स्कन्दप्रोक्तं शिवभक्तिमहिमानुवर्णनम्
शिवार्चकजनानां चरित्रं शिवतोषकृत ।
यथा शिवस्तथा शैवा भेदो नैतेषु दृश्यते ॥ २॥
शाम्भवानां च माहात्म्यं शिवो वेत्ति न चेतरः ।
शाम्भवः शिव एवेति विज्ञेयो मुक्तिकाङ्क्षिभिः ॥ ३॥
चरं शरीरं यच्छम्भोः शाम्भवास्तन्मुनीश्वराः ।
स्थावरं जङ्गमं श्रेष्ठं शारीरं शिवसम्मतम् ॥ ४॥
चरावरात्मा भगवानेक एव महेश्वरः ।
न शाम्भवात्परं स्थानं शम्भोः प्रियतरं महत् ॥ ५॥
तत्र शाम्भववर्याणां समाजसत्र शङ्करः ।
लिङ्गे तुङ्गे बिल्ववने सदाशिवकथासु च ॥ ६॥
नृत्यत्यम्बिकया युक्तः स्कन्दहेरम्बपूर्वकैः ।
तत्क्षेत्रं पुण्यराशीनां स्थानं प्रीतं त्रिशूलिनः ॥ ७॥
शाङ्करा एव देवस्य सर्वदा प्रियविग्रहाः ।
न गौर्यां नैव विघ्नेशे न नन्दौ स्कन्दके न च ॥ ८॥
प्रीतिर्वै देवदेवस्य यादृशी हारसत्तमे ।
मनोहराः शिवस्यैव हारा रुद्राक्षधारिणः ॥ ९॥
तस्माच्छाङ्गार्चनेनैव शिवः प्रीतो भविष्यति ।
शाम्भवाः शम्भुवो विप्र मुक्तिकान्ता मनोहराः ॥ १०॥
तेषु प्रीतेषु भगवान् प्रीत एव महेश्वरः ।
यथा भक्तजनार्चात् प्रीतो भद्राणि पश्यति ॥ ११॥
न तथा शिवलिङ्गेषु पूजितोऽपि महेश्वरः ।
तस्माच्छाम्भवपूजैव शिवपूजा न संशयः ॥ १२॥
शिवभक्ताः शिवाचाराः शिवलिङ्गैकपूजकाः ।
भस्मत्रिपुण्ड्ररुद्राक्षधारिणोऽमलविग्रहाः ॥ १३॥
रुद्राध्यायजपासक्ताः पञ्चाक्षरपरायणाः ।
शिवनामानुसन्धानकन्दलीकृतमानसाः ॥ १४॥
शिवध्यानपराः शैवाः पावनाः पावयन्त्यपि ।
तेषु प्रीतेषु भगवान्प्रीत एव महेश्वरः ॥ १५॥
नान्येन कर्मणा शम्भुः प्रीतो भवति सत्तम ।
स्वतः पूर्णो महादेवः तस्य किं तोषणेन हि ॥ १६॥
शिवभक्तार्चनेनैव तोषमेति महेश्वरः ।
शम्भुः शाम्भवतोषेण तुष्टः कष्टविनाशकः ॥ १७॥
अष्टमूर्तिः स्वयं तुष्टो मुक्तिं तस्य प्रयच्छति ।
शिवभक्तो यत्र तिष्ठेत्तत्र सन्निहितः शिवः ॥ १८॥
तस्मिन्भुक्ते शिवो भुङ्क्ते तस्मिन्तुष्टे शिवः स्वयम् ।
तुष्टः पुष्टिं तथैवास्य तस्य नित्यं प्रयच्छति ॥ १९॥
शिवार्चको यश्च भक्तः द्विजो वा श्वपचोऽपि वा ।
भवभक्तो विमुच्येत भस्मरुद्राक्षधारकः ॥ २०॥
न वर्णाश्रमनिष्ठाऽत्र भक्तिनिष्ठात्र केवला ।
नास्याचारं परीक्षेत न कुलं न व्रतं तथा ॥ २१॥
न शिवाश्रयविज्ञानं परीक्षेत द्विजोत्तम ।
स मुनिः स तपस्वी च स यतिः स च पण्डितः ॥ २२॥
तेनाधीतं श्रुतं तेन तेन तीर्थे समाहितम् ।
स पात्रं तारयेत्सर्वान्हव्ये कव्ये सुरान्पितॄन् ॥ २३॥
शिवभक्ते गृहं याते नृत्यन्ति पितरः सदा ।
तेषु श्राद्धं प्रदातव्यं तृप्ताः स्युः प्रपितामहाः ॥ २४॥
शिवभक्तानतिक्रम्य अन्येषु निहितं हविः ।
दानं भोज्यं च यद्विप्र तद्भस्मनिहितं हविः ॥ २५॥
रुष्ट एव हि गौरीशस्तस्य कष्टं ददाति हि ।
भ्रष्टमूर्तिकृपानिष्ठाः शैवा एव न संशयः ॥ २६॥
वरिष्ठं पात्रमेते हि शैवाः पूज्याः शिवार्चकाः ।
गणाः सुरा मुनिगणाः किञ्चिच्छम्भोः प्रसादतः ॥ २७॥
शिवभक्ताः शिवज्ञानयुक्ता एव द्विजोत्तमाः ।
तस्माद्भक्ताः सदा पूज्याः शाम्भवाः शिवसम्मताः ॥ २८॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्येऽपि सङ्कराः ।
शिवभक्ताः शिवाकरा भस्मरुद्राक्षधारिणः ॥ २९॥
पूज्या एव सदा सर्वे भक्तिश्चात्र गरीयसी ।
शिलाशनश्च शैलादिश्चण्डकेशोऽथ भृङ्गिकः ॥ ३०॥
रिटिस्तुण्डः सोमनन्दी मार्कण्डेयो घटोद्भवः ।
उपमन्युर्दधीचिश्च दुर्वासो गौतमो मुनिः ॥ ३१॥
कृष्णः शतार्चनो रैभ्यो भृगुर्बाणो भृगूद्वहः ।
अहं गजाननो गौरी विष्णुब्रह्मादयः सुराः ॥ ३२॥
इन्द्रो यक्षाधिपः सूर्यचन्द्राद्या ग्रहनायकाः ।
समभ्यर्च्य विरूपाक्षं लब्धवन्तः परं पदम् ॥ ३३॥
गणत्वं नन्दिकैशाद्याः विष्णुब्रह्मादयो द्विज ।
सृष्टिं सुदर्शनं देवनायकत्वं सुरा ग्रहाः ॥ ३४॥
ग्रहत्वं देवदेवस्य प्रसादेन मुनीश्वराः ।
लेभिरे वाञ्छितां सिद्धिं शिवलिङ्गार्चनेन हि ॥ ३५॥
राज्यं भुक्तिं च मुक्तिं च लेभिरे नृपासत्तमाः ।
केचिद्गणा मुनीन्द्राश्च सुगन्बिल्वादिकानपि ॥ ३६॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये स्कन्दप्रोक्तं शिवभक्तिमहिमानुवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः २ । २-३६॥
- .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 2 . 2-36..
Notes: Skanda reveals to Jaigishavya, the merits and glory of devotion to Śiva शिव.
Proofread by Ruma Dewan