शुक्राचार्यकृतं शिवस्तोत्रम्

शुक्राचार्यकृतं शिवस्तोत्रम्

तदा तिर्यक्स्थितस्त्वेवं तुष्टुवे नीललोहितम् । शुक्र उवाच । नमोऽस्तु शितिकण्ठाय सुराद्याय सुवर्चसे ॥ २, ७२.१६३॥ लेलिहानाय लेह्याय वत्सराय जगत्पते । कपर्दिने ह्यूर्द्ध्वरोम्णे हर्यक्षवरदाय च ॥ २, ७२.१६४॥ संस्तुताय सुतीर्थाय देवदेवाय रंहसे । उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे ॥ २, ७२.१६५॥ वसुरेताय रुद्राय तपसे चीरवाससे । निःस्वाय मुक्तकेशाय सेनान्ये रोहिताय च ॥ २, ७२.१६६॥ कवये राजवृद्धाय तक्षकक्रीडनाय च । गिरिशायार्कनेत्राय यतये चाज्यपाय च ॥ २, ७२.१६७॥ सुवृत्ताय सुहस्ताय धन्विने भार्गवाय च । सहस्रबाहवे चैव सहस्रामलचक्षुषे ॥ २, ७२.१६८॥ सहस्रकुक्षये चैव सहस्रचरणाय च । सहस्रशिरसे चैव बहुरूपाय वेधसे ॥ २, ७२.१६९॥ भवाय विश्वरूपाय श्वेताय पुरुषाय च । निषङ्गिणे कवचिने सूक्ष्माय क्षपणाय च ॥ २, ७२.१७०॥ ताम्राय चैव भीमाय उग्राय च शिवाय च । महादेवाय सर्वाय विश्वरूपशिवाय च ॥ २, ७२.१७१॥ हिरण्याय वसिष्ठाय वर्षाय मध्यमाय च । धाम्ने चैव पिशङ्गाय पिङ्गलायारुणाय च ॥ २, ७२.१७२॥ पिनाकिने चेषुमते चित्राय रोहिताय च । दुन्दुभ्यायैकपादाय अर्हाय बुद्धये तथा । मृगव्याधाय सर्वाय स्थाणवे भीषणाय च ॥ २, ७२.१७३॥ बहुरूपाय चोग्राय त्रिनेत्रायेश्वराय च । कपिलायैकवीराय मृत्यवे त्र्यम्बकाय च ॥ २, ७२.१७४॥ वास्तोष्पते पिनाकाय शङ्कराय शिवाय च । आरण्याय गृहस्थाय यतिने बह्मचारिणे ॥ २, ७२.१७५॥ साङ्ख्याय चैव योगाय ध्यानिने दीक्षिताय च । अन्तर्हिताय सर्वाय तप्याय व्यापिने तथा ॥ २, ७२.१७६॥ बुद्धाय चैव शुद्धाय मुक्ताय केवलाय च । रोधसे चैकितानाय ब्रह्मिष्ठाय महर्षये ॥ २, ७२.१७७॥ चतुष्पादाय मेध्याय वर्मिणे शीघ्रगाय च । शिखण्डिने कपालाय दण्डिने विश्वमेधसे ॥ २, ७२.१७८॥ अप्रतीताय दीप्ताय भास्कराय सुमेधसे । क्रूराय विकृतायैव बीभत्साय शिवाय च ॥ २, ७२.१७९॥ शुचये परिधानाय सद्योजाताय मृत्यवे । पिशिताशाय शर्वाय मेघाय वैद्युताय च ॥ २, ७२.१८०॥ दक्षाय च जघन्याय लोकानामीश्वराय च । अनामयाय चेध्माय हिरण्यायैकचक्षुषे ॥ २, ७२.१८१॥ श्रेष्ठाय वामदेवाय ईशानाय च धीमते । महाकल्पाय दीप्ताय रोदनाय हसाय च ॥ २, ७२.१८२॥ दृढधन्विने कवचिने रथिने च वरूथिने । भृगुनाथाय शुक्राय गह्वरिष्ठाय धीमते ॥ २, ७२.१८३॥ अमोघाय प्रशान्ताय सदा विप्रप्रियाय च । दिग्वासः कृत्तिवासाय भगघ्नाय नमोऽस्तु ते ॥ २, ७२.१८४॥ पशूनां पतये चैव भूतानां पतये नमः । प्रभवे ऋग्यजुःसाम्ने स्वाहायै च सुधाय च ॥ २, ७२.१८५॥ वषट्कारतमायैव तुभ्यं मन्त्रात्मने नमः । स्रष्ट्रे धात्रे तथा कर्त्रे हर्त्रे च क्षपणाय च ॥ २, ७२.१८६॥ भूतभव्यभवेशाय तुभ्यं कर्मात्मने नमः । वसवे चैव साध्याय रुद्रादित्याश्विनाय च ॥ २, ७२.१८७॥ विश्वाय मरुते चैव तुभ्यं देवात्मने नमः । अग्नीषोमविधिज्ञाय पशुमन्त्रौषधाय च ॥ २, ७२.१८८॥ दक्षिणावभृथायैव तुभ्यं यज्ञात्मने नमः । तपसे चैव सत्याय त्यागाय च शमाय च ॥ २, ७२.१८९॥ अहिंसायाथ लोभाय सुवेषायानिशाय च । सर्वभूतात्प्रभूताय तुभ्यं योगात्मने नमः ॥ २, ७२.१९०॥ पृथिव्यै चान्तरिक्षाय महसे त्रिदिवाय च । जनस्तपाय सत्याय तुभ्यं लोकात्मने नमः ॥ २, ७२.१९१॥ अव्यक्तायाथ महते भूतायैवेन्द्रियाय च । तन्मात्रायाथ महते तुभ्यं तत्त्वात्मने नमः ॥ २, ७२.१९२॥ नित्याय चाप्यलिङ्गाय सूक्ष्माय चेतराय च । शुद्धाय विभवे चैव तुभ्यं नित्यात्मने नमः ॥ २, ७२.१९३॥ नमस्ते त्रिषु लोकेषु स्वरन्तेषु भुवादिषु । सत्यान्तमहराद्येषु चतुर्षु च नमोऽस्तु ते ॥ २, ७२.१९४॥ नामस्तोत्रे मया ह्यस्मिन्यदसद्व्याहृतं प्रभो । मद्भक्त इति ब्रह्मण्य सर्वं तत्क्षन्तुमर्हसि ॥ २, ७२.१९५॥ इति श्रीब्रह्माण्डपुराणे मध्यमभागे द्विसप्ततितमाध्यायान्तर्गतं शुक्राचार्यकृतं शिवस्तोत्रं समाप्तम् । ब्रह्माण्डपुराण । मध्यभाग । उपोद्धात । अध्याय ७२/१६३-१९५॥ brahmANDapurANa . madhyabhAga . upoddhAta . adhyAya 72/163-195.. Proofread by PSA Easwaran
% Text title            : Shukracharyakritam Shiva Stotram
% File name             : shukrAchAryakRRitaMshivastotram.itx
% itxtitle              : shivastotram (shukrAchAryakRitaM brahmANDapurANAntargatam tadA tiryaksthitastvevaM tuShTuve nIlalohitam)
% engtitle              : shukrAchAryakRRitaM shivastotram
% Category              : shiva, brahmANDapurANa, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : brahmANDapurANa | madhyabhAga | upoddhAta | adhyAya 72/163-195||
% Indexextra            : (Scans 1, 2, English)
% Latest update         : October 1, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org