सुनागरेण शिवार्चने घृतकम्बलार्पणकथनम्
(शिवरहस्यान्तर्गते उग्राख्ये)
सुनागरः (उवाच) -
असितायाः सितायाश्च धेनोर्घृतमनुत्तमम् ।
सम्पादनीयं यत्नेन घनीभूतं च शोधितम् ॥ २००॥
तद्धृतं तुलयोत्तीर्णं प्रस्थं सार्धशतत्रयम् ।
तदर्धं वा तदर्धं वा सायं नेयं शिवालये ॥ २०१॥
घृतेनान्येन देवेशमभिषिच्य महेश्वर ।
घनीभूतं घृतं देयं ततः शङ्करमस्तके ॥ २०२॥
ततस्तिलैः सर्षपैश्च बिल्वपत्रैश्च कोमलैः ।
हेमपद्मैश्च देवेशः पूजनीयो महेश्वरः ॥ २०३॥
धूपदीपादिकं देयं ततो नैवेद्यमादरात् ।
ततो नीराजनं दत्वा देयः पुष्पाञ्जलिस्ततः ॥ २०४॥
प्रदक्षिणनमस्कारान् कृत्वा च तदनन्तरम् ।
शैवं पञ्चाक्षरं जप्त्वा शिवायैतन्निवेदयेत् ॥ २०५॥
ततो जागरणं कार्यं शिवस्मरणपूर्वकम् ।
रात्रिर्नेया प्रयत्नेन महादेवकथादिभिः ॥ २०६॥
ततः प्रातः समुत्थाय कृत्वा स्नानादिकं ततः ।
पूजनीयो महादेवो घृतसेचनपूर्वकम् ॥ २०७॥
भोजनीयास्ततः शैवा भक्ष्यैर्भोज्यैश्च यत्नतः ।
ततः स्वयं च भोक्तव्यं बन्धुभिः सह सादरम् ॥ २०८॥
अनेन तव दारिद्यं नाशमेष्यति सर्वथा ।
भोगांश्च विपुलान्भुक्त्वा शिवलोकं गमिष्यसि ॥ २०९॥
गौतमः उवाच
इत्युक्तस्तेन स शिवे चकार घृतकम्बलम् ।
ततः प्राप स चैश्वर्यमक्षीणवृद्धिसंयुतम् ॥ २१०॥
रत्नप्रासादसंयुक्ता गृहास्तेन विनिर्मिताः ।
वेदिकाः कारितास्तेन नवरत्नोज्ज्वलाः शुभाः ॥ २११॥
निक्षेपा बहवो लब्धास्तेनेशस्य प्रसादतः ।
तस्य सार्धंशतं पुत्रा बभूवुः शिवतत्पराः ॥ २१२॥
इदं सर्वं समालोक्य महदैश्वर्यमुत्कटम् ।
समस्तभोगसम्पन्नो हृष्टचित्तो बभूव सः ॥ २१३॥
स माघमासि यत्नेन सकुटुम्बो महेश्वरम् ।
नित्यं समर्चयामास साधनैर्विविधैरपि ॥ २१४॥
अधश्चकार धनदमैश्वर्येण सुखेन च ।
तेनैश्वर्येण सन्तुष्टो बभूव शिवतत्परः ॥ २१५॥
प्रतिसंवत्सरं चापि माघमासे स शाङ्करः ।
चकार पुत्रपौत्राद्यैः शम्भवे घृतकम्बलम् ॥ २१६॥
ततः प्रववृधे भूरि द्रव्यं मानातिगं पुनः ।
प्रासादः कारितस्तेन रत्नस्तम्भविराजितः ॥ २१७॥
तस्मिन् शिवालये तेन लिङ्गं रत्नमयं शुभम् ।
स्थापितं विधिवत्तत्र बहुद्रव्यव्ययान्मुदा ॥ २१८॥
कृतानि तेन दानानि बहूनि शिवमन्दिरे ।
तदा सुवर्णदानानि गोदानानि च सादरम् ॥ २१९॥
कृतानि शङ्करप्रीत्यै शाङ्करेभ्यो विशेषतः ।
घृताक्तपरमान्नेन सम्पूज्य परमेश्वरम् ॥ २२०॥
शर्करामधुदुग्धान्नैः पूजयामास शङ्करम् ।
अयुतं शिवभक्ताश्च भोजिताः प्रत्यहं मुदा ॥ २२१॥
अतिथीन् पूजयामास भोजयामास चादरात् ।
कदाचित्तद्गृहं प्राप्ताः शैवाः सङ्ख्यातिगाः निशि ॥ २२२॥
दृष्ट्वा तान् भस्मदिग्धाङ्गान् हृष्टचित्तो बभूव सः ।
ततस्तान्भोजयामास स्वाद्वन्नैर्घृतपाचितैः ॥ २२३॥
ददौ स दक्षिणात्वेन रत्नानि च धनानि च ।
एवं भुक्त्वाऽखिलान्भोगान्कृत्वा च शिवपूजनम् ॥ २२४॥
देहान्ते स शिवं प्राप घृतकम्बलसेवया ॥ २२५॥
अगस्त्यः (उवाच)
इत्युक्तः स सुमेधाश्च गौतमेन महात्मना ।
चकार माघे सम्प्राप्ते शिवाय घृतकम्बलम् ॥ २२६॥
ऐश्वर्यं चापि सम्प्राप सर्वं शङ्करपूजया ।
भुक्त्वा च भोगान्सकलाञ्छिवसायुज्यमाप च ॥ २२७॥
अतो यत्नेन कर्तव्यं महेशे घृतकम्बलम् ।
भोगान्मोक्षेच्छया विप्र सत्यं सत्यं न संशयः ॥ २२८॥
॥ इति शिवरहस्यान्तर्गते सुनागरेण शिवार्चने घृतकम्बलार्पणकथनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २६ कुम्भघोणमहिमानुवर्णनम् । २००-२२८॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 26 kumbhaghoNamahimAnuvarNanam . 200-228..
Notes:
Sunāgara सुनागर explains the procedure of offering Ghṛtakambalam घृतकम्बलम् during Māgha māsa माघ मास for worship of Śiva शिव. Ṛṣi Gautama ऋषि गौतम and Ṛṣi Agastya ऋषि अगस्त्य summarize the merits of the same earned by Sunāgara सुनागर and his lineage.
Ghṛtakambalam घृतकम्बलम् procedure finds detailed mention in the Adhyāyaḥ 26 अध्यायः २६ of ŚivaRahasyam Saptamāṁśaḥ शिवरहस्यम् सप्तमांशः and in the Kāmika Āgama कामिक आगम.
The Adhyāyaḥ 26 अध्यायः २६ of ŚivaRahasyam Saptamāṁśaḥ शिवरहस्यम् सप्तमांशः has several other details about Śivapūjāsādhanāni शिवपूजासाधनानि.
Proofread by Ruma Dewan