स्कन्दप्रोक्तं शिवमहिमावर्णनम् १

स्कन्दप्रोक्तं शिवमहिमावर्णनम् १

(शिवरहस्यान्तर्गते भीमाख्ये) स्कन्द (उवाच) स गौरीहृदयानन्द आनन्दाम्बुनिधिः स्वयम् । भक्त्या भक्तैः स्तुतो नित्यं वेदवेद्यो महेश्वरः ॥ १०॥ ददाति मोक्षसाम्राज्यं प्राज्यं देवशिखामणिः । राज्यं वा शिवभक्तानां मन्नामाज्यप्लुतं सदा ॥ ११॥ वाणीपतेरयं प्रादाद्वेदजालं कृपाबलात् । शर्वाणीपतिरेवाथ चारुचन्द्रलसच्छिराः ॥ १२॥ रमारमणहारीशः स गौरीरमणो हरः । ददात्येव हि भक्तेषु शाम्भवेषु कृपावशात् ॥ १३॥ स एव गीयते वेदैर्वेदान्तैरपि शङ्करः । स एव सर्वदेवेशो मृत्युञ्जय उमापतिः ॥ १४॥ स एव भगवाञ्छम्भुः श्रुतश्चाथर्वणे शिवः । यस्यैश्वर्यस्य नान्तोऽस्ति सर्वगः सर्वदा प्रभुः ॥ १५॥ यद्ध्यानेन परा मुक्तिः सुलभा शाम्भवोत्तमे । स गौरीरमणो देवः कालकामान्धनाशनः ॥ १६॥ स तु मृत्युञ्जयो नित्यमपारविभवाश्रयः । यस्य प्रसादलेशेन विष्णुब्रह्मेन्द्रपूर्वकाः ॥ १७॥ धिष्टितानि वृताः सर्वे शिपिविष्टपदार्चकाः । उदारतरगम्भीरो भवमायामलापहः ॥ १८॥ सर्वदुःखहरो देवो रुद्रो वै नीललोहितः । य एनं विदुरीशानममृतास्ते सदा मुने ॥ १९॥ अथेतरे दुःखमेव प्राप्नुवन्ति पदे पदे । यस्य वामाङ्कगा देवी या सा सर्वेश्वरी शिवा ॥ २०॥ यन्मायया मोहिता वै ब्रह्मेन्द्राश्चाप्यधोक्षजः । यस्याः प्रसादलेशेन न जानन्ति महेश्वरम् ॥ २१॥ स्वात्मानं सर्वगं शान्तं सच्चिन्मयमुमाधवम् । यस्य पुत्रो गणाधीशः सर्वविघ्ननिवारकः ॥ २२॥ यस्य पुत्रोऽहमेवाद्य साक्षाज्ज्ञानात्मको मुने । यस्य नन्द्यादयो विप्रगणः शाङ्करपुङ्गवाः ॥ २३॥ यस्य धर्मो महाबाहो युगपादोऽमितद्युतिः । यस्याष्टमूर्तिभिर्व्याप्तं जगदेतच्चराचरम् ॥ २४॥ यस्य लिङ्गं सदा कालं पूजयन्ति मरुद्गणाः । बलप्रमथनं साम्बं भक्तसंसारमोचकम् ॥ २५॥ कारणं जगतामीशमानन्दघनमद्वयम् । यो वै रुद्रो महादेवः शङ्करः शशिशेखरः ॥ २६॥ यो वै रुद्रो महादेवः भूतं भव्यं भवज्जगत् । विश्वं भूतं च भवनं विचित्रं स हि शङ्करः ॥ २७॥ भीमो रुद्रो महेशानो गीतश्रुतिषु स स्थिरः । सर्वाभयप्रदो विप्रो विश्वाधिक उमासखः ॥ २८॥ पतित्वेन स्तुतो वेदैः सर्वेषामेव शङ्करः । भयापहोऽयं भक्तेषु शाम्भवेषु महात्मसु ॥ २९॥ सर्वोपास्यो ह्यमेयात्मा सर्वेषां हृदयान्तरः । सर्वभूतगुहावासो वासिताजगतां त्रये ॥ ३०॥ ईशावास्यमिदं सर्वं जगत् त्रिभुवनात्मकम् । यस्य रूपं च पृथिवी सूर्यचन्द्रमसौ मुने ॥ ३१॥ पृथिवीदेवताः सर्वा न विदन्ति महेश्वरम् । प्रियोऽयं सर्वभूतेषु नास्त्यस्माज्जगदेव हि ॥ ३२॥ ॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं शिवमहिमावर्णनं १ सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः ३ । १०-३२॥ - .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 3 . 10-32.. Notes: Skanda स्कन्द expresses about ŚivaMahimā शिवमहिमा while speaking to Jaigīṣavya जैगीषव्य. Proofread by Ruma Dewan
% Text title            : Skandaproktam Shivamahimavarnanam 1
% File name             : skandaproktaMshivamahimAvarNanam1.itx
% itxtitle              : shivamahimAvarNanam 1 (skandaproktaM shivarahasyAntargatam sa gaurIhRidayAnanda AnandAmbunidhiH svayam)
% engtitle              : skandaproktaM shivamahimAvarNanam 1
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhImAkhyaH aShTamAMshaH | adhyAyaH 3 | 10-32||
% Indexextra            : (Scan)
% Latest update         : July 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org