स्कन्दप्रोक्तं शिवभक्तिमहिमानुवर्णनम्

स्कन्दप्रोक्तं शिवभक्तिमहिमानुवर्णनम्

शिवार्चकजनानां चरित्रं शिवतोषकृत । यथा शिवस्तथा शैवा भेदो नैतेषु दृश्यते ॥ २॥ शाम्भवानां च माहात्म्यं शिवो वेत्ति न चेतरः । शाम्भवः शिव एवेति विज्ञेयो मुक्तिकाङ्क्षिभिः ॥ ३॥ चरं शरीरं यच्छम्भोः शाम्भवास्तन्मुनीश्वराः । स्थावरं जङ्गमं श्रेष्ठं शारीरं शिवसम्मतम् ॥ ४॥ चरावरात्मा भगवानेक एव महेश्वरः । न शाम्भवात्परं स्थानं शम्भोः प्रियतरं महत् ॥ ५॥ तत्र शाम्भववर्याणां समाजसत्र शङ्करः । लिङ्गे तुङ्गे बिल्ववने सदाशिवकथासु च ॥ ६॥ नृत्यत्यम्बिकया युक्तः स्कन्दहेरम्बपूर्वकैः । तत्क्षेत्रं पुण्यराशीनां स्थानं प्रीतं त्रिशूलिनः ॥ ७॥ शाङ्करा एव देवस्य सर्वदा प्रियविग्रहाः । न गौर्यां नैव विघ्नेशे न नन्दौ स्कन्दके न च ॥ ८॥ प्रीतिर्वै देवदेवस्य यादृशी हारसत्तमे । मनोहराः शिवस्यैव हारा रुद्राक्षधारिणः ॥ ९॥ तस्माच्छाङ्गार्चनेनैव शिवः प्रीतो भविष्यति । शाम्भवाः शम्भुवो विप्र मुक्तिकान्ता मनोहराः ॥ १०॥ तेषु प्रीतेषु भगवान् प्रीत एव महेश्वरः । यथा भक्तजनार्चात् प्रीतो भद्राणि पश्यति ॥ ११॥ न तथा शिवलिङ्गेषु पूजितोऽपि महेश्वरः । तस्माच्छाम्भवपूजैव शिवपूजा न संशयः ॥ १२॥ शिवभक्ताः शिवाचाराः शिवलिङ्गैकपूजकाः । भस्मत्रिपुण्ड्ररुद्राक्षधारिणोऽमलविग्रहाः ॥ १३॥ रुद्राध्यायजपासक्ताः पञ्चाक्षरपरायणाः । शिवनामानुसन्धानकन्दलीकृतमानसाः ॥ १४॥ शिवध्यानपराः शैवाः पावनाः पावयन्त्यपि । तेषु प्रीतेषु भगवान्प्रीत एव महेश्वरः ॥ १५॥ नान्येन कर्मणा शम्भुः प्रीतो भवति सत्तम । स्वतः पूर्णो महादेवः तस्य किं तोषणेन हि ॥ १६॥ शिवभक्तार्चनेनैव तोषमेति महेश्वरः । शम्भुः शाम्भवतोषेण तुष्टः कष्टविनाशकः ॥ १७॥ अष्टमूर्तिः स्वयं तुष्टो मुक्तिं तस्य प्रयच्छति । शिवभक्तो यत्र तिष्ठेत्तत्र सन्निहितः शिवः ॥ १८॥ तस्मिन्भुक्ते शिवो भुङ्क्ते तस्मिन्तुष्टे शिवः स्वयम् । तुष्टः पुष्टिं तथैवास्य तस्य नित्यं प्रयच्छति ॥ १९॥ शिवार्चको यश्च भक्तः द्विजो वा श्वपचोऽपि वा । भवभक्तो विमुच्येत भस्मरुद्राक्षधारकः ॥ २०॥ न वर्णाश्रमनिष्ठाऽत्र भक्तिनिष्ठात्र केवला । नास्याचारं परीक्षेत न कुलं न व्रतं तथा ॥ २१॥ न शिवाश्रयविज्ञानं परीक्षेत द्विजोत्तम । स मुनिः स तपस्वी च स यतिः स च पण्डितः ॥ २२॥ तेनाधीतं श्रुतं तेन तेन तीर्थे समाहितम् । स पात्रं तारयेत्सर्वान्हव्ये कव्ये सुरान्पितॄन् ॥ २३॥ शिवभक्ते गृहं याते नृत्यन्ति पितरः सदा । तेषु श्राद्धं प्रदातव्यं तृप्ताः स्युः प्रपितामहाः ॥ २४॥ शिवभक्तानतिक्रम्य अन्येषु निहितं हविः । दानं भोज्यं च यद्विप्र तद्भस्मनिहितं हविः ॥ २५॥ रुष्ट एव हि गौरीशस्तस्य कष्टं ददाति हि । भ्रष्टमूर्तिकृपानिष्ठाः शैवा एव न संशयः ॥ २६॥ वरिष्ठं पात्रमेते हि शैवाः पूज्याः शिवार्चकाः । गणाः सुरा मुनिगणाः किञ्चिच्छम्भोः प्रसादतः ॥ २७॥ शिवभक्ताः शिवज्ञानयुक्ता एव द्विजोत्तमाः । तस्माद्भक्ताः सदा पूज्याः शाम्भवाः शिवसम्मताः ॥ २८॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्येऽपि सङ्कराः । शिवभक्ताः शिवाकरा भस्मरुद्राक्षधारिणः ॥ २९॥ पूज्या एव सदा सर्वे भक्तिश्चात्र गरीयसी । शिलाशनश्च शैलादिश्चण्डकेशोऽथ भृङ्गिकः ॥ ३०॥ रिटिस्तुण्डः सोमनन्दी मार्कण्डेयो घटोद्भवः । उपमन्युर्दधीचिश्च दुर्वासो गौतमो मुनिः ॥ ३१॥ कृष्णः शतार्चनो रैभ्यो भृगुर्बाणो भृगूद्वहः । अहं गजाननो गौरी विष्णुब्रह्मादयः सुराः ॥ ३२॥ इन्द्रो यक्षाधिपः सूर्यचन्द्राद्या ग्रहनायकाः । समभ्यर्च्य विरूपाक्षं लब्धवन्तः परं पदम् ॥ ३३॥ गणत्वं नन्दिकैशाद्याः विष्णुब्रह्मादयो द्विज । सृष्टिं सुदर्शनं देवनायकत्वं सुरा ग्रहाः ॥ ३४॥ ग्रहत्वं देवदेवस्य प्रसादेन मुनीश्वराः । लेभिरे वाञ्छितां सिद्धिं शिवलिङ्गार्चनेन हि ॥ ३५॥ राज्यं भुक्तिं च मुक्तिं च लेभिरे नृपासत्तमाः । केचिद्गणा मुनीन्द्राश्च सुगन्बिल्वादिकानपि ॥ ३६॥ ॥ इति शिवरहस्यान्तर्गते शिवाख्ये स्कन्दप्रोक्तं शिवभक्तिमहिमानुवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः २ । २-३६॥ - .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 2 . 2-36.. Notes: Skanda reveals to Jaigishavya, the merits and glory of devotion to Śiva शिव. Proofread by Ruma Dewan
% Text title            : Skandaproktam Shivabhaktimahimanuvarnanam
% File name             : skandaproktaMshivabhaktimahimAnuvarNanaM.itx
% itxtitle              : shivabhaktimahimAnuvarNanaM (skandaproktaM shivarahasyAntargatam)
% engtitle              : skandaproktaM shivabhaktimahimAnuvarNanaM
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shivAkhyaH chaturthAMshaH | adhyAyaH 2 | 2-36||
% Indexextra            : (Scan)
% Latest update         : August 20, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org