स्कन्दप्रोक्तं महेश्वरचरितम्
(शिवरहस्यान्तर्गते भीमाख्ये)
स्कन्द उवाच ।
ईशाङ्गसङ्गो भङ्गाय दुःखानामेव केवलम् ।
भवतीशप्रसादेन भवनाशो महामुने ॥ ११॥
शम्भोः कथाकर्णनेन कर्णौधन्यतरौ तव ।
मम वक्त्राणि धन्यानि लोचनावलिरेव मे ॥ १२॥
शिवलिङ्गालोकनेन कैलासे शङ्करालये ।
तूर्णमभ्यर्णगा मुक्तिरपर्णापतिपूजया ॥ १३॥
पापारण्यमहादावः शङ्करस्यैव पूजनम् ।
न विना शङ्करस्यार्चां संसारोत्तारणं भवेत् ॥ १४॥
भस्माङ्गरागो यो भूयाद्भावो भवपदार्चकः ।
भावभावं भजत्येव भाव एव हि भाग्यवान् ॥ १५॥
शङ्गलिङ्गार्चनेनैव पापभङ्गः प्रजायते ।
अनङ्गमातङ्गहरपादार्चकजनप्रियः ॥ १६॥
भवत्येव विशेषेण शाम्भवो भुवि भाग्यवान् ।
महादेवस्मृतिः सद्यो विद्योतयति तं नरम् ॥ १७॥
सुरं वा किन्नरं वापि उरगं यक्षमेव वा ।
गन्धर्वं गरुडं वापि कीटं पतगमेव वा ॥ १८॥
करोति शङ्करकृपा मोक्षायैव न संशयः ।
न किं ददाति साम्राज्यं प्राज्यं भक्तेषु केवलम् ॥ १९॥
यदुदारकथासारसारसानां महात्मनाम् ।
भवन्ति सम्पदो नित्यं सर्वेषु सुखहेतवे ॥ २०॥
भावैकसुलभो देवो भक्तवश्यो भयापहः ।
भावग्राह्योह्यनिग्राह्य इत्याहाथर्वणी श्रुतिः ॥ २१॥
तेनैव सर्वमुक्त्यर्थं सृष्टं शङ्करपूजनम् ।
नास्त्यन्यत्तारणं नॄणां विना विश्वेशपूजनम् ॥ २२॥
कः सन्तरेत भवदामसारां सारवासनाम् ।
तां मृत्युञ्जयपूजार्थमुपयुज्य सुखी भवेत् ॥ २३॥
तां विनान्यत्र धर्मेज्याकरणे मास्तु ते पदम् ।
श्रीमृत्युञ्जयपूजैव सुलभा मोक्षदायिनी ॥ २४॥
न पूजा पूजकोवाऽस्य स्वतन्त्रस्येश्वरस्य हि ।
किं तु सर्वाभयार्थं हि सृष्टं वै लिङ्गपूजनम् ॥ २५॥
लिङ्गेऽर्चितो महादेवो ददाति विपुलां श्रियम् ।
विमुक्तिजनकं ज्ञानं ददात्येव महेश्वरः ॥ २६॥
यः सकृद्बिल्वपत्रेण द्वित्रैर्वा पूजयेद्भवम् ।
भवो भवहरो भूयाद्भावानां नात्र संशयः ॥ २७॥
यस्य सम्पूजनादेव ब्रह्मविष्ण्वादयः सुराः ।
सेन्द्राः सवरुणा देवा निवसन्ति त्रिविष्टपे ॥ २८॥
असुरा यक्षरक्षांसि मुनयो मनवस्तथा ।
प्रियं लिङ्गार्चनं शम्भोर्नान्यत्किञ्चिन्मुनीश्वर ॥ २९॥
न दानैर्नैव तपसा न वर्णाश्रमधर्मतः ।
एतद्धि सार्थकं श्रौतं श्रीमहादेवपूजनम् ॥ ३०॥
विश्वेशपूजया विश्वं सर्वं सम्पूजितं भवेत् ।
विश्वाधिको महादेवः सर्ववेदान्तसंस्तुतः ॥ ३१॥
स्मृतः सम्पूजितो नित्यं ध्यातो वा मुक्तिदायकः ।
दर्शनं स्पर्शनं लङ्गे ``अयं मे'' इति मन्त्रतः ॥ ३२॥
सर्वपापक्षयायैव मुक्तये भवते नृणम् ।
यो महेशं सकृद्ध्यात्वा स्वहृदम्भोजमध्यगम् ॥ ३३॥
उमासहायं त्र्यक्षं च नीलकण्ठं स सत्यभाक् ।
मान्यः सुराणां सर्वेषां मुनीनामपि वै मुने ॥ ३४॥
मन्ये महामन्युसमो न देवः करुणाकरः ।
अपराधिषु भक्तेषु सहमानः स एव हि ॥ ३५॥
चुलुकं जलमात्रं वा त्रुटितं बिल्वजं दलम् ।
ददाति नियमाद्यो वै तस्मै मुक्तिं प्रयच्छति ॥ ३६॥
ब्रह्मादिदुर्लभं ज्ञानं ददात्येव महेश्वरः ।
विश्वनाथो ह्यनाथं तं सनाथं कुरुते नरम् ॥ ३७॥
स्वभक्तं मन्मथारातिरनाथजनवत्सलः ।
तस्यैव भक्त्या सुलभो मोक्षो नो धर्मकोटिभिः ॥ ३८॥
तस्येशस्य प्रसादार्थं सृष्टा हि विविधाः क्रियाः ।
जपहोमार्चनध्यानव्रतकृच्छ्राणि सत्तम ॥ ३९॥
योगः साङ्ख्यं च तन्त्राणि स्मृतयो निगमा अपि ।
आगमाश्चापि विविधा यन्त्रतन्त्रपराणि च ॥ ४०॥
श्रुतयः स्मृतयः सर्वा वर्णाश्रमनिबन्धनाः ।
बन्धनायैव सर्वेषां न मुक्त्यै(क्तेः) कारणं(साधनं) भवेत् ॥ ४१॥
प्रसादकारणान्येव न प्रसादो भवेद्धि तैः ।
प्रसादकारणं शम्भोर्भक्तिर्या निश्चला शिवे (?) ॥ ४२॥
भक्त्यैव भवपाशेभ्यो मोचनं जायते नृणाम् ।
भक्तिरेव विरूपाक्षे सदा कार्या मुनीश्वर ॥ ४३॥
भस्माभ्यक्ततनुर्भावो भवलिङ्गं समर्चयन् ।
कालमृत्योश्च मुच्येत संसारोद्धतसर्पतः ॥ ४४॥
रुद्राक्षमालाभरणो रुद्रसूक्तजपादरः ।
पञ्चाक्षरपरो नित्यं सर्वदा शिवपूजकः ॥ ४५॥
स एव मुक्तिकान्तायाः पतिरीशेन कल्पितः ।
रुद्रक्षेत्रादिनिरतो विरतो भवसागरात् ॥ ४६॥
जागरुकः सदाऽतन्द्रो भवतीश्वरचिन्तकः ।
जरामृत्युजगज्जन्म सुखदुःखाकुलं जगत् ॥ ४७॥
पश्यन्मा प्रमदो भूयाद्विश्वेशपदपूजने ।
आयुर्यात्येव नियतमामकुम्भे यथा पयः ॥ ४८॥
सम्पदो विपदस्ता हि स्वर्गे धर्मे तु नश्वराः ।
शोकमोहसमाक्रान्ताः ससुरासुरमानवाः ॥ ४९॥
धनं क्षयान्तं सर्वेषां प्रियाणां विप्रयोगिता ।
परीक्ष्य सर्वं दुःखान्तं विरज्येतेति हि श्रुतिः ॥ ५०॥
नायुरायाति हि गतं धर्माद्यर्थानुचिन्तया ।
स्वस्थो हृत्स्थं शिवं ध्यायेत्तेन दुःखैर्विमुच्यते ॥ ५१॥
॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं महेश्वरचरितं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः ५ । ११-५१॥
- .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 5 . 11-51..
Notes:
Skanda स्कन्द; upon being requested by Jaigīṣavya जैगीषव्य, elaborates about MaheśvaraCaritam महेश्वरचरितम्.
Skanda स्कन्द mentions the Śivaliṅga sparśa mantra शिवलिङ्ग स्पर्श मन्त्र viz. ayaṃ me ... अयं मे ... - which is as follows:
Ayaṃ me hasto bhagavān ayaṃ me bhagavattaraḥ .
Ayaṃ me viśvabheṣajo'yaṃ Śivābhimarśanaḥ .. Ṛgvedaḥ.10.60.12..
अयं मे हस्तो भगवान् अयं मे भगवत्तरः ।
अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः ॥ ऋग्वेदः.१०.६०.१२ ॥
Proofread by Ruma Dewan