स्कन्दप्रोक्तं शिवमहिमावर्णनम् २
(शिवरहस्यान्तर्गते भीमाख्ये)
स्कन्द उवाच ।
विज्ञानात्मा परात्मायं सर्वात्माऽयं महेश्वरः ।
येषां तु हृदयाराम एव भूतपतिः शिवः ॥ १॥
स एव परमानन्दो रसोऽयममृतो हरः ।
एष विप्रैर्महादेवः सर्वदाभीष्टदो मुने ॥ २॥
एनमेके वदन्त्यग्निं ब्रह्माणं हरिमिन्द्रकम् ।
एको रुद्रो महादेवो न द्वितीयोऽस्ति कश्चन ॥ ३॥
ऋतं सत्यं परं ब्रह्म पुरुषः कृष्णपिङ्गलः ।
ऊर्ध्वरेता विरूपाक्षो विश्वरूपो महेश्वरः ॥ ४॥
यो वेदादौ स्वरः शम्भुः वेदान्तेषु प्रतिष्ठितः ।
ईशानः सर्वविद्यानां सर्वभूतादिरीश्वरः ॥ ५॥
ब्रह्मविष्ण्वादि देवानामधिपो विश्वतोमुखः ।
जनिता ब्रह्मविष्णूनां रुद्रेन्द्राणां महेश्वरः ॥ ६॥
यमानिलानलार्काणां दिवः पृथ्व्या महेश्वरः ।
ब्रह्माणं यो व्याधादग्रे तस्मै वेदानुपादिशत् ॥ ७॥
विश्वतश्चक्षुरीशान विश्वतो बाहुरीश्वरः ।
विश्वतः पाणिपादोऽयं सहस्राक्षः सहस्रपात् ॥ ८॥
अत्यतिष्ठदिदं सर्वमीशानोऽयं दशाङ्गुलम् ।
यद्भूतं यच्च वै भव्यं वर्तमानं महेश्वरः ॥ ९॥
एतावानस्य महिमाऽतो ज्यायांश्च पूरुषः ।
भीषैव पवते वायुः भीषैवोदेति भानुमान् ॥ १०॥
भीषैव अग्निरिन्द्राद्या मृत्युर्धावति भीतितः ।
अपाणिपादो जवनो ग्रहीताऽचक्षुरीश्वरः ॥ ११॥
स वेत्ति वेद्यजातं च न तं वेत्तीह कश्चन ।
तमाहुरेकं पुरुषं ज्योतिषां ज्योतिरीश्वरम् ॥ १२॥
हिरण्यबाहुमीशानं सर्वाङ्गेण हिरण्मयम् ।
एषोऽन्तरादित्यगतो नीलग्रीवो विलोहितः ॥ १३॥
बभ्रुश्चायं महादेव उग्रेऽयं च सुमङ्गलः ।
यो वै रुद्रः स भगवान्गीतश्चाथर्वणोत्तमैः ॥ १४॥
अन्नानां च पतिः शम्भुः क्षेत्राधिपतिरीश्वरः ।
मित्राधिपो महादेवस्तथा धनपतिः शिवः ॥ १५॥
भूमानन्दघनो ह्यात्मा सामगीतो महेश्वरः ।
एष ब्रह्मैष एवेन्द्रः ऋग्भिर्गीतो हरोऽव्ययः ॥ १६॥
नमस्ते रुद्र इत्यादिवाक्यैश्च यजुषोद्भवैः ।
इतिहासपुराणेषु ईशो गीतः पुरातनैः ॥ १७॥
महोपनिषदांसारैरयमेव हि गीयते ।
भिद्यते हृदयग्रन्थश्छिद्यते सर्वसंशयः ॥ १८॥
हृत्तमोनाशनं तस्य ज्ञानादेव हि जायते ।
न प्राणो न मनश्चायमसङ्गी सङ्गिवत् स्थितः ॥ १९॥
सहैव सन्तमप्येनं न देवा न महर्षयः ।
न विदुर्ब्रह्मविष्ण्वाद्याः सेन्द्ररुद्रार्कवायवः ॥ २०॥
स ध्येयः परमेशान आकाशे दहरे हरः ।
सर्वे भीताः प्रमुह्यन्ति द्यावाभूम्योर्य आन्तरः ॥ २१॥
अनन्तो ह्यव्ययात्मायं पुरुषः प्रकृतेः परः ।
यमज्ञात्वा महादेवं मोहिताः ससुरासुराः ॥ २२॥
आत्मानं मन्यते सर्वे देहाहङ्कारसंवृताः ।
मायया देवदेवस्य चित्रलीलस्य वर्णिनः ॥ २३॥
जितमायः स एवेश स कारणमुमापतिः ।
स नित्यो नित्यभूताना चेतनानां स चेतनः ॥ २४॥
स कारणं कारणानां पतीनां पतिरीश्वरः ।
जगतः कालरूपस्य कालकालो महेश्वरः ॥ २५॥
महाग्रासोऽयमीशानो यस्योदनमहर्निशम् ।
ब्रह्मक्षत्रात्मकं विश्वं मृत्युर्यस्योपचेतनम् ॥ २६॥
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानुषाः ।
तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ २७॥
यदा तमस्तन्न दिवा न रात्रिः स शिवः स्वयम् ।
स चाक्षरो नित्यमात्मा विधाता परमोऽसदृक् ॥ २८॥
प्रपञ्चपञ्चीकरणे निरता ये शिवं विना ।
ते वञ्चिता महेशेन सर्वे चैव सुरासुराः ॥ २९॥
परवञ्चक ईशानो देवदेवस्त्रिशूलभृत् ।
य एनं विदुरीशानममृतास्ते भवन्ति वै ॥ ३०॥
अथेतरे दुःखयुक्ताः संसारवशवर्तिनः ।
जरामरणसंयुक्ताः षड्वैरिपरिमोहिताः ॥ ३१॥
देहात्मवादिनः सर्वे दूषणाभिर्विमोहिताः ।
तापत्रितयमध्यस्था भ्रान्तिमोहसमाकुलाः ॥ ३१॥
जायन्ते च म्रियन्ते च कीटा इव सुरा नराः ।
वानरा इव सर्वेऽपि पामरा दुःखभागिनः ॥ ३२॥
यस्य रूपं मुने सर्वं जगदेतच्चराचरम् ।
भूमिरापोऽनिलो वायुराकाशं व्योमकेशभाक् ॥ ३४॥
केहि तद्देवदेवस्य महिमानं पिनाकिनः ।
यजन्ति यागैर्नियता यजमाना महेश्वरम् ॥ ३५॥
भिक्षवः कक्षवत्सन्ति वेदान्तैश्च विजानते ।
योगिनो युञ्जते योगं यद्विज्ञानार्थमेव हि ॥ ३६॥
नानावर्णाश्रमैर्धर्मैरिष्टापूर्तैरुपासते ।
मन्त्रैर्मन्त्रविदः साम्बमुपासन्ते महेश्वरम् ॥ ३७॥
लेभिरे स्वपदान्येव यस्य लिङ्गार्चनेन हि ।
ब्रह्मविष्ण्वादयो रुद्रा मुनयो मनवः सुराः ॥ ३८॥
असुरा नृपवर्याश्च गन्धर्वाप्सरसोरगाः ।
विपद्भिः(द्भ्यो)मोचिता एव सम्पद्भिश्च नियोजिताः ॥ ३९॥
सर्वं विश्वाधिकस्यैव निःश्वासाज्जायते जगत् ।
जातं च वर्धते नित्यं स्थीयते लीयतेऽस्ति च ॥ ४०॥
यस्याष्टमूर्तिभिर्व्याप्तं जगदेतत् त्रिशूलिनः ।
अग्निः शिव उमा सोमो आभ्यां व्याप्तं जगत् त्रयम् ॥ ४१॥
अग्नीषोमात्मकं विश्वं जानन्ति परमर्षयः ।
न देवाङ्कयुतं चैव भगलिङ्गाङ्कितं सदा ॥ ४२॥
पुम्प्रकृत्योरिदं रूपं तस्माच्छिवमयं जगत् ।
अनङ्गमातङ्गहरो हाराणां हृदये स्थितः ॥ ४३॥
स परः पुरषः प्राणः परमात्मा सदाशिवः ।
अद्वैतोऽयं चतुर्थोऽयं पञ्चकोशातिगोह्ययम् ॥ ४४॥
यस्माद्ब्रह्मा तथा रुद्रो विष्णुर्विश्वं प्रजायते ।
सर्वमन्यत्परित्यज्य ध्येयः साम्बस्त्रिलोचनः ॥ ४५॥
उमासहायो भगवान्मायाया ईश ईश्वरः ।
मङ्गलापतिरीशानो भक्तानां मङ्गलप्रदः ॥ ४६॥
अमङ्गलं हरत्येव भक्त्या भक्तैरुपासितः ।
सर्वेश्वरो महादेवः सर्वैश्वर्यसमन्वितः ॥ ४७॥
जितमायो महादेवस्तन्मायाविजिताः सुराः ।
क्षेत्राणां च पतिर्देवः पशुपाशविनाशकः ॥ ४८॥
माया पाशैर्निबध्नाति जगत्ससुरमानुषम् ।
मोचयेदम्बिकानाथः पशुभ्यः सचराचरम् ॥ ४९॥
भक्त्या प्रसादितो देवः साक्षात्पशुपतिः शिवः ।
यस्य निःश्वसनं वेदानामनन्ति मुनीश्वराः ॥ ५०॥
यः सोमभारैरिज्येत सोमः सोमार्धशेखरः ।
पार्वतीनायको नेता स्थावरस्य चरस्य च ॥ ५१॥
यस्यांशलेशं हि जगत् भूतं भावि भवत्तथा ।
सर्वं शिवमयं विश्वं नाशिवं विद्यते मुने ॥ ५२॥
॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं शिवमहिमावर्णनं २ सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः ४ । १-५२॥
- .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 4 . 1-52..
Notes:
Skanda स्कन्द expresses about ŚivaMahimā शिवमहिमा while speaking to Jaigīṣavya जैगीषव्य. He highlights that the entire Universe comprises of Śiva शिव, and that nothing exists that is not Śiva शिव.
Proofread by Ruma Dewan