उपमन्युप्रोक्तं शिवस्तोत्रम्
उपमन्युरुवाच ।
स्तोत्रं वक्ष्यामि ते कृष्ण पञ्चावरणमार्गतः ।
योगेश्वरमिदं पुण्यं कर्म येन समाप्यते ॥ १॥
जय जय जगदेकनाथ शम्भो प्रकृतिमनोहर नित्यचित्स्वभाव ।
अतिगतकलुषप्रपञ्चवाचामपि मनसां पदवीमतीततत्त्वम् ॥ २॥
स्वभावनिर्मलाभोग जय सुन्दरचेष्टित ।
स्वात्मतुल्यमहाशक्ते जय शुद्धगुणार्णव ॥ ३॥
अनन्तकान्तिसम्पन्न जयासदृशविग्रह ।
अतर्क्यमहिमाधार जयानाकुलमङ्गल ॥ ४॥
निरञ्जन निराधार जय निष्कारणोदय ।
निरन्तरपरानन्द जय निर्वृतिकारण ॥ ५॥
जयातिपरमैश्वर्य जयातिकरुणास्पद ।
जय स्वतन्त्रसर्वस्व जयासदृशवैभव ॥ ६॥
जयावृतमहाविश्व जयानावृत केनचित् ।
जयोत्तर समस्तस्य जयात्यन्तनिरुत्तर ॥ ७॥
जयाद्भुत जयाक्षुद्र जयाक्षत जयाव्यय ।
जयामेय जयामाय जयाभाव जयामल ॥ ८॥
महाभुज महासार महागुण महाकथ ।
महाबल महामाय महारस महारथ ॥ ९॥
नमः परमदेवाय नमः परमहेतवे ।
नमश्शिवाय शान्ताय नमश्शिवतराय ते ॥ १०॥
त्वदधीनमिदं कृत्स्नं जगद्धि ससुरासुरम् ।
अतस्त्वद्विहितामाज्ञां क्षमते कोऽतिवर्तितुम् ॥ १२॥
अयं पुनर्जनो नित्यं भवदेकसमाश्रयः ।
भवानतोऽनुगृह्यास्मै प्रार्थितं सम्प्रयच्छतु ॥ १३॥
जयाम्बिके जगन्मातर्जय सर्वजगन्मयि ।
जयानवधिकैश्वर्ये जयानुपमविग्रहे ॥ १४॥
जय वाङ्मनसातीते जयाचिद्ध्वान्तभञ्जिके ।
जय जन्मजराहीने जय कालोत्तरोत्तरे ॥ १५॥
जयानेकविधानस्थे जय विश्वेश्वरप्रिये ।
जय विश्वसुराराध्ये जय विश्वविजृम्भिणि ॥ १६॥
जय मङ्गलदिव्याङ्गि जय मङ्गलदीपिके ।
जय मङ्गलचारित्रे जय मङ्गलदायिनि ॥ १७॥
नमः परमकल्याणगुणसञ्चयमूर्तये ।
त्वत्तः खलु समुत्पन्नं जगत्त्वय्येव लीयते ॥ १८॥
त्वद्विनातः फलं दातुमीश्वरोऽपि न शक्नुयात् ।
जन्मप्रभृति देवेशि जनोऽयं त्वदुपाश्रितः ॥ १९॥
अतोऽस्य तव भक्तस्य निर्वर्तय मनोरथम् ।
पञ्चवक्त्रो दशभुजः शुद्धस्फटिकसन्निभः ॥ २०॥
वर्णब्रह्मकलादेहो देवस्सकलनिष्कलः ।
शिवभक्तिसमारूढः शान्त्यतीतस्सदाशिवः ॥ २१॥
भक्त्या मयार्चितो मह्यं प्रार्थितं शं प्रयच्छतु ॥ २१॥
सदाशिवाङ्कमारूढा शक्तिरिच्छा शिवाह्वया ।
जननी सर्वलोकानां प्रयच्छतु मनोरथम् ॥ २२॥
शिवयोर्दयिता पुत्रौ देवौ हेरम्बषण्मुखौ ।
शिवानुभावौ सर्वज्ञौ शिवज्ञानामृताशिनौ ॥ २३॥
तृप्तौ परस्परं स्निग्धौ शिवाभ्यां नित्यसत्कृतौ ।
सत्कृतौ च सदा देवौ ब्रह्माद्यैस्त्रिदशैरपि ॥ २४॥
सर्वलोकपरित्राणं कर्तुमभ्युदितौ सदा ।
स्वेच्छावतारं कुर्वन्तौ स्वांशभेदैरनेकशः ॥ २५॥
ताविमौ शिवयोः पार्श्वे नित्यमित्थं मयार्चितौ ।
तयोराज्ञां पुरस्कृत्य प्रार्थितं मे प्रयच्छताम् ॥ २६॥
शुद्धस्फटिकसङ्काशमीशानाख्यं सदाशिवम् ।
मूर्धाभिमानिनी मूर्तिः शिवस्य परमात्मनः ॥ २७॥
शिवार्चनरतं शान्तं शान्त्यतीतं मखास्थितम् ।
पञ्चाक्षरान्तिमं बीजं कलाभिः पञ्चभिर्युतम् ॥ २८॥
प्रथमावरणे पूर्वं शक्त्या सह समर्चितम् ।
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ २९॥
बालसूर्यप्रतीकाशं पुरुषाख्यं पुरातनम् ।
पूर्ववक्त्राभिमानं च शिवस्य परमेष्ठिनः ॥ ३०॥
शान्त्यात्मकं मरुत्संस्थं शम्भोः पादार्चने रतम् ।
प्रथमं शिवबीजेषु कलासु च चतुष्कलम् ॥ ३१॥
पूर्वभागे मया भक्त्या शक्त्या सह समर्चितम् ।
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ३२॥
अञ्जनादिप्रतीकाशमघोरं घोरविग्रहम् ।
देवस्य दक्षिणं वक्त्रं देवदेवपदार्चकम् ॥ ३३॥
विद्यापादं समारूढं वह्निमण्डलमध्यगम् ।
द्वितीयं शिवबीजेषु कलास्वष्टकलान्वितम् ॥ ३४॥
शम्भोर्दक्षिणदिग्भागे शक्त्या सह समर्चितम् ।
पवित्रं मध्यमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ३५॥
कुङ्कुमक्षोदसङ्काशं वामाख्यं वरवेषधृक् ।
वक्त्रमुत्तरमीशस्य प्रतिष्ठायां प्रतिष्ठितम् ॥ ३६॥
वारिमण्डलमध्यस्थं महादेवार्चने रतम् ।
तुरीयं शिवबीजेषु त्रयोदशकलान्वितम् ॥ ३७॥
देवस्योत्तरदिग्भागे शक्त्या सह समर्चितम् ।
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ३८॥
शङ्खकुन्देन्दुधवलं सन्ध्याख्यं सौम्यलक्षणम् ।
शिवस्य पश्चिमं वक्त्रं शिवपादार्चने रतम् ॥ ३९॥
निवृत्तिपदनिष्ठं च पृथिव्यां समवस्थितम् ।
तृतीयं शिवबीजेषु कलाभिश्चाष्टभिर्युतम् ॥ ४०॥
देवस्य पश्चिमे भागे शक्त्या सह समर्चितम् ।
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ४१॥
शिवस्य तु शिवायाश्च हृन्मूर्तिशिवभाविते ।
तयोराज्ञां पुरस्कृत्य ते मे कामं प्रयच्छताम् ॥ ४२॥
शिवस्य च शिवायाश्च शिखामूर्तिशिवाश्रिते ।
सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ४३॥
शिवस्य च शिवायाश्च वर्मणा शिवभाविते ।
सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ४४॥
शिवस्य च शिवायाश्च नेत्रमूर्तिशिवाश्रिते ।
सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ४५॥
अस्त्रमूर्ती च शिवयोर्नित्यमर्चनतत्परे ।
सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ४६॥
वामो ज्येष्ठस्तथा रुद्रः कालो विकरणस्तथा ।
बलो विकरणश्चैव बलप्रमथनः परः ॥ ४७॥
सर्वभूतस्य दमनस्तादृशाश्चाष्टशक्तयः ।
प्रार्थितं मे प्रयच्छन्तु शिवयोरेव शासनात् ॥ ४८॥
अथानन्तश्च सूक्ष्मश्च शिवश्चाप्येकनेत्रकः ।
एक रुद्राख्यमूर्तिश्च श्रीकण्ठश्च शिखण्डकः ॥ ४९॥
तथाष्टौ शक्तयस्तेषां द्वितीयावरणेऽर्चिताः ।
ते मे कामं प्रयच्छन्तु शिवयोरेव शासनात् ॥ ५०॥
भवाद्या मूर्तयश्चाष्टौ तासामपि च शक्तयः ।
महादेवादयश्चान्ये तथैकादशमूर्तयः ॥ ५१॥
शक्तिभिस्सहितास्सर्वे तृतीयावरणे स्थिताः ।
सत्कृत्य शिवयोराज्ञां दिशन्तु फलमीप्सितम् ॥ ५२॥
वृक्षराजो महातेजा महामेघसमस्वनः ।
मेरुमन्दरकैलासहिमाद्रिशिखरोपमः ॥ ५३॥
सिताभ्रशिखराकारः ककुदा परिशोभितः ।
महाभोगीन्द्रकल्पेन वालेन च विराजितः ॥ ५४॥
रक्तास्यशृङ्गचरणौ रक्तप्रायविलोचनः ।
पीवरोन्नतसर्वाङ्गस्सुचारुगमनोज्ज्वलः ॥ ५५॥
प्रशस्तलक्षणः श्रीमान्प्रज्वलन्मणिभूषणः ।
शिवप्रियः शिवासक्तः शिवयोर्ध्वजवाहनः ॥ ५६॥
तथा तच्चरणन्यासपावितापरविग्रहः ।
गोराजपुरुषः श्रीमाञ्छ्रीमच्छूलवरायुधः ।
तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ ५७॥
नन्दीश्वरो महातेजा नगेन्द्रतनयात्मजः ।
सनारायणकैर्देवैर्नित्यमभ्यर्च्य वन्दितः ॥ ५८॥
शर्वस्यान्तःपुरद्वारि सार्धं परिजनैः स्थितः ।
सर्वेश्वरसमप्रख्यस्सर्वासुरविमर्दनः ॥ ५९॥
सर्वेषां शिवधर्माणामध्यक्षत्वेऽभिषेचितः ।
शिवप्रियश्शिवासक्तश्श्रीमच्छूलवरायुधः ॥ ६०॥
शिवाश्रितेषु संसक्तस्त्वनुरक्तश्च तैरपि ।
सत्कृत्य शिवयोराज्ञां स मे कामं प्रयच्छतु ॥ ६१॥
महाकालो महाबाहुर्महादेव इवापरः ।
महादेवाश्रितानां तु नित्यमेवाभिरक्षतु ॥ ६२॥
शिवप्रियः शिवासक्तश्शिवयोरर्चकस्सदा ।
सत्कृत्य शिवयोराज्ञां स मे दिशतु काङ्क्षितम् ॥ ६३॥
सर्वशास्त्रार्थतत्त्वज्ञः शास्ता विष्णोः परा तनुः ।
महामोहात्मतनयो मधुमांसासवप्रियः ।
तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ ६४॥
ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा ।
वाराही चैव माहेन्द्री चामुण्डा चण्डविक्रमा ॥ ६५॥
एता वै मातरः सप्त सर्वलोकस्य मातरः ।
प्रार्थितं मे प्रयच्छन्तु परमेश्वरशासनात् ॥ ६६॥
मत्तमातङ्गवदनो गङ्गोमाशङ्करात्मजः ।
आकाशदेहो दिग्बाहुस्सोमसूर्याग्निलोचनः ॥ ६७॥
ऐरावतादिभिर्दिव्यैर्दिग्गजैर्नित्यमर्चितः ।
शिवज्ञानमदोद्भिन्नस्त्रिदशानामविघ्नकृत् ॥ ६८॥
विघ्नकृच्चासुरादीनां विघ्नेशः शिवभावितः ।
सत्कृत्य शिवयोराज्ञां स मे दिशतु काङ्क्षितम् ॥ ६९॥
षण्मुखश्शिवसम्भूतः शक्तिवज्रधरः प्रभुः ।
अग्नेश्च तनयो देवो ह्यपर्णातनयः पुनः ॥ ७०॥
गङ्गायाश्च गणाम्बायाः कृत्तिकानां तथैव च ।
विशाखेन च शाखेन नैगमेयेन चावृतः ॥ ७१॥
इन्द्रजिच्चन्द्रसेनानीस्तारकासुरजित्तथा ।
शैलानां मेरुमुख्यानां वेधकश्च स्वतेजसा ॥ ७२॥
तप्तचामीकरप्रख्यः शतपत्रदलेक्षणः ।
कुमारस्सुकुमाराणां रूपोदाहरणं महत् ॥ ७३॥
शिवप्रियः शिवासक्तः शिवपादार्चकस्सदा ।
सत्कृत्य शिवयोराज्ञां स मे दिशतु काङ्क्षितम् ॥ ७४॥
ज्येष्ठा वरिष्ठा वरदा शिवयोर्यजनेरता ।
तयोराज्ञां पुरस्कृत्य सा मे दिशतु काङ्क्षितम् ॥ ७५॥
त्रैलोक्यवन्दिता साक्षादुल्काकारा गणाम्बिका ।
जगत्सृष्टिविवृद्ध्यर्थं ब्रह्मणाऽभ्यर्थिता शिवात् ॥ ७६॥
शिवायाः प्रविभक्ताया भ्रुवोरन्तरनिस्सृताः ।
दक्षायणी सती मेना तथा हैमवती ह्युमा ॥ ७७॥
कौशिक्याश्चैव जननी भद्रकाल्यास्तथैव च ।
अपर्णायाश्च जननी पाटलायास्तथैव च ॥ ७८॥
शिवार्चनरता नित्यं रुद्राणी रुद्रवल्लभा ।
सत्कृत्य शिवयोराज्ञां सा मे दिशतु काङ्क्षितम् ॥ ७९॥
चण्डः सर्वगणेशानः शम्भोर्वदनसम्भवः ।
सत्कृत्य शिवयोराज्ञां स मे दिशतु काङ्क्षितम् ॥ ८०॥
पिङ्गलो गणपः श्रीमाञ्छिवासक्तः शिवप्रियः ।
आज्ञया शिवयोरेव स मे कामं प्रयच्छतु ॥ ८१॥
भृङ्गीशो नाम गणपः शिवराधनतत्परः ।
प्रयच्छतु स मे कामं पत्युराज्ञापुरःसरम् ॥ ८२॥
वीरभद्रो महातेजा हिमकुन्देन्दुसन्निभः ।
भद्रकालीप्रियो नित्यं मातॄणां चाभिरक्षिता ॥ ८३॥
यज्ञस्य च शिरोहर्ता दक्षस्य च दुरात्मनः ।
उपेन्द्रेन्द्रयमादीनां देवानामङ्गरक्षकः ॥ ८४॥
शिवस्यानुचरः श्रीमाञ्छिवशासनपालकः ।
शिवयोः शासनादेव स मे दिशतु काङ्क्षितम् ॥ ८५॥
सरस्वती महेशस्य वाक्सरोजसमुद्भवा ।
शिवयोः पूजने सक्ता सा मे दिशतु काङ्क्षितम् ॥ ८६॥
विष्णोर्वक्षःस्थिता लक्ष्मीः शिवयोः पूजने रता ।
शिवयोः शासनादेव सा मे दिशतु काङ्क्षितम् ॥ ८७॥
महामोटी महादेव्याः पादपूजापरायणा ।
तस्या एव नियोगेन सा मे दिशतु काङ्क्षितम् ॥ ८८॥
कौशिकी सिंहमारूढा पार्वत्याः परमा सुता ।
विष्णोर्निद्रामहामाया महामहिषमर्दिनी ॥ ८९॥
निशुम्भशुम्भसंहत्री मधुमांसासवप्रिया ।
सत्कृत्य शासनं मातुस्सा मे दिशतु काङ्क्षितम् ॥ ९०॥
रुद्रा रुद्रसमप्रख्याः प्रमथाः प्रथितौजसः ।
भूताख्याश्च महावीर्या महादेवसमप्रभाः ॥ ९१॥
नित्यमुक्ता निरुपमा निर्द्वन्द्वा निरुपप्लवाः ।
सशक्तयस्सानुचरास्सर्वलोकनमस्कृताः ॥ ९२॥
सर्वेषामेव लोकानां सृष्टिसंहरणक्षमाः ।
परस्परानुरक्ताश्च परस्परमनुव्रताः ॥ ९३॥
परस्परमतिस्निग्धाः परस्परनमस्कृताः ।
शिवप्रियतमा नित्यं शिवलक्षणलक्षिताः ॥ ९४॥
सौम्याधारास्तथा मिश्राश्चान्तरालद्वयात्मिकाः ।
विरूपाश्च सुरूपाश्च नानारूपधरास्तथा ॥ ९५॥
सत्कृत्य शिवयोराज्ञां ते मे कामं दिशन्तु वै ।
देव्या प्रियसखीवर्गो देवीलक्षणलक्षितः ॥ ९६॥
सहितो रुद्रकन्याभिः शक्तिभिश्चाप्यनेकशः ।
तृतीयावरणे शम्भोर्भक्त्या नित्यं समर्चितः ॥ ९७॥
सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम् ।
दिवाकरो महेशस्य मूर्तिर्दीप्तिसुमण्डलः ॥ ९८॥
निर्गुणो गुणसङ्कीर्णस्तथैव गुणकेवलः ।
अविकारात्मकश्चाद्य एकस्सामान्यविक्रियः ॥ ९९॥
असाधारणकर्मा च सृष्टिस्थितिलयक्रमात् ।
एवं त्रिधा चतुर्धा च विभक्ताः पञ्चधा पुनः ॥ १००॥
चतुर्थावरणे शम्भोः पूजितश्चानुगैः सह ।
शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ १०१॥
सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम् ।
दिवाकरषडङ्गानि दीप्ताद्याश्चाष्टशक्तयः ॥ १०२॥
आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः ।
अर्को ब्रह्मा तथा रुद्रो विष्णुश्चादित्यमूर्तयः ॥ १०३॥
विस्तरासुतराबोधिन्याप्यायिन्यपराः पुनः ।
उषा प्रभा तथा प्रज्ञा सन्ध्या चेत्यपि शक्तयः ॥ १०४॥
सोमादिकेतुपर्यन्ता ग्रहाश्च शिवभाविताः ।
शिवयोराज्ञया नुन्ना मङ्गलं प्रदिशन्तु मे ॥ १०५॥
अथवा द्वादशादित्यास्तथा द्वादश शक्तयः ।
ऋषयो देवगन्धर्वाः पन्नगाप्सरसां गणाः ॥ १०६॥
ग्रामण्यश्च तथा यक्षा राक्षसाश्चासुरास्तथा ।
सप्तसप्तगणाश्चैते सप्तच्छन्दोमया हयाः ॥ १०७॥
वालखिल्यादयश्चैव सर्वे शिवपदार्चकाः ।
सत्कृत्य शिवयोराज्ञां मङ्गलं प्रदिशन्तु मे ॥ १०८॥
ब्रह्माथ देवदेवस्य मूर्तिर्भूमण्डलाधिपः ।
चतुःषष्टिगुणैश्वर्यो बुद्धितत्त्वे प्रतिष्ठितः ॥ १०९॥
निर्गुणो गुणसंङ्कीर्णस्तथैव गुणकेवलः ।
अविकारात्मको देवस्ततस्साधारणः पुरः ॥ ११०॥
असाधारणकर्मा च सृष्टिस्थितिलयक्रमात् ।
भुवं त्रिधा चतुर्धा च विभक्तः पञ्चधा पुनः ॥ १११॥
चतुर्थावरणे शम्भो पूजितश्च सहानुगैः ।
शिवप्रियः शिवासक्तश्शिवपादार्चने रतः ॥ ११२॥
सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम् ।
हिरण्यगर्भो लोकेशो विराट्कालश्च पूरुषः ॥ ११३॥
सनत्कुमारः सनकः सनन्दश्च सनातनः ।
प्रजानां पतयश्चैव दक्षाद्या ब्रह्मसूनवः ॥ ११४॥
एकादश सपत्नीका धर्मस्सङ्कल्प एव च ।
शिवार्चनरताश्चैते शिवभक्तिपरायणाः ॥ ११५॥
शिवाज्ञावशगास्सर्वे दिशन्तु मम मङ्गलम् ।
चत्वारश्च तथा वेदास्सेतिहासपुराणकाः ॥ ११६॥
धर्मशास्त्राणि विद्याभिर्वैदिकीभिस्समन्विताः ।
परस्परविरुद्धार्थाः शिवप्रकृतिपादकाः ॥ ११७॥
सत्कृत्य शिवयोराज्ञां मङ्गलं प्रदिशन्तु मे ।
अथ रुद्रो महादेवः शम्भोर्मूर्तिर्गरीयसी ॥ ११८॥
वाह्नेयमण्डलाधीशः पौरुषैश्वर्यवान्प्रभुः ।
शिवाभिमानसम्पन्नो निर्गुणस्त्रिगुणात्मकः ॥ ११९॥
केवलं सात्त्विकश्चापि राजसश्चैव तामसः ।
अविकाररतः पूर्वं ततस्तु समविक्रियः ॥ १२०॥
असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक् ।
ब्रह्मणोऽपि शिरश्छेत्ता जनकस्तस्य तत्सुतः ॥ १२१॥
जनकस्तनयश्चापि विष्णोरपि नियामकः ।
बोधकश्च तयोर्नित्यमनुग्रहकरः प्रभुः ॥ १२२॥
अण्डस्यान्तर्बहिर्वर्ती रुद्रो लोकद्वयाधिपः ।
शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ १२३॥
शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मङ्गलम् ।
तस्य ब्रह्म षडङ्गानि विद्येशान्तं तथाष्टकम् ॥ १२४॥
चत्वारो मूर्तिभेदाश्च शिवपूर्वाः शिवार्चकाः ।
शिवो भवो हरश्चैव मृडश्चैव तथापरः ।
शिवस्याज्ञां पुरस्कृत्य मङ्गलं प्रदिशन्तु मे ॥ १२५॥
अथ विष्णुर्महेशस्य शिवस्यैव परा तनुः ।
वारितत्त्वाधिपः साक्षादव्यक्तपदसंस्थितः ॥ १२६॥
निर्गुणस्सत्त्वबहुलस्तथैव गुणकेवलः ।
अविकाराभिमानी च त्रिसाधारणविक्रियः ॥ १२७॥
असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक् ।
दक्षिणाङ्गभवेनापि स्पर्धमानः स्वयम्भुवा ॥ १२८॥
आद्येन ब्रह्मणा साक्षात्सृष्टः स्रष्टा च तस्य तु ।
अण्डस्यान्तर्बहिर्वर्ती विष्णुर्लोकद्वयाधिपः ॥ १२९॥
असुरान्तकरश्चक्री शक्रस्यापि तथानुजः ।
प्रादुर्भूतश्च दशधा भृगुशापच्छलादिह ॥ १३०॥
भूभारनिग्रहार्थाय स्वेच्छयावातरत्क्षितौ ।
अप्रमेयबलो मायी मायया मोहयञ्जगत् ॥ १३१॥
मूर्तिं कृत्वा महाविष्णुं सदाविष्णुमथापि वा ।
वैष्णवैः पूजितो नित्यं मूर्तित्रयमयासने ॥ १३२॥
शिवप्रियः शिवासक्तः शिवपादार्चने रतः ।
शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मङ्गलम् ॥ १३३॥
वासुदेवोऽनिरुद्धश्च प्रद्युम्नश्च ततः परः ।
सङ्कर्षणस्समाख्याताश्चतस्रो मूर्तयो हरेः ॥ १३४॥
मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः ।
रामत्रयं तथा कृष्णो विष्णुस्तुरगवक्त्रकः ॥ १३५॥
चक्रं नारायणस्यास्त्रं पाञ्चजन्यं च शार्ङ्गकम् ।
सत्कृत्य शिवयोराज्ञां मङ्गलं प्रदिशन्तु मे ॥ १३६॥
प्रभा सरस्वती गौरी लक्ष्मीश्च शिवभाविता ।
शिवयोः शासनादेता मङ्गलं प्रदिशन्तु मे ॥ १३७॥
इन्द्रोऽग्निश्च यमश्चैव निरृतिर्वरुणस्तथा ।
वायुः सोमः कुबेरश्च तथेशानस्त्रिशूलधृक् ॥ १३८॥
सर्वे शिवार्चनरताः शिवसद्भावभाविताः ।
सत्कृत्य शिवयोराज्ञां मङ्गलं प्रदिशन्तु मे ॥ १३९॥
त्रिशूलमथ वज्रं च तथा परशुसायकौ ।
खड्गपाशाङ्कुशाश्चैव पिनाकश्चायुधोत्तमः ॥ १४०॥
दिव्यायुधानि देवस्य देव्याश्चैतानि नित्यशः ।
सत्कृत्य शिवयोराज्ञां रक्षां कुर्वन्तु मे सदा ॥ १४१॥
वृषरूपधरो देवः सौरभेयो महाबलः ।
वडवाख्यानलस्पर्धां पञ्चगोमातृभिर्वृतः ॥ १४२॥
वाहनत्वमनुप्राप्तस्तपसा परमेशयोः ।
तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ १४३॥
नन्दा सुनन्दा सुरभिः सुशीला सुमना तथा ।
पञ्चगोमातरस्त्वेताश्शिवलोके व्यवस्थिताः ॥ १४४॥
शिवभक्तिपरा नित्यं शिवार्चनपरायणाः ।
शिवयोः शासनादेव दिशन्तु मम वाञ्छितम् ॥ १४५॥
क्षेत्रपालो महातेजा नीलजीमूतसन्निभः ।
दंष्ट्राकरालवदनः स्फुरद्रक्ताधरोज्ज्वलः ॥ १४६॥
रक्तोर्ध्वमूर्धजः श्रीमान्भ्रुकुटीकुटिलेक्षणः ।
रक्तवृत्तत्रिनयनः शशिपन्नगभूषणः ॥ १४७॥
नग्नस्त्रिशूलपाशासिकपालोद्यतपाणिकः ।
भैरवो भैरवैः सिद्धैर्योगिनीभिश्च संवृतः ॥ १४८॥
क्षेत्रे क्षेत्रे समासीनः स्थितो यो रक्षकस्सताम् ।
शिवप्रणामपरमः शिवसद्भावभावितः ॥ १४९॥
शिवाश्रितान्विशेषेण रक्षन्पुत्रानिवौरसान् ।
सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम् ॥ १५०॥
तालजङ्घादयस्तस्य प्रथमावरणेऽर्चिताः ।
सत्कृत्य शिवयोराज्ञां चत्वारः समवन्तु माम् ॥ १५१॥
भैरवाद्याश्च ये चान्ये समन्तात्तस्य वेष्टिताः ।
तेऽपि मामनुगृह्णन्तु शिवशासनगौरवात् ॥ १५२॥
नारदाद्याश्च मुनयो दिव्या देवैश्च पूजिताः ।
साध्या नागाश्च ये देवा जनलोकनिवासिनः ॥ १५३॥
विनिवृत्ताधिकाराश्च महर्लोकनिवासिनः ।
सप्तर्षयस्तथान्ये वै वैमानिकगुणैस्सह ॥ १५४॥
सर्वे शिवार्चनरताः शिवाज्ञावशवर्तिनः ।
शिवयोराज्ञया मह्यं दिशन्तु मम काङ्क्षितम् ॥ १५५॥
गन्धर्वाद्याः पिशाचान्ताश्चतस्रो देवयोनयः ।
सिद्धा विद्याधराद्याश्च येऽपि चान्ये नभश्चराः ॥ १५६॥
असुरा राक्षसाश्चैव पातालतलवासिनः ।
अनन्ताद्याश्च नागेन्द्रा वैनतेयादयो द्विजाः ॥ १५७॥
कूष्माण्डाः प्रेतवेताला ग्रहा भूतगणाः परे ।
डाकिन्यश्चापि योगिन्यः शाकिन्यश्चापि तादृशाः ॥ १५८॥
क्षेत्रारामगृहादीनि तीर्थान्यायतनानि च ।
द्वीपाः समुद्रा नद्यश्च नदाश्चान्ये सरांसि च ॥ १५९॥
गिरयश्च सुमेर्वाद्याः काननानि समन्ततः ।
पशवः पक्षिणो वृक्षाः कृमिकीटादयो मृगाः ॥ १६०॥
भुवनान्यपि सर्वाणि भुवनानामधीश्वराः ।
अण्डान्यावरणैस्सार्धं मासाश्च दश दिग्गजाः ॥ १६१॥
वर्णाः पदानि मन्त्राश्च तत्त्वान्यपि सहाधिपैः ।
ब्रह्माण्डधारका रुद्रा रुद्राश्चान्ये सशक्तिकाः ॥ १६२॥
यच्च किञ्चिज्जगत्यस्मिन्दृष्टं चानुमितं श्रुतम् ।
सर्वे कामं प्रयच्छन्तु शिवयोरेव शासनात् ॥ १६३॥
अथ विद्या परा शैवी पशुपाशविमोचिनी ।
पञ्चार्थसंज्ञिता दिव्या पशुविद्याबहिष्कृता ॥ १६४॥
शास्त्रं च शिवधर्माख्यं धर्माख्यं च तदुत्तरम् ।
शैवाख्यं शिवधर्माख्यं पुराणं श्रुतिसम्मितम् ॥ १६५॥
शैवागमाश्च ये चान्ये कामिकाद्याश्चतुर्विधाः ।
शिवाभ्यामविशेषेण सत्कृत्येह समर्चिताः ॥ १६६॥
ताभ्यामेव समाज्ञाता ममाभिप्रेतसिद्धये ।
कर्मेदमनुमन्यन्तां सफलं साध्वनुष्ठितम् ॥ १६७॥
श्वेताद्या नकुलीशान्ताः सशिष्याश्चापि देशिकाः ।
तत्सन्ततीया गुरवो विशेषाद्गुरवो मम ॥ १६८॥
शैवा माहेश्वराश्चैव ज्ञानकर्मपरायणाः ।
कर्मेदमनुमन्यन्तां सफलं साध्वनुष्ठितम् ॥ १६९॥
लौकिका ब्राह्मणास्सर्वे क्षत्रियाश्च विशः क्रमात् ।
वेदवेदाङ्गतत्त्वज्ञाः सर्वशास्त्रविशारदाः ॥ १७०॥
साङ्ख्या वैशेषिकाश्चैव यौगा नैयायिका नराः ।
सौरा ब्रह्मास्तथा रौद्रा वैष्णवाश्चापरे नराः ॥ १७१॥
शिष्टाः सर्वे विशिष्टाश्च शिवशासनयन्त्रिताः ।
कर्मेदमनुमन्यन्तां ममाभिप्रेतसाधकम् ॥ १७२॥
शैवाः सिद्धान्तमार्गस्थाः शैवाः पाशुपतास्तथा ।
शैवा महाव्रतधराः शैवाः कापालिकाः परे ॥ १७३॥
शिवाज्ञापालकाः पूज्या ममापि शिवशासनात् ।
सर्वे ममानुगृह्णन्तु शंसन्तु सफलक्रियाम् ॥ १७४॥
दक्षिणज्ञाननिष्ठाश्च दक्षिणोत्तरमार्गगाः ।
अविरोधेन वर्तन्तां मन्त्रश्रेयोऽर्थिनो मम ॥ १७५॥
नास्तिकाश्च शठाश्चैव कृतघ्नाश्चैव तामसाः ।
पाषण्डाश्चातिपापाश्च वर्तन्तां दूरतो मम ॥ १७६॥
बहुभिः किं स्तुतैरत्र येऽपि केऽपिचिदास्तिकाः ।
सर्वे मामनुगृह्णन्तु सन्तः शंसन्तु मङ्गलम् ॥ १७७॥
नमश्शिवाय साम्बाय ससुतायादिहेतवे ।
पञ्चावरणरूपेण प्रपञ्चेनावृताय ते ॥ १७८॥
इत्युक्त्वा दण्डवद्भूमौ प्रणिपत्य शिवं शिवाम् ।
जपेत्पञ्चाक्षरीं विद्यामष्टोत्तरशतावराम् ॥ १७९॥
तथैव शक्तिविद्यां च जपित्वा तत्समर्पणम् ।
कृत्वा तं क्षमयित्वेशं पूजाशेषं समापयेत् ॥ १८०॥
एतत्पुण्यतमं स्तोत्रं शिवयोर्हृदयङ्गमम् ।
सर्वाभीष्टप्रदं साक्षाद्भुक्तिमुक्त्यैकसाधनम् ॥ १८१॥
य इदं कीर्तयेन्नित्यं शृणुयाद्वा समाहितः ।
स विधूयाशु पापानि शिवसायुज्यमाप्नुयात् ॥ १८२॥
गोघ्नश्चैव कृतघ्नश्च वीरहा भ्रूणहापि वा ।
शरणागतघाती च मित्रविश्रम्भघातकः ॥ १८३॥
दुष्टपापसमाचारो मातृहा पितृहापि वा ।
स्तवेनानेन जप्तेन तत्तत्पापात्प्रमुच्यते ॥ १८४॥
दुःस्वप्नादिमहानर्थसूचकेषु भयेषु च ।
यदि सङ्कीर्तयेदेतन्न ततो नार्थभाग्भवेत् ॥ १८५॥
आयुरारोग्यमैश्वर्यं यच्चान्यदपि वाञ्छितम् ।
स्तोत्रस्यास्य जपे तिष्ठंस्तत्सर्वं लभते नरः ॥ १८६॥
असम्पूज्य शिवस्तोत्रं जपात्फलमुदाहृतम् ।
सम्पूज्य च जपे तस्य फलं वक्तुं न शक्यते ॥ १८७॥
आस्तामियं फलावाप्तिरस्मिन्सङ्कीर्तिते सति ।
सार्धमम्बिकया देवः श्रुत्यैवं दिवि तिष्ठति ॥ १८८॥
तस्मान्नभसि सम्पूज्य देवदेवं सहोमया ।
कृताञ्जलिपुटस्तिष्ठंस्तोत्रमेतदुदीरयेत् ॥ १८९॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां
उत्तरखण्डे एकत्रिंशाध्यायान्तर्गतं उपमन्युकृतं
शिवस्तोत्रं समाप्तम् ।
शिवपुराण । वायवीयसंहिता । उत्तरभाग २ । अध्याय ३१/१-१८८॥
shivapurANa . vAyavIyasaMhitA . uttarabhAga 2 . adhyAya 31/1-188..
Proofread by PSA Easwaran