स्कन्दप्रोक्तं तारकप्रसङ्गवर्णनम्

स्कन्दप्रोक्तं तारकप्रसङ्गवर्णनम्

(शिवरहस्यान्तर्गते ईशाख्ये) स्कन्द उवाच । एतस्मिन्नेव काले तु तारको नाम दानवः । तारकात्मा महातेजा बभूवानन्दिनन्दनः ॥ १॥ तस्य पुत्रास्त्रयश्चैव तारकाक्षो महाबलः । विद्युन्माली च बलवान् कमलाक्षश्च वीर्यवान् ॥ २॥ तस्याभवत्सुतो वीरस्तारो नाम महाबलः । तपसा लब्धवीर्यश्च प्रसादाद्ब्रह्मणः प्रभोः ॥ ३॥ सोऽपि तारो महातेजास्त्रैलोक्यं सचराचरम् । विजित्य समरे पूर्वं विष्णुना च निषूदितः ॥ ४॥ तदा समभवद्युद्धं तुमुलं रोमहर्षणम् । दिव्यवर्षसहस्रं तु दिवारात्रमविश्रमम् ॥ ५॥ सरथं विष्णुमादायोत्ससर्ज शतयोजनम् । तारेण निर्जितश्चैव दुद्राव गरुडध्वजः ॥ ६॥ ताराच्छतगुणं तप्त्वा लब्ध्वा शतगुणं बलम् । पितामहाज्जगत्सर्वम्मवाप दितिनन्दनः ॥ ७॥ देवेशप्रमुखान् सर्वान् जित्वा स दितिनन्दनः । द्रावयामास वै देवान् सर्वलोकेषु मायया ॥ ८॥ देवताश्च सहेन्द्रेण तारकाद्भयमोहिताः । न शान्न्ति लेभिरे शूराः शरणं वा भयार्दिताः ॥ ९॥ तदाऽमरपतिः श्रीमान् सन्निवार्यामरान् प्रभुः । उवाच वाक्पतिं देवो देवानामपि सन्निधौ ॥ १०॥ भगवंस्तारको नाम तारेयो दानवाम्बुदः । तेन स्मो निर्जिताः सर्वे वत्सा गोपतिना यथा ॥ ११॥ भयात्तस्मान्महाभाग बृहद्युद्धे बृहस्पते । अनिरुद्धा भ्रमन्त्येते शुकुन्ता इव पिञ्जरात् ॥ १२॥ अस्माकं यान्यमोघानि आयुधानि गिरां वर । तानि मोघानि जायन्ते अमरारिप्रभावतः ॥ १३॥ दशवर्षसहस्राणि द्विगुणानि बृहस्पते । विष्णुनाऽऽयोधितो युद्धे विष्णुना प्रभविष्णुना ॥ १४॥ कथमस्मद्विधास्तस्य स्थास्यन्ते समरेऽग्रतः । एवमुक्तस्तु शक्रेण जीवः सार्धं सुराधिकैः ॥ १५॥ सहस्राक्षेण च विभुं सम्प्राप्य च पितामहम् । सोऽपि तस्य मुखाच्छ्रुत्वा प्रणतिं कमलासनः ॥ १६॥ देवैशेषैः सेन्द्रैस्तु जीवमाह पितामहः । जाने चार्तिं सुरेन्द्राणां तथापि श‍ृणु साम्प्रतम् ॥ १७॥ विनिन्द्य दक्षं या देवी सती दग्धतनुःपुरा । उमा हेमवतीं जझे सर्वलोकनमस्कृता ॥ १८॥ रूपयौवनसम्पन्ना सा महेश्वरकामिनी । घोरं तपस्तप्यतेऽद्य शुभे केदारगह्वरे ॥ १९॥ शङ्करोऽपि स्वयं देव्या वियुक्तस्तपसि स्थितः । उभयोरनयोर्योगः कार्यः कार्यार्थिभिः सुरैः ॥ २०॥ तयोर्वीर्येण सम्भूतः स्कन्दः शक्तिधरः प्रभुः । षडास्यो द्वादशभुजः सेनानीः पावकः प्रभुः ॥ २१॥ स्वाहेयः कार्तिकेयश्च गाङ्गेयः शरषण्डजः । सेनापतिः कुमाराख्यः सर्वलोकनमस्कृतः ॥ २२॥ लीलयैव महादेवः सबलं तारकात्मजम् । बालोऽपि विनिहत्यैको देवान् सन्तारयिष्यति ॥ २३॥ एवमुक्तस्तदा तेन ब्रह्मणा पद्मयोनिना । बृहस्पतिस्तदा देवं दैवैः सेन्द्रैः प्रणम्य च ॥ २४॥ मेरोः शिखरमासाद्य स्मरं सस्मार सुव्रतः । स्मरणादेव जीवस्य स्मरोऽपि सह भार्यया ॥ २५॥ रत्या समं समागत्य नमस्कृत्वा कृताञ्जलिः । सशक्रमाह तं जीवं गतजीवो द्विजोत्तमाः ॥ २६॥ स्मृतोऽहं भवता जीव न हन्तव्यो बृहस्पते । देवैः सेन्द्रैरशेषैश्च स्मृत एव नचान्यथा ॥ २७॥ गत्वा तदाश्रमं शम्भोस्तया रत्या महाबलः । वसन्तेन सहायेन देवं योक्तुमनाभवत् (?) ॥ २८॥ ततः सम्प्रेक्ष्य मदनं स च देवस्त्रियम्बकः । स तृतीयेन नेत्रेण मदनं समुदैचत ॥ २९॥ ततोऽस्य नेत्रजो वह्निर्मदनं पार्श्वतःस्थितम् । अदहत्तत्क्षणादेव व्यलपत्करुणं रतिः ॥ ३०॥ रत्याः प्रलापमाकर्ण्य देवदेवो वृषध्वजः । घृणया परया प्राह कामपत्नीं निरीक्ष्य च ॥ ३१॥ यदा विष्णुश्च भविता वसुदेवसुतः शुभे । शापाद्भृगोर्महातेजाः सर्वलोकहिताय वै ॥ ३२॥ यदा तस्याः सुतो यः स्यात् स पतिस्ते भविष्यति । प्रणम्य च तदा रुद्रं कामपत्नी शुचिस्मिता ॥ ३३॥ जगाम मदनं लब्ध्वा वसन्तेन वरानना ॥ ३४॥ ॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं तारकप्रसङ्गवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । अध्यायः ११ मन्मथदाहः । १-३४ ॥ - .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . adhyAyaH 11 manmathadAhaH . 1-34 .. Notes: Skanda स्कन्द narrates about the incidence related to the Tārakāsura तारकासुर; whose atrocities cause the Deva-s देवाः to look forward to the Marriage of Śiva शिव and Pārvatī पार्वती, that lead to the birth of Skanda स्कन्द (a.k.a. Svāheya स्वाहेय, Kārtikeya कार्तिकेय, Gāṅgeya गाङ्गेय, Śaraṣaṇḍaja शरषण्डज, Senāpati सेनापति, Kumāra कुमार) in order to annihilate Tārakāsura तारकासुर. Proofread by Ruma Dewan
% Text title            : Skandaproktam Tarakaprasangavarnanam
% File name             : skandaproktaMtArakaprasangavarNanam.itx
% itxtitle              : tArakaprasaNgavarNanam (skandaproktaM shivarahasyAntargatam)
% engtitle              : skandaproktaM tArakaprasangavarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | IshAkhyaH dvAdashamAMshaH | adhyAyaH 11 manmathadAhaH | 1-34 ||
% Indexextra            : (Scan)
% Latest update         : December 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org