सूतप्रोक्तं सोमनाथमहिमवर्णनम्

सूतप्रोक्तं सोमनाथमहिमवर्णनम्

तदुत्कृष्टमिदं क्षेत्रं पुण्यं सोमेश्वराह्वयम् । देव्यै देवेन कथितं पयोष्णीतीरसंस्थितम् ॥ १॥ दर्शनात्सर्वकामानां सिद्धिः स्याच्छङ्कराज्ञया । सौराष्ट्रमेतद्देशानां पुण्यदेशोऽयमुत्तमः ॥ २॥ सोमनाथाख्यलिङ्गेन पुनर्भूयो विराजते । सोमनाथं महादेवं प्रदोषे यस्तु पश्यति ॥ ३॥ बिल्वीदलादिभिः पूज्य स मोक्षमधिगच्छति । पयोष्ण्यां यः सकृत्स्नात्वा सोमनाथं प्रणम्य च ॥ ४॥ स मुक्तः सर्वपापैश्च मोदते दिवि देववत् । इन्दुग्रहे कुरुक्षेत्रे यो दद्याद्वै शतं द्विजे ॥ ५॥ सकृद्दृष्ट्वा सोमनाथं तत्फलं प्राप्नुयान्नरः । महापातादिवेलासु अयने विषुवे तथा ॥ ६॥ पर्वकाले तथाष्टम्यां यो दृष्ट्वा प्रणमेत च । सोमनाथं महालिङ्गं स वसेच्छिवलोकगः ॥ ७॥ सोमवारे सोमनाथं रात्रौ सम्पूज्य भक्तितः । बिल्वपत्रैः सकृद्भक्त्या स ज्ञानं विन्दते महत् ॥ ८॥ सोऽपि राजाऽथ कालेन पुत्रं भद्रगुणान्वितम् । प्राप नामापि चक्रेऽथ विदुरथ इति द्विजाः ॥ ९॥ सोऽपि चान्ते शिवं प्राप सदारोऽथ बृहद्बलः । पित्र्यं राज्यं तदा प्राप विदूरथनृपस्तदा ॥ १०॥ सोमनाथमहालिङ्गे तस्याभूद्भक्तिरुत्तमा । सौराष्ट्रं स जगामाथ साष्टाङ्गस्पृष्टभूतलः ॥ ११॥ सम्पूज्य परया भक्त्या नानाविभवविस्तरैः । उवाच राजा तत्रैनं हृष्टो धर्ममथाकरोत् ॥ १२॥ शैवान्नैवेद्यराशीभिर्भोजयामास कोटिशः । पयोष्णीतीरबन्धं च नानासंस्थानमण्टपान् ॥ १३॥ महारथं महादेवे मण्टपोद्यानगोपुरम् । प्राकारसंस्थवृषभं सुधाचित्रविचित्रितम् ॥ १४॥ कारयामास विभवैः विमानछत्रचामरम् । धूपदीपादिपात्राणि सौवर्णानि तदाऽकरोत् ॥ १५॥ शिवपूजाभिवृद्ध्यर्थं ददौ ग्रामाननेकशः । द्विजानां शाम्भवानां हि ग्रामान् विप्रगृहोज्ज्वलान् ॥ १६॥ कारयामास नृपतिगृहोपकरणान्वितान् । ददौ स शाम्भवान् दृष्ट्वा सोमनाथस्य तुष्ट्ये ॥ १७॥ स कोटिबिल्वपत्रैश्च पूजयामास तं सदा । कृष्णगोघृतदीपैश्चादीपयत्स शिवालयम् ॥ १८॥ धूपधूमगणैर्मां स धूपयामास चाम्बिके । नैवेद्यैश्च घृतापूपराशिभिर्म्ये न्यवेदयत् ॥ १९॥ स्वाद्वन्नराशिभिर्देवि विदूरथसमाह्वयः । नाट्यकन्यास्तु चार्वङ्गयस्तेन दत्ता महेश्वरि ॥ २०॥ वेणुवीणामृदङ्गाश्च शङखकाहलवादकाः । कल्पितास्तेन देवेशि नादितो मे शिवालयः ॥ २१॥ सोमनाथे मयि सदा तस्य भक्तिः पराऽभवत् । तया भक्त्या चिरं राज्यं भुक्त्वा मल्लोकमागतः ॥ २२॥ तस्य पुत्रशतं त्वासीत् सर्वं मद्भक्तिभावितम् । धनुष्मन्तं महाबाहुं परवीर्यनिबर्हणम् ॥ २३॥ क्षयद्वीरपरं सर्व नानाशस्त्रास्त्रमण्डलम् । तस्य ज्येष्ठुसुतस्त्वासीन्महारथ इति स्मृतः ॥ २४॥ सोऽपि सोमेश्वरे भक्तः सौराष्ट्रेशोऽभवच्छिवे । पितुः शतगुणं तेन कृता मेऽपचितिः शिवे ॥ २५॥ तस्मिन् शासति भूलोके शैवा एव सदा जनाः । भस्मरुद्राक्षहीनाङ्गान् शास्ति भूपोऽयमुत्तमः ॥ २६॥ नारुद्राक्षधृगवासीन्न रुद्राध्यायवर्जितः । पञ्चाक्षरविहीनश्च शिवलिङ्गार्चनोज्झितः ॥ २७॥ नाभस्मभालस्तत्रासीत्तस्मिन्राजनि शासति । समर्यादमभृत्तेन क्ष्मातलं तेन सुन्दरम् ॥ २८॥ यथा विद्योतते भानुः स्वांशुभिर्नाशयंस्तमः । तथा वेदोदिताचारैर्जगत्तापमपाकरोत् ॥ २९॥ ॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे सूतप्रोक्तं सोमनाथमहिमवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः १७। ४३-७१॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 17. 43-71.. Notes: Suta muni describes the glory of Somanatha Jyotirlinga located in Saurashtra on the banks of River Payoshni; and elaborates about merits of worshipping Someshwara Shiva especially during Ayana, Vishuva, festivals, (Krishna) Ashtami-s, Somavara (Monday) during nights. The shlokas have been renumbered for readers' convenience. Proofread by Ruma Dewan
% Text title            : Somanatha Mahima Varnanam by Suta
% File name             : somanAthamahimavarNanamsUtaproktam.itx
% itxtitle              : somanAthamahimavarNanaM sUtaproktam (shivarahasyAntargatam)
% engtitle              : somanAthamahimavarNanaM sUtaproktam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 17| 43-71||
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org