स्कन्दप्रोक्तं मन्मथदाहकथनम्
(शिवरहस्यान्तर्गते ईशाख्ये)
स्कन्द उवाच ।
सतीकान्तचित्तं प्रलोब्धुं वसन्तो
मुदा तत्र चक्रे वनं तत्सुकान्तम् ।
गिरौ मन्दरे मन्दिराभे शिवस्य
कुन्दारविन्दादिसुभैः प्रकामम् ॥ ३५॥
प्रभाकरकरस्फुरत्कमलकोशलीनालयः
परागरसरञ्जिताः परिपतन्ति पुष्पद्रुमान् ।
पलाशकुसुमावलीमिव शुकास्यभागे तदा
शुका अपि मुखागतान् विगलयन्ति जम्बूमिव ॥ ३६॥
पुरण्टकुटजावली विधृतपुष्पसत्कोरकैः
शमीकुसुमपाटलीपटलगन्धबन्धानिलैः ।
सुबिल्वकुसुमोत्करप्रभवगन्धसन्मेदुरो
विभाति किल मन्दरः कुसुमशाखिसच्छेखरः ॥ ३७॥
सुमन्दरसरोवरप्रथिततीरमन्दारजैः
विकासितसुमोद्गतैर्विमलवातगन्धायितैः ।
सुपर्णसुमगुच्छकैर्वरसुकर्णिकारोद्भवैः
कनत्कनकपुष्पवच्छिखरमत्र भाभाति वै ॥ ३८॥
क्रौञ्चाक्रान्तबकोरुपक्षचलनैर्लीनाश्चमीनाश्च ते
सारस्याः सरसीरुहेषु मधुपाः श्राम्यन्ति भ्राम्यन्त्यपि ।
एवं तत्सुमगन्ध गन्धितवनं दृष्ट्वा प्रहृष्टो हरः ॥ ३९॥
रतिपतिरतिलाघवेन शम्भुं
हृदये संविभेदेऽथ पुष्पबाणैः ।
कुसुमेषं कुसुमावलीढदेहं
यमघोरान्धकशासनो ददर्श ॥ ४०॥
अनलाक्षिकोणलक्ष्यमीशो
गरकण्ठो व्यदधादनङ्गसंज्ञमेनम् ।
भस्मीभूतमनङ्ग सुन्दरतनुं दृष्ट्वैव तत्पृष्ठगाव
सास्राक्षी रतिरीशमस्तुवदसौ शोकाकुलोत्कण्ठिता ॥ ४१॥
रतिरुवाच ।
हे वासुदेवनयनार्चित कामदेव
भस्माङ्गराग वरभूषित वामदेव ।
श्रीवामदेव्यमरतोषित भूमिदेव
पूज्य प्रसीद परमेश्वर देव देव ॥ ४२॥
महादेव देवाधिदेव प्रसीद
प्रसीद प्रसीद प्रभो कालकाल ।
पत्या विहीनां कृपापारसिन्धो
पत्या सनाथां कुरुष्वेश मां त्वम् ॥ ४३॥
विभौ मारसर्वस्वमप्यन्तरङ्गं
सदाखर्वगर्वाधिरूढं प्रमूढम् ।
मृडानीपते गूढपाद्भूषयोषा-
विशेषाङ्ग कामाङ्गनाश प्रसीद ॥ ४४॥
सूत उवाच ।
सत्याः स्तुत्या च तुष्टो गिरिवरशिखरे सत्यवाचा विहृत्य
पातिव्रत्यानुभूत्या स किल पुरहरस्तामनङ्गेन योज्याम् ।
काले देव्याः कटाक्षैस्तव पतिरमरो जायते इत्यशात्तां
शान्तां कान्तप्रदानाद्गिरिशवरकृपापात्रभूतां रतिं ताम् ॥ ४५॥
देवास्ते प्रययुः सभीतिहृदयास्ते कान्दिशीकाः प्रभोः
क्रोधान्धीकृतलोचनस्य पुरतः स्थातुं न शेकुस्तदा ।
इन्द्राग्नी यमनिरृती च वरुणः सोमार्यमाद्याः ययुः
प्रख्यातुं वरमन्मथाङ्गदहनं देवेन तद्ब्रह्मणे ॥ ४६॥
॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं मन्मथदाहकथनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । अध्यायः ११ मन्मथदाहः । ३५-४६ ॥
- .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . adhyAyaH 11 manmathadAhaH . 35-46 ..
Notes:
Skanda स्कन्द narrates about the incidence about Manmathadāha मन्मथदाह via the Fire from the Third Eye of Śiva शिव as there is an attempt made by Kāmadeva कामदेव to disturb His Deep State of Dhyāna ध्यान.
Rati रति tries to appease Śiva शिव and requests Him to bring her husband back to life, and He kindly grants her the wish.
Proofread by Ruma Dewan