत्तमाः ।
षट्कोशकमिदं देहं प्रविश्याखिलभासकः ॥ ३३॥
षडूर्मिरिन्द्रियोर्थैश्च कामयामि चराचरम् ।
(षड्वर्गैरिन्द्रियार्थैश्च कामयामि चराचरम्) ।
सत्यकामश्च सङ्कल्पस्सर्वलोकान्त्सृजाम्यहम् ॥ ३४॥
सङ्कल्पात्पितरोदेवाउपतिष्ठन्तिमामिह ।
नमेशोकोऽस्तिमोहोवाजिघृत्साचपिपासका ॥ ३५॥
अशरीरश्शरीरेषु ह्यनवस्थेष्ववस्थितः ।
महांश्चाहं विभुश्चाहमात्माशीर्योऽहमेव हि ॥ ३६॥
अवस्थात्रयदूरोऽहमसङ्गः पुरुषस्त्वहम् ।
सर्वाकाशस्सर्वभासस्सर्वावासोऽहमीश्वरः ॥ ३७॥
यो मां वेद स वेदेदं यो मामज्ञानमोहितः ।
परादात्स परादेदं ज्ञात्वानन्दं विभेति न ॥ ३८॥
शान्ति परां गच्छति च न कामी भवति स्थिरः ।
ब्रह्म मां वेद स ब्रह्म मां वेत्येव सुरासुराः ॥ ३९॥
(ब्रह्म मां वेद स ब्रह्म भवत्येव सुरासुराः) ॥ ३९॥
अस्तिब्रह्मेतिमांवेदतस्याहं मोचकोऽस्मि च ।
नान्तःप्रज्ञश्चन बहिःप्रज्ञानं ब्रह्मचास्म्यहम् ॥ ४०॥
एषोन्तर्मायिच सदा ह्यमृत्योर्मृत्युरूपतः ।
अहमेव सदा ब्रह्म साक्ष्यसाक्ष्यादिवर्जितः ॥ ४१॥
अयमात्मा सदा ब्रह्म देशकालस्थितोऽप्यहम् ।
तत्वमेतत्सर्वमसीत्यादिवाक्यैकरूपतः ॥ ४२॥
अहं वाक्येषु सर्वेषु चाहमेवास्मि भासकः ।
आनन्दं परमं ज्ञात्वा तरत्येव भवार्णवम् ॥ ४३॥
उपास्यं मामभिज्ञात्वा शोकमोहौ तरत्यपि ।
यूयं मामेव जानीथाप्यन्यत्सर्वं वृधैव हि ॥ ४४॥
सत्यं ज्ञानमनन्तोऽहं असत्यात्सत्यता जगत् ।
(सत्यं ज्ञानमनन्तोऽहं मत्सत्यात्सत्यता जगत्) ।
मत्सत्तयैव हि जडं चेतते विविधं जगत् ॥ ४५॥
महानन्दाम्बुधेस्सर्वे शीकरं जगदेव हि ।
रसोऽहं सर्वभूतेषु रसतां जानते तु ये ॥ ४६॥
रसास्तेनन्दमात्रञ्च जीवन्त्येवसुरास्सदा ।
कोवान्यःप्राणितिसदामदाकाशंविनासुराः ॥ ४७॥
न तत्र गच्छति मनो नवाग्गच्छति चेन्द्रियम् ।
परमात्माहमेवाद्य स एवाद्य स उश्वकः ॥ ४८॥
असङ्गस्त्वरसस्पर्शोह्यघ्राणो गन्ध एव हि ।
अपाणिपादकार्यादिः पायूपस्थादिवर्जितः ॥ ४९॥
प्रमाप्रमेयरहितस्तर्कदूरोऽहमेव हि ।
अहं जानामि सर्वं हि न मां जानाति कश्चन ॥ ५०॥
पराञ्चि खान्यकृणवं तस्मान्माञ्च न पश्यति ।
मत्प्रसादयुतः कश्चिज्जानात्येव हि वा न वा ॥ ५१॥
द्रष्टाहं दृश्यरहितो दर्शनञ्चाहमेव हि ।
षोडशोऽहं सुरश्रेष्ठाश्श्रोता घ्राताहमेव हि ॥ ५२॥
बुद्धेर्बोद्धा मनश्चापि प्राणप्राणोऽहमीश्वरः ।
सर्वा एव कला देहे चेन्द्रियाण्यहमेव हि ॥ ५३॥
सर्वे मय्येव लीयन्ते नाहं तेषु व्यवस्थितः ।
(सर्वे मय्येव लीयन्ते तेनाहं तेष्ववस्थितः) ।
एक एवाहमद्वैतश्चतुर्थश्शिव एव हि ॥ ५४॥
मज्जं मल्लञ्च मदनं जगद्विद्ध सुरास्सदा ।
भूमाहं परमानन्दो मां न जानाति कश्चन ॥ ५५॥
एकोऽहं भुवने जडाजडगतिस्स्वैरं हि नानाजगत्
नास्त्येव प्रतिभाति किञ्चिदपि वै तन्मार्गतृष्णोपमम् ।
तेनाद्री न भवेत्क्षमा सुरगणा नास्त्येव किञ्चिज्जगत्सर्वं
शम्भूतया विभाति सकलं कस्यस्विदेतत्सुराः ॥ ५६॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये शिवप्रोक्तं श्रुतिसारनिरूपणम् ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ५१ - श्रुतिसारनिरूपणम् । २-५६॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 51 - shrutisAranirUpaNam . 2-56..
Notes:
Śiva शिव elucidates to Devī देवी the Essence of Śruti-s श्रुतिसार; whereby, He details about His Presence in all that is manifest and non-manifest, as told by Him to the Deva-s देवाः.
Encoded and proofread by Ruma Dewan