महेश्वरप्रोक्ता उज्जयिनीमहाकालमहिमा

महेश्वरप्रोक्ता उज्जयिनीमहाकालमहिमा

वक्ष्यामि महिमानं ते सेतिहासं महेश्वरि । कथां कलुषचित्तानां निश्शेषकलुषापहाम् ॥ १८॥ उज्जयिन्यां महाकालक्षेत्रमस्त्येकमुत्तमम् । तत्र लिङ्गं ममास्त्येकमशेषसुरपूजितम् ॥ १९॥ तल्लिङ्गदर्शनादेव पापवृन्दं विनश्यति । तल्लिङ्गदर्शनं प्रातः सर्वपुण्यफलप्रदम् ॥ २०॥ शक्रादिभिर्लोकपालैः सेवितं परया मुदा । ब्रह्मविष्ण्वादिभिर्देवैर्मुनीन्द्रैरखिलैरपि ॥ २१॥ गणेश्वरैस्तथा रुद्रैः माघ्यैर्वसुमरुद्गणैः । सिद्धविद्याधरैर्नागैः यक्षकिम्पुरुषरपि ॥ २२॥ नदीनदममुद्रैश्च पर्वतेन्द्रैश्च सेविनम् । अप्सरोभिः किन्नरीमी रुद्रकन्याभिरादरात् ॥ २३॥ वैखानसैर्वालखिल्यैद्विजेः पर्णाम्बुभोजनैः । कामधेनुगणैश्चैव स्रवत्पश्चामृतैः सदा ॥ २४॥ ऐरावतकुलोत्पन्नैर्नागैर्भद्रमृगैस्तथा । उच्चैरुच्चश्रवः प्रख्यैरश्वैरश्वपतिप्रियैः ॥ २५॥ तत्र मन्दारतरवो मरन्दसुमवृष्टयः । तत्र बिल्वोरुतरवो मूललिङ्गोपशोभिताः ॥ २६॥ स्वच्छन्दैः छादयन्त्येते सूर्यांशु लिङ्गमस्तके । स्वपाण्डुपत्रपतनैः पूजयन्ति महेश्वरम् ॥ २७॥ नानावादित्रघोषैश्च बघिरीकृतदिक्तटा । कुर्वन्ति गणपा नित्यं श्रीमहेशस्य सन्निधौ ॥ २८॥ नृत्यन्त्यप्सरसो नित्यं रागभावलयानुगाः । नारदप्रमुखा नित्यं विश्वावसुहहाहुहूः ॥ २९॥ गायन्ति रुद्रवीणाभिः शिवनामानि सादरम् । नन्दिप्रोत्सारितानेकस्वर्णवेत्रकश गणाः ॥ ३०॥ दुरीकुर्वन्ति जनतां महेशद्वारि सर्वदा । प्रणमन्ति सुरेशाद्या महाकालं महेश्वरम् ॥ ३१॥ महालिङ्गाकृतिं शम्भुं बिल्वालङ्कनमस्तकम् । महाभुजङ्गाङ्गधरं गङ्गाधरमनुत्तमम् ॥ ३२॥ त्रिपुण्ड्रचन्द्ररेखोत्थकलाकलितशेखरम् । कर्पूरतिलकानेकदीपमालाविराजितम् ॥ ३३॥ दिव्यगोघृतसम्पूर्णदीपपात्रशतावृतम् । कृष्णागरूत्थसाम्राणिधूपैर्घुमुघुमान्तरम् ॥ ३४॥ प्रातःसङ्गवमध्याह्नसायं निशि महेश्वरम् । प्रणमन्ति प्रस्तुवन्ति सुरासुरमुनीश्वराः ॥ ३५॥ केचिद्रुद्रैः स्तुवन्तीशं केचित् सामभिरीश्वरम् । ऋग्मिश्चाचाथर्वणैश्चैव स्तुतिभिर्मुनिसत्तमाः ॥ ३६॥ प्रदक्षिणपराश्चान्ये लुठन्तः शङ्करालये । प्रणमन्ति च सष्टाङ्गं मुनयो भक्तितत्पराः ॥ ३७॥ उच्चैर्हर सुरेशेति महादेवेति सादरम् । नृत्यन्ति साश्रुनयनाः करताडनपूर्वकम् ॥ ३८॥ कोटिशः सन्ति मुनयः शिवलिङ्गैकपूजकाः । भस्मरुद्राक्षवीताङ्गाः शिवैकशरणाः सदा ॥ ३९॥ क्षिप्रा नाम नदी तत्र क्षिप्रं पातकनाशिनी । तस्यास्तीरे बिल्वमूले शैवलिङ्गार्चनप्रियाः ॥ ४०॥ वसन्ति तत्र नियताः शिवनैवेद्यभोजनाः । तव राजा महानासीदुज्जयिन्यां महाबलः ॥ ४१॥ तिग्मांशुवंशसम्भूतो नाम्ना चित्ररथो युवा । तस्येयं पृथिवी सर्वा वित्तपूर्णाऽभवत् सदा ॥ ४२॥ तस्य दारा महोदारा मारस्यापि मनोहराः । शताधिकं च दशकं सुनासं पङ्कजाननम् ॥ ४३॥ सुरथाद्यं पुत्रशतं ततस्ते सौरथाः स्मृताः । क्षयद्वीररथाः सर्वे शतमुत्तमधन्विनः ॥ ४४॥ तस्य कोशस्य नेयत्ता तस्यासन् रत्नपर्वताः । तिरस्करोति धनदं धनाधिपसखार्चनात् ॥ ४५॥ तस्यासन् वाजिमातङ्गगोगणानां च कोटयः । सौभाग्यैर्विविधैरीशं सभाग्यः पूजयन् नृपः ॥ ४६॥ महाकालार्चनपरः कालभीतिविवर्जितः । तस्यासन्मन्त्रिणः सर्वे शाम्भवा एव केवलम् ॥ ४७॥ अशाम्भवो न कोप्यस्ति तस्मिन् राजनि शामति । भस्मरुद्राक्षसम्पन्नः शिवलिङ्गार्चने रतः ॥ ४८॥ अशाम्भवं नरं वापि द्विजं वापि नृपोतमः । स कोपितः शिरस्तस्य छेत्स्यत्येवातिवेगतः ॥ ४९॥ सदा नृपभयात् सर्वे शाम्भवास्तन्मते स्थिताः । तत्पुत्रास्तत्कलत्राणि गजवाजिनरा अपि ॥ ५०॥ भस्मत्रिपुण्ड्ररुद्राक्षमालालङ्कृतविग्रहाः । महाकाल महादेव चन्द्रचूडेति वादिनः ॥ ५१॥ तत्कलत्राणि सर्वाणि वीणावादनतत्पराः । महाकालालये नित्यं ता नृत्यन्ति लयानुगाः ॥ ५२॥ तत्कण्ठगीतमाधुर्य शारिकाश्च पिकादयः । विलज्जिता वनगताः कोकिलाः स्वकुलैः सह ॥ ५३॥ देवाङ्गनापि मुह्यन्ति तद्गातश्रवणोत्सुकाः । मृगाश्च पञ्चवः सर्वे सृमराश्चमरा अपि ॥ ५४॥ न वातप्रसरस्तत्र महाकालालये तदा । स राजा तत्कलत्राणि तत्पुत्राश्च मुदान्विताः ॥ ५५॥ दृष्ट्वा महेशलिङ्गं तन्महाकालस्य सादरम् । भस्मत्रिपुण्ड्ररुद्राक्षमालाभिः समलङ्कृतः ॥ ५६॥ हारोदारमहागानं नाट्यमत्युत्तमोत्तमम् । पश्यन्नास्ते स भूपालः कामुक कामिनीमिव ॥ ५७॥ तद्गानामृतधाराभिः सुधाधिक्कारिभिर्नृपः । शिवनामानुसन्धानं कुर्वन्नास्ते प्रहृष्टधीः ॥ ५८॥ शाम्भवैर्मन्त्रिभिः सार्धं वृद्धैर्मुनिगणैरपि । तेनोरुबिलवतरवः स्थापितः शङ्कराङ्गणे ॥ ५९॥ तन्मूले बाणलिङ्गानि स्थापयामास वै नृपः । लिङ्गानि पूजयेत्याशु बिल्वपत्रैः प्रतिक्षणम् ॥ ६०॥ शाम्भवैः सह संलापं करोत्येव स भूपतिः । शैवीमेव कथां नित्यं श‍ृणोत्येव सदा नृपः ॥ ६१॥ शाम्भवा भोजितास्तेन शिवनैवेद्यराशिभिः । तद्गृहे शिवनामानि सदा गायन्ति गायनाः ॥ ६२॥ शुकाश्च शारिकास्तत्र पाहि शम्भो शिवेति च । वदन्ति प्रीतिवाक्यानि शैवान्येवाथ पत्रिणः ॥ ६३॥ नृत्यन्ति च मयूगस्ते शिवलिङ्गाग्रतस्तदा । स्वपक्षधूननव्याजैः शैवान् खिन्नान् पतत्रिणः ॥ ६४॥ बीजयन्ति सदा हृष्टश्चञ्चुभिः कण्डुनाशकाः । बिल्ववृक्षेषु सततं निवसन्ति सदाण्डजाः ॥ ६५॥ गोरसापारपूरैश्च महाकालमसेचयत् । फलसारैश्च विविधैः पूजयामास शङ्करम् ॥ ६६॥ गन्धकर्पूरपाटीरमृगनाभिद्रवैः शुभैः । लेपयामास देवेशं सुगन्धैर्यक्षकर्दमैः ॥ ६७॥ अनर्घ्यमृदुसौवर्णदुकूलैरतसीभवैः । वेष्टयामास विमलैर्नानावर्णैर्नृपोत्तमः ॥ ६८॥ श्वेतकृष्णागरूत्यैश्च धूपैर्देवमधूपयत् । कपिलागोघृतापारदीपैः कर्पूरखण्डनैः ॥ ६९॥ दीपयामास विश्वेशमासायादुदयं नृपः । तद्दीपप्रभया लोका दीपितास्ते चतुर्दश ॥ ७०॥ अत्युज्ज्वल महारत्नभूषर्णैर्नवत्नजैः । निष्टप्सहेमखचितैर्भूषयामास शङ्करम् ॥ ७१॥ नवरत्नानेककृतं गोलकं लिङ्गमस्तके । दापयामास नृपतिर्भुजङ्गफणसंवृतम् ॥ ७२॥ स लक्षविलत्रपत्रैश्च पूजयामास शङ्करम् । सितरक्तैस्तथा पद्मैः फुल्लसौगन्धिकैः शिवम् ॥ ७३॥ पुन्नागनागवकुलैचम्पकैः करवीरकैः । स लक्षैः पूजयामास महाकालमहर्निशम् ॥ ७४॥ नीलोत्पलसहस्राढ्यां मालां लिङ्गे प्रकल्पयत् । नैवेद्यगिरयस्तेन कल्पिताः कोटिशोऽम्बिके ॥ ७५॥ अपूपगिरयस्तेन सूपपायसकर्दमाः । दधिक्षीरप्रवाहैश्च सोपदंशनगैस्तदा ॥ ७६॥ खदिरासारतक्कोलसुजातीफलपत्रकैः । लवङ्गैलाशुण्ठियुक्तैः कर्पूरक्रमुकैस्तथा ॥ ७७॥ मुक्ताचूर्णसमायुकनागवल्लीदलार्पणैः । रत्नच्छत्रैरपारैश्च चामरैर्व्यजनैरपि ॥ ७८॥ व्यजनैर्वीजयाञ्चक्रे छत्रैराच्छादवच्छिवम् । हंसकल्पैश्चामरौधैर्दुधाव जगदीश्वरम् ॥ ७९॥ दुन्दुभिप्रमुखानेकमृदङ्गानकगोमुखैः । शङ्खकाहलनिर्घोषैर्महाकालमघोषयत् ॥ ८०॥ नानाप्पुरोगणास्तेन नाट्यार्थ शिवमन्दिरे । कल्पितास्तेन भूपेन निष्ककण्ठ्यो वराङ्गनाः ॥ ८१॥ एवं प्रतिदिनं राजा महाकालार्चने रतः । तस्य नान्यत्कृत्यमस्ति शिवचित्तो महीपतिः ॥ ८२॥ दारोदारकुमारैश्च वसन्येव शिवालये । भोजयामास नैवेद्यैः शाम्भवानेव कोटिशः ॥ ८३॥ तद्राज्ये सर्वथा सर्वे शिवनैवेद्यभोजनाः । पवित्रगात्रास्तेनैव त्रिनेत्रप्रियकृत्तमाः ॥ ८४॥ तद्राज्यममिवृद्धं स्यात् तत्मन्त्रिप्रवरैतम् । चातुर्वर्ण्यं शाम्भवांश्च प्रजापतिरिव प्रजाः ॥ ८७॥ शशास निहतारातिः पुरारातिप्रसादतः । संसारचिन्ताविरतो निरतः शिवपूजने ॥ ८६॥ नैवेद्यैः शिवतर्पितैरघहरैः सम्पूज्य शैवान्नृपः सार्धं पुत्रकलत्रसहितोऽवात्सीत् सदा कामदे । क्षेत्रेऽस्मिन्सततं महेशकथा श्रीकालकालार्चनं कुर्वन्निर्मलचित्तमेतदधुना संसारवार्तालसम् ॥ ८७॥ वदन्त्येव भावाः शिवे सक्तभावाः भवे त्यक्तभावा नृपे हर्षभावाः । गतानङ्गभावाः सदा भक्तिभावाः महाधैर्यमावा वसन्त्येव भावाः ॥ ८८॥ शिवं कलिमलोत्थिनप्रबलतापपापानलैः विदग्धतनुमानमाः स्मरहरं न चार्चन्ति ये । मदन्यसुरपामरान् हरिविधीन्द्रपूर्वामरान् सदा मुहुरनन्यधीः स्मरति भाग्यहीनो नरः ॥ ८९॥ शिवनैवेद्यमपारपुण्यलभ्यं नहि लभ्यं सततं शिवद्रुहा । रजताद्रिनिवासभक्तिभुक्तौ मतिरुज्जायति शङ्करप्रसादात् ॥ ९०॥ ॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे महेश्वरप्रोक्ता उज्जयिनीमहाकालमहिमा ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः १। १८-९०॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 1. 18-90.. Notes: Shiva describes to Devi; the glory of Ujjain at the banks of river Kshipra, where King Chitraratha built the temple for Mahakala. The shloka numbers are maintained per the referenced source text Proofread by Ruma Dewan
% Text title            : Ujjayini Mahakala Mahima by Maheshvara
% File name             : ujjayinImahAkAlamahimAmaheshvaraproktA.itx
% itxtitle              : ujjayinImahAkAlamahimA maheshvaraproktA (shivarahasyAntargatA)
% engtitle              : ujjayinImahAkAlamahimA maheshvaraproktA
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 1| 18-90||
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org