वीरभद्रप्रति शिवाज्ञाकथनम्
(शिवरहस्यान्तर्गते ईशाख्ये)
भैरव (वीरभद्र) उवाच ।
देव देव महादेव कल्याणवरुणालय ।
मरुत्पारणहाराढयकन्धरानन्तविक्रम ॥ १२॥
मामाज्ञापय देवेश किमत्र करवाणि ते ।
किं पिबाम्यम्बुधीन् सप्त तरङ्गावलिघूर्णितान् ॥ १३॥
चूर्णितं किं गिरिव्रातं करोमि पदघाततः ।
किं ब्रह्माण्डं महापिण्डं करोम्यद्य चराचरैः ॥ १४॥
भूचक्रमखिलं चात्र चित्रनेत्राग्निना दहन् ।
किं वा सुरासुरव्रातं पातयामि मृतं पुरः ॥ १५॥
शीघ्रमाज्ञापयेदानीं मा विलम्बितुमर्हसि ।
तद्भैरवोरुरभसा वचसा परमेश्वरः ॥ १६॥
विप्रयोगेण वै देव्या दुःसहेनैव सुव्रताः ।
तदा तीव्रतरं स्वाङ्गात्ससर्ज भुवि तर्जकान् ॥ १७॥
सौम्यानथ गणश्रेष्ठानसौम्यान् शिवभावनान् ।
तुरङ्गवरमातङ्गसारङ्गास्यान् मनोहरान् ॥ १८॥
काकोलूकबकाभास्यान् वृकभेकास्यकांस्तथा ।
भल्लूकसृमराभास्यान् चामरास्यांस्तथा गणान् ॥ १९॥
शेषमाहिषवक्त्रांश्च खड्गगोमायुवक्त्रकान्
वृषभास्यान् रासभास्यान् इभास्यान् कोकिलास्यकान् ।
एवं गणगणं तत्र दृष्ट्वेशः पुरतः स्थितम् ।
कोटित्रयातिगणितं नानावेषैकभूषितम् ॥ २०॥
रूषितं भसितेनैव घोषमाणं मुहुर्मुहुः ।
त्रिपुण्ड्रभालं रुद्राक्षफणिहारविभूषितम् ॥ २१॥
असिकार्मुकनिस्त्रिंसखड्गखेटधरं तदा ।
बाणबाणासनधरं करवालसत्कटिम् ॥ २२॥
कुन्तशातारिमुत्कृष्टं प्रणतं पुरतः स्थितम् ।
सास्राविलाक्षस्त्र्यक्षस्तान् मुहुरीक्षन्नुवाचह ॥ २३॥
वीरभद्रं पुरस्कृत्य रुद्रकोटिसमन्वितम् ।
ईश्वर उवाच ।
वीरभद्र सदाभद्र तवास्तु विजयो गणैः ॥ २४॥
तूर्णं प्रयाहि दक्षस्य यज्ञवाटं सुरैर्वृतम् ।
विष्णुब्रह्मादिविबुधैः क्षणाद्विध्वंसयाधुना ॥ २५॥
तेन मे प्रीतिरतुला मा ते विघ्नोऽत्र सम्प्रति ।
(स्कन्द उवाच)
इत्युक्तोऽथ महेशेन वीरभद्रो गणैः सह ॥ २६॥
मत्तवारणसङ्काशैर्ययौ गणगणैर्वृतः ।
नत्वा तं श्रीमहादेवं वीरभद्रो नदंस्तदा ॥ २७॥
गणा जगर्जुश्च तदा भ्रामयन्तोऽस्त्रमण्डलम् ।
गणेश्वरकृतारावबधिरीकृतदिङ्मुखम् ॥ २८॥
तन्मखं लेखकैः सार्धं दुर्मुखं समपद्यत ।
तदा वाता ववुर्लोके तत्र वा भयशंसिनः ॥ २९॥
पर्वताश्च व्यशीर्यन्त चकम्पे च वसुन्धरा ।
मारुतैश्चाप्यघूर्णन्त चुक्षुभे वरुणालयः ॥ ३०॥
अग्नयो नाप्यदीप्यन्त न च भाति प्रभाकरः ।
ग्रहाश्च न प्रकाशन्ते पेतुर्नक्षत्रपङ्क्तयः ॥ ३१॥
उल्का कबन्धसहिता पपात मखसंसदि ।
गणेश्वरैः समारुह्य रथं भद्रो गिरिप्रभम् ॥ ३२॥
सहस्राश्वं पताकाढ्यं कुम्भराजत्पताककम् ।
गणास्तमन्वयुस्तत्र विविधायुधपाणयः ॥ ३३॥
गर्जन्तश्चातिहृष्यन्तो भिन्दन्तो गां शरावरैः ।
शूलमूलैर्गिरिव्रातं धनुष्कोट्योत्सृजन्त्यपि ॥ ३४॥
॥ इति शिवरहस्यान्तर्गते वीरभद्रप्रति शिवाज्ञाकथनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । अध्यायः ६ वीरभद्रविष्णुयुद्धम् । १२-३४ ॥
- .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . adhyAyaH 6 vIrabhadraviShNuyuddham . 12-34 ..
Notes:
Skanda स्कन्द narrates (to Jaigīṣavya जैगीषव्य); about the formidable Vīrabhadra वीरभद्र (a.k.a Bhairava भैरव due to His frightening appearance) who had manifested from the dreadlocks of Śiva शिव and is eager about receiving instructions from Him and executing them.
Proofread by Ruma Dewan