स्कन्दप्रोक्तं शिवार्चनोपदेशम्
(शिवरहस्यान्तर्गते महादेवाख्ये)
शिवमिष्ट्वा नरः सोऽपि प्रयाति परमां गतिम् ।
शिवं सर्वत्र सम्पूज्य सविशेषं सविस्तरम् ॥ ३८॥
अश्वमेधायुतं पुण्यं लभते नात्र संशयः ।
सरित्समुद्रतीरेषु पर्वतेषु वनेषु च ॥ ३९॥
गिरिकन्दरदुर्गेषु गह्वरेषु वनेषु च ।
पुष्करिण्यां तथाऽन्यत्र तीर्थायतनसंश्रये ॥ ४०॥
यत्र वा रमते बुद्धिस्तत्रैव शिवमर्चयेत् ।
सर्वयज्ञेषु यत्पुण्यं लभते नात्र संशयः ॥ ४१॥
यः समर्चयते भक्त्या तस्य पुण्यं ततोऽधिकम् ।
अतो विनापि मन्त्रेण पुण्यराशिः प्रकीर्तितः ॥ ४२॥
स्यादयं मन्त्रसंयुक्तः पुण्यं शतगुणाधिकम् ।
तस्मान्मन्त्रेण शर्वाय स्नानगन्धफलादिकम् ॥ ४३॥
भूम्यश्वरथवस्त्रं च हेमाद्यादि निवेदयेत् ।
जप्यो नमः शिवायेति मन्त्रः सर्वार्थसाधकः ॥ ४४॥
सर्वमन्त्राधिकश्चायमोङ्काराद्यः षडक्षरः ।
शिवो नान्तर्बहिर्यस्माद् व्याप्तं सर्वं चराचरम् ॥ ४५॥
जगदमिति यद्ब्रूते तस्मादोमिति स स्मृतः ।
अयमर्थो हि तिसृभिर्मातृभिः परिगीयते ॥ ४६॥
ब्रह्मा हरिश्च रुद्रश्च मातृभिस्तत्प्रकीर्तिताः ।
दक्षिणाङ्गे भवेद्ब्रह्मा हरिर्वामाङ्गसम्भवः ॥ ४७॥
हृदयान्निर्गतो रुद्रो ब्रह्मविष्णुप्रबोधकः ।
जगत्सृष्टिकरो ब्रह्मा विष्णुर्लोकविमोहनः ॥ ४८॥
अनुग्रहपरो नित्यं नीलरुद्रः शिवात्मकः ।
त्रिभिरेतैर्जगद्व्याप्तं कारणैरात्ममूर्तिभिः ॥ ४९॥
शिवस्य मातरश्चैताः सर्वलोकप्रपूजिताः ।
एता एव त्रयो वेदास्त्रयो लोकास्त्रयो गुणाः ॥ ५०॥
त्रयोऽग्नयः त्रिवर्गश्च यच्चान्यज्जगति स्थितम् ।
अर्धमात्रापरो रुद्रः शिवः परमकाराणः ॥ ५१॥
तस्मादेतत्समुत्पन्नं जगतः कारणत्रयम् ।
सर्वयज्ञपरः शुद्धो नमस्कारो महामखः ॥ ५२॥
नमस्कारात्मयज्ञेन तस्मात्सम्पूजयेच्छिवम् ।
अज्ञानमशिवं त्वस्य सर्वदुःखालयं यतः ॥ ५३॥
स्वभावात्तदपायो हि तस्माद्रुदः परः शिवः ।
नमः शिवाय शान्ताय कारणत्रयहेतवे ॥ ५४॥
निवेदयामि चात्मानं मुक्त्यै च परमेश्वरम् ।
उक्त्वा नमः शिवायेति मुच्यते सर्वबन्धनात् ॥ ५५॥
यस्मात्तस्मात्सदा मन्त्रमोङ्काराद्यं मनुं स्मरेत् ।
सर्वदा सर्वकार्येषु क्षुतनिष्ठो वनादिषु ॥ ५६॥
धन्यो नमः शिवायेति गिरमुक्त्वा शिवं पदम् ।
यः सर्ववित्प्रबुद्धात्मा प्राणान्ते तु सकृत्स्मरेत् ॥ ५७॥
भक्त्यों नमः शिवायेति स गच्छेत्परमां गतिं ।
पाठ्येनापि नमस्कारः प्रयुक्तः शूलपाणये ॥ ५८॥
संसारस्थर्णबन्धानामुच्छेदनकरो भवेत् ।
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ॥ ५९॥
यः स्मरेत्संयतो नित्यं स बाह्याभ्यन्तरः शुचिः ।
स्मरणादेव रुद्रस्य पापसङ्घातजं परम् ॥ ६०॥
शतधा भेदमायाति गिरिर्वज्रहतो यथा ।
सर्वेषां शिवभक्तानामशेषार्थप्रसिद्धये ॥ ६१॥
मन्त्रमाह शिवः साक्षादशेषार्थनिबन्धनम् ।
सद्बीजं सर्वविद्यानामाद्यं ब्रह्म परात्परम् ॥ ६२॥
सर्वसाधनको मन्त्रः शिवसूत्रं षडक्षरः ।
तस्मादनेन मन्त्रेण प्रकुर्वीत शिवार्चनम् ॥ ६३॥
तत्र देशे न दुर्भिक्षं न च मारी प्रवर्तते ।
नाकाले म्रियते कश्चित् पूज्यते यत्र शङ्करः ॥ ६४॥
दीक्षितः सूत्रमन्त्रज्ञो योऽर्चयेत्तु सदाशिवम् ।
स च यत्फलमाप्नोति तदेकाग्रमनाः शृणु ॥ ६५॥
ईश्वर उवाच ।
यः पूजयेच्छशिकलाऽमलमौलि लिङ्गं
भस्माक्षधृत् प्रथितपर्वसु शर्वमेकम् ।
सर्वैश्च पातकवरैः स विमुक्त ईशे
संसारघोरविषसर्पमुखाभिलग्नः ॥ ६६॥
॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं शिवार्चनोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ४२ स्कन्दप्रोक्तं शिवपर्वपूजाकथनम् । ३८-६६॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 42 skandaproktaM shivaparvapUjAkathanam . 38-66..
Proofread by Ruma Dewan