सुदतिप्रोक्तं शिवार्चनोपदेशम्

सुदतिप्रोक्तं शिवार्चनोपदेशम्

(शिवरहस्यान्तर्गते उग्राख्ये) शिवार्चनं कुरुष्वाद्य शिवस्तुष्टो भविष्यति । व्यङ्गापि शिवपूजा सा कालेन फलदा ध्रुवम् ॥ ३९१॥ साङ्गा चेच्छिवपूजा सा सद्यः सर्वफलप्रदा । साङ्गं यः कुरुते भक्त्या शिवलिङ्गार्चनं सुत ॥ ३९२॥ स धर्मादिफलाध्यक्षो भवत्येव न संशयः । यः पूजयति गौरीशं लिङ्गरूपिणमव्ययम् ॥ ३९३॥ तमेवातिप्रयत्नेन सौभग्यमनुधावति । यतः शिवार्चनफलं भुक्तिर्मुक्तिश्च शाश्वती ॥ ३९४॥ सर्वदेवोत्तमः साम्बो भुक्तिमुक्तिफलप्रदः । अपारकरुणासिन्धुर्दीनबन्धुस्तमर्चय ॥ ३९५॥ कालत्रयेऽपि दुःखानि न शिवार्पितचेतसाम् । अतो विधिवदाराध्यमाराधय महेश्वरम् ॥ ३९६॥ महेश्वरश्च दुःखानि न नाशयति ते सदा (चेत्तव) । कः समर्थोऽपरो देवस्तव दुःखनिवारणे ॥ ३९७॥ सर्वेषामपि दुःखानि विनाशयति शङ्करः । स किं त्वदीयदुःखानि न नाशयति शङ्करः (शम्भुर्नोनशयिष्यति) ॥ ३९८॥ शङ्करः शङ्करो यस्मादतः शं ते प्रयच्छ(दास्य)ति । शङ्करं सावधानेन समाराधय सादरम् ॥ ३९९॥ विश्वासं कुरु श्रुत्युक्ते शिवलिङ्गार्चने सुत । गर्भवासादिदुःखानि यान्यनन्तानि मे सुत ॥ ४००॥ कदापि न भविष्यन्ति श्रीमृत्युञ्जयपूजनात् । कुरु विश्वस्य सततं शिवलिङ्गार्चनं मुदा ॥ ४०१॥ विश्वस्य भावितभवाः शम्भुं भक्त्याऽर्चयन्ति ये । प्राप्नुवन्ति न ते भूयो योनिचक्रं दुरासदं (सुदुर्भगम्) ॥ ४०२॥ अयं सुत मदुक्तार्थः श्रुत्युक्तार्थो न संशयः । शिवलिङ्गार्चने नित्ये स्वेष्टदे श्रुतिचोदिते ॥ ४०३॥ विश्वासो न भवेद्यस्य स महापातकी ध्रुवम् । महापातकयुक्तानां पापिनां दुष्टचेतसाम् ॥ ४०४॥ न भविष्यति विश्वासः कृतकर्मानुसारतः । यस्य ग्रहा भविष्यन्ति प्रतिकूला दुराग्रहाः ॥ ४०५॥ तस्य नश्यति विश्वासः शिवलिङ्गार्चने ध्रुवम । शिवलिङ्गार्चने यस्य विश्वासः श्रुतिचोदिते ॥ ४०६॥ स सर्वशो भुक्ति(क्त)भोगः प्रयाति शिवसन्निधिम् । अनुकूला ग्रहा यस्यानुग्रहाद्गिरिजापतेः ॥ ४०७॥ ॥ इति शिवरहस्यान्तर्गते सुदतिप्रोक्तं शिवार्चनोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २८ मध्यार्जुनमहिमानुवर्णनम् । ३९१-४०७॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 28 madhyArjunamahimAnuvarNanam . 391-407.. Notes: Sudati सुदति delivers Upadeśa उपदेश to her son about merits of worshiping Śiva शिव. Proofread by Ruma Dewan
% Text title            : Sudatiproktam Shivarchanopadesham
% File name             : sudatiproktaMshivArchanopadesham.itx
% itxtitle              : shivArchanopadesham sudatiproktaM (shivarahasyAntargatam)
% engtitle              : sudatiproktaM shivArchanopadesham
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 28 madhyArjunamahimAnuvarNanam | 391-407||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org