सूतप्रोक्तं सोमनाथमहिमवर्णनम्
तदुत्कृष्टमिदं क्षेत्रं पुण्यं सोमेश्वराह्वयम् ।
देव्यै देवेन कथितं पयोष्णीतीरसंस्थितम् ॥ १॥
दर्शनात्सर्वकामानां सिद्धिः स्याच्छङ्कराज्ञया ।
सौराष्ट्रमेतद्देशानां पुण्यदेशोऽयमुत्तमः ॥ २॥
सोमनाथाख्यलिङ्गेन पुनर्भूयो विराजते ।
सोमनाथं महादेवं प्रदोषे यस्तु पश्यति ॥ ३॥
बिल्वीदलादिभिः पूज्य स मोक्षमधिगच्छति ।
पयोष्ण्यां यः सकृत्स्नात्वा सोमनाथं प्रणम्य च ॥ ४॥
स मुक्तः सर्वपापैश्च मोदते दिवि देववत् ।
इन्दुग्रहे कुरुक्षेत्रे यो दद्याद्वै शतं द्विजे ॥ ५॥
सकृद्दृष्ट्वा सोमनाथं तत्फलं प्राप्नुयान्नरः ।
महापातादिवेलासु अयने विषुवे तथा ॥ ६॥
पर्वकाले तथाष्टम्यां यो दृष्ट्वा प्रणमेत च ।
सोमनाथं महालिङ्गं स वसेच्छिवलोकगः ॥ ७॥
सोमवारे सोमनाथं रात्रौ सम्पूज्य भक्तितः ।
बिल्वपत्रैः सकृद्भक्त्या स ज्ञानं विन्दते महत् ॥ ८॥
सोऽपि राजाऽथ कालेन पुत्रं भद्रगुणान्वितम् ।
प्राप नामापि चक्रेऽथ विदुरथ इति द्विजाः ॥ ९॥
सोऽपि चान्ते शिवं प्राप सदारोऽथ बृहद्बलः ।
पित्र्यं राज्यं तदा प्राप विदूरथनृपस्तदा ॥ १०॥
सोमनाथमहालिङ्गे तस्याभूद्भक्तिरुत्तमा ।
सौराष्ट्रं स जगामाथ साष्टाङ्गस्पृष्टभूतलः ॥ ११॥
सम्पूज्य परया भक्त्या नानाविभवविस्तरैः ।
उवाच राजा तत्रैनं हृष्टो धर्ममथाकरोत् ॥ १२॥
शैवान्नैवेद्यराशीभिर्भोजयामास कोटिशः ।
पयोष्णीतीरबन्धं च नानासंस्थानमण्टपान् ॥ १३॥
महारथं महादेवे मण्टपोद्यानगोपुरम् ।
प्राकारसंस्थवृषभं सुधाचित्रविचित्रितम् ॥ १४॥
कारयामास विभवैः विमानछत्रचामरम् ।
धूपदीपादिपात्राणि सौवर्णानि तदाऽकरोत् ॥ १५॥
शिवपूजाभिवृद्ध्यर्थं ददौ ग्रामाननेकशः ।
द्विजानां शाम्भवानां हि ग्रामान् विप्रगृहोज्ज्वलान् ॥ १६॥
कारयामास नृपतिगृहोपकरणान्वितान् ।
ददौ स शाम्भवान् दृष्ट्वा सोमनाथस्य तुष्ट्ये ॥ १७॥
स कोटिबिल्वपत्रैश्च पूजयामास तं सदा ।
कृष्णगोघृतदीपैश्चादीपयत्स शिवालयम् ॥ १८॥
धूपधूमगणैर्मां स धूपयामास चाम्बिके ।
नैवेद्यैश्च घृतापूपराशिभिर्म्ये न्यवेदयत् ॥ १९॥
स्वाद्वन्नराशिभिर्देवि विदूरथसमाह्वयः ।
नाट्यकन्यास्तु चार्वङ्गयस्तेन दत्ता महेश्वरि ॥ २०॥
वेणुवीणामृदङ्गाश्च शङखकाहलवादकाः ।
कल्पितास्तेन देवेशि नादितो मे शिवालयः ॥ २१॥
सोमनाथे मयि सदा तस्य भक्तिः पराऽभवत् ।
तया भक्त्या चिरं राज्यं भुक्त्वा मल्लोकमागतः ॥ २२॥
तस्य पुत्रशतं त्वासीत् सर्वं मद्भक्तिभावितम् ।
धनुष्मन्तं महाबाहुं परवीर्यनिबर्हणम् ॥ २३॥
क्षयद्वीरपरं सर्व नानाशस्त्रास्त्रमण्डलम् ।
तस्य ज्येष्ठुसुतस्त्वासीन्महारथ इति स्मृतः ॥ २४॥
सोऽपि सोमेश्वरे भक्तः सौराष्ट्रेशोऽभवच्छिवे ।
पितुः शतगुणं तेन कृता मेऽपचितिः शिवे ॥ २५॥
तस्मिन् शासति भूलोके शैवा एव सदा जनाः ।
भस्मरुद्राक्षहीनाङ्गान् शास्ति भूपोऽयमुत्तमः ॥ २६॥
नारुद्राक्षधृगवासीन्न रुद्राध्यायवर्जितः ।
पञ्चाक्षरविहीनश्च शिवलिङ्गार्चनोज्झितः ॥ २७॥
नाभस्मभालस्तत्रासीत्तस्मिन्राजनि शासति ।
समर्यादमभृत्तेन क्ष्मातलं तेन सुन्दरम् ॥ २८॥
यथा विद्योतते भानुः स्वांशुभिर्नाशयंस्तमः ।
तथा वेदोदिताचारैर्जगत्तापमपाकरोत् ॥ २९॥
॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे सूतप्रोक्तं सोमनाथमहिमवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः १७। ४३-७१॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 17. 43-71..
Notes:
Suta muni describes the glory of Somanatha Jyotirlinga located in Saurashtra on the banks of River Payoshni; and elaborates about merits of worshipping Someshwara Shiva especially during Ayana, Vishuva, festivals, (Krishna) Ashtami-s, Somavara (Monday) during nights.
The shlokas have been renumbered for readers' convenience.
Proofread by Ruma Dewan