वीरभद्रेण दक्षाध्वरध्वंसकथनम्
(शिवरहस्यान्तर्गते ईशाख्ये)
(स्कन्द उवाच)
कशाङ्कुशाङ्गुष्ठसुपृष्ठतोदनै-
स्तोत्रैश्च योक्त्रैः सुखलीनचालनैः ।
करीन्द्रसङ्घष्टकरेणुपुञ्ज-
प्रकीर्णतामा रणावनिस्तदा ॥ १०८॥
धावद्रथाङ्गोत्थितरेणुरूषितैः
सुभूषणश्मश्रुभिरुद्धतासुराः ।
गणा विकोशीकृतखड्गखेट-
प्रहारधारासु पतन्ति भृङ्गवत् ॥ १०९॥
कोदण्डदण्डोद्भवबाणकृत्त-
वेतण्डशुण्डारदखण्डसंसृता ।
सुरोरुमुण्डाजकषण्डमण्डिता
तदा गणेन्द्रैः प्रबभौ रणावनिः ॥ ११०॥
तुरङ्गहेषैर्गजबृंहितारवैः
शताङ्गचक्रावृतनेमिनिःस्वनै ।
चलत्पताकावलिधूननैः सुरा
भाङ्कारभेरीपटहाब्जनादैः ॥ १११॥
तुरङ्गमातङ्गशताङ्गसङ्घै-
र्गणासिविद्योतितशस्त्रजालैः ।
समावृतं तत्तुमुलं विरेजे
सुरोरुकोलाहलजातसम्भ्रमम् ॥ ११२॥
लाङ्गलमुसलैस्त्रिशूलहस्तैः
सुरता जडतामवाप जन्ये ।
गर्जन्ति तत्रैव गणेन्द्रसङ्घाः
पर्जन्यनादेन हि तर्जयन्सुरान् ॥ ११३॥
तन्नादतस्तत्र गजा हया वृषा
उत्कर्षयन्तो मदमाशु सत्कटैः ।
निमीलिताक्षाश्च पदात्तशुण्डाः
प्रस्रुवुस्ते शकृदत्र मूत्रम् ॥ ११४॥
सुरसामान्यकजन्यसम्भ्रमे
भ्रमतीव प्रमदा बभूव सेना ।
कुन्तैःशकुन्तानिव ते गणेन्द्रा
निहन्तुमैच्छत्सुरवाहिनीं ताम् ॥ ११५॥
अहीनमन्योः सुमहोरुमन्यो-
राज्ञावशान्मन्युमहोऽसृजन् गणाः ।
ते शस्त्रलाघवकरैर्वरमण्डलाक्षि-
सङ्क्रामणे प्रतिहता धृतखेटपृष्ठैः ॥ ११६॥
अस्यन्त एव विसृजन्ति शरावरोधं
मेघा इवाद्रिशिखरे शरवृष्टिसृष्टिम् ।
अमोघमेघा इव शस्त्रवर्षै-
र्गणा ववर्षुः सुरसङ्घसैन्ये ।
सम्पुध्य चायोघन भूमिमध्यगाः
पपुश्च पानानि वसासवानि ॥ ११७॥
तौ चाजिमीयतुरुभौ हरिवीरभद्रौ
रुद्रैः सुरार्भटभटैर्वरशस्त्रहस्तैः ।
खड्गप्रभानिकरतैलशिलासु धौत-
कूजत्सुपुङ्खसुमुखाः प्रबभुश्च लेखाः ॥ ११८॥
दक्षः सहस्राक्षरथेऽम्बुजाक्ष-
समन्वितस्तत्र शरैस्ततक्ष ।
शतं सहस्रायुतकोटिसङ्ख्यया
सपक्षयुक्तैः सुपृषक्तसङ्घैः ॥ ११९॥
स वीरभद्रोऽपि पिनाकिनः सृतैः
शरोरुसारैर्निचकर्त तान् शरान् ।
दक्षं ललाटे त्रिभिराजघान
हरिं च जम्भारिमपि स्तनान्तरे ॥ १२०॥
चकर्ष चापं प्रववर्ष बाणान्
हर्षोरुतर्षैकहृदा स भद्रः ।
सुरोरुकुम्भ्युद्यतकुम्भमध्ये
हयोरुसत्सादिषु तद्रथेषु ॥ १२१॥
क्षिप्रं स वत्सप्रशरैः सुवत्स-
दन्तं समाकृष्य वृषं मुमोच ।
तस्यार्धचन्द्रेण धनुः शरावरं
चिच्छेद भद्रोऽपि हिरण्यदर्शनम् ॥ १२२॥
कचत्कवचमप्यधो न्यपतदाशुनाराचकैः
विदारितशिरोधरैर्मकुटकुण्डलाद्यावृतैः ।
सुरेन्द्रगणदारणैः सुरगणेषु साधारणैः
बभूव धरणी तदा भगणपातवत्स्वर्गतः ॥ १२३॥
गोधाङ्गुलित्रसुशिरस्त्र तनुत्रमत्र
दिव्यातपत्र निकरैर्विबभाति सा भूः ॥ १२४॥
तुरङ्गमातङ्गनरोत्तमाङ्गै-
स्तस्तार विस्तारितशस्त्रवर्यैः ।
ते भिन्नमर्मदरिताश्च विवर्मिणोऽत्र
वैवर्ण्यमापुरमरा गणशस्त्रघातैः ॥ १२५॥
वर्माणि तत्र ससृपुः शरसृष्टिवृष्ट्या
मुष्ट्या च यष्टिभिरथ प्रहरन्ति जन्ये ।
पतन्ति धावन्ति पिबन्ति शोणितं
मुखस्रवं चोत्प्लुतिमाचरन्ति ॥ १२६॥
कूजन्ति हृष्यन्ति च नूतनव्रणैः
पानीयमानीयत इत्युदारम् ।
सा वाजयुक्ता शरराजिराजौ
कूजन्त्यतन्तीव रराज तत्र ॥ १२७॥
आग्नेय वायव्यसुराख्यशस्त्रै-
रस्त्रैर्ववर्षतुरुभौ हरिवीरभद्रौ ।
तस्यातपत्रध्वजवाजिरश्मि-
तत्सररथिं भद्रगणो ममन्थ(ममाथ) ॥ १२८॥
रथं तथाक्षं च सकूबरं रणे
चकर्त बाणैस्तिलशो गणेश्वरः ।
चक्रं च नक्राकृतिशक्रियुक्तं
त्रिविक्रमो विक्रमते रणाजिरे ॥ १२९॥
वक्रं च तच्चक्रमभून्निसृष्टं
हरेः करो भद्रगिरिप्रसङ्गके ।
सस्मार वेदाश्ववहं च भूरथं
महारथेशं किल वीरभद्रः ॥ १३०॥
स्विषुः सुधनवानमहो पिनाकिनं
नैवास्य भग्नो न रथो न कार्मुकम् ।
सुदर्शनं वा न चकर्त वै सुरो
द्रापि प्रभाभावित एष वीरः ॥ १३१॥
निषङ्गिणोऽस्य स्मृतिनोऽक्षयेषुधिः (?)
बभूव तस्येशकृपावशात्तदा ।
सुपर्वणां सन्नतपर्वभिः शरै-
रखर्वगर्वं प्रजहार गर्वहृत् ॥ १३२॥
कक्षोरुकुक्षिस्थितवह्निना समो
ददाह तत्राह्नि सुरोरुवाहिनीम् ।
गणोत्तमास्ते च सुतैलधौतै-
स्त्रिशूलघातैः परिघैर्गदाभिः ॥ १३३॥
निर्यत्सुमस्तिष्कसुशुक्ललोहितै-
र्व्यसून् वसून् तत्र हतान् प्रचक्रुः ।
ते विश्वदेवाश्वरथेषु वाजिनो
निजघ्निरे तत्र गदाभिघातैः ॥ १३४॥
वायून्विनिर्यायिनरायुषस्तान्
प्रचक्रुरुच्चक्रसहस्रधारैः ।
तरणिं वरुणं तथैव वह्निं
यममाप्यानमयन् शरोरुवर्षैः ॥ १३५॥
रथसारथिवाजियोक्त्रछत्रा-
ण्यपजह्नुर्गणापा धनाधिपस्य ।
गहनं विविशुः सुरास्तु शम्भोः
स्वगणैरुज्झितवाहनास्त्रवेषाः ॥ १३६॥
परिधावन्ति रणे भृशं व्रणाङ्काः
प्रपतन्तो द्रुतमुग्ररुद्रभीताः ॥ १३७॥
भग्नाक्षचक्रध्वकूबरै रथै-
र्हयोरुमातङ्गशवैः विभाति भूः ।
विनिष्कृतान्त्रोरुवसासृगश्रु-
दुर्गन्धबन्धानिलसङ्घमत्र ॥ १३८॥
ऊहुः कशाघात शिताङ्कुशाग्र-
सञ्चोदनैरश्वगजा रथाश्च ।
योधान् सुसन्नांश्च महोरुयुद्धे
मांसास्थ्यसृक्पूयवसादिपङ्के ॥ १३९॥
सुरेन्द्रसङ्घाश्च गणेन्द्रवृन्दं
विपाटनाराचशरैर्व्यपाटयन् ।
भल्लैः सुफुल्लैरिव किंशुकाभै
र्देहे ततक्षुः क्षतजार्द्रगात्राः ॥ १४०॥
प्रासासिहस्तान्मुसलैर्विशस्तान्
ध्वस्तान् चकाराशु गणेशवाहिनी ।
गदाभिभग्नोरुवलग्नमध्यमान्
नग्नान्प्रदुद्राव सुमानहर्षान् ॥ १४१॥
विशालवक्षः सुकवाटपाटनैः
स्कन्धे तथा कोमलकण्ठमूले ।
गणेश्वराश्चापशरासिपाणयो
यज्ञोपवीताकृति चिच्छिदुः सुरान् ॥ १४२॥
हसन्ति केचित्प्रवदन्ति केचि-
न्नृत्यन्ति तत्रैव कबन्धमुण्डाः ।
प्रासासिहस्ता विवृतान्त्रबन्धाः
सम्बन्धमीयुर्धरणीतलेषु ॥ १४३॥
पतत्समदकुञ्जरं वरहयोरुदेहाकुलं
सुकम्पितरसातलंस्खलदपारयोधावृतम् ।
सुगर्जितसुनिर्जरं गणकृतोरुसन्तर्जनं
बभूव ह रणाजिरं सुरगणौघरागादरम् ॥ १४४॥
जन्ये तदा तत्र सुशोणितापगाः
प्रसुस्रुवुश्छत्रकदम्बफेनाः ।
सचामराखण्डितफेनबुद्बुदा
नरान्त्रमस्तिष्कजकूर्ममीनाः ॥ १४५॥
दिवि स्वर्गलिप्सां बहु प्रार्थयन्तः ।
सुशस्त्रोरुधाराविगाढा धरण्याम् ।
वेतालकङ्कालबलादिहर्षदा
गृध्रेषु काकश्वगणे शिवासु ॥ १४६॥
भ्रमन्ति तत्रैव शुनां समूहा-
गृध्रभ्रमैस्तत्पिशुनालित्तदा ॥ १४७॥
भ्राम्यद्गृध्रगणोरुपक्षतिहताः संवीजितास्ते शवाः ॥ १४८॥
गजाश्वरथपङ्क्तिसन्निहतसादिसत्सारथिः
प्रतोदवरहस्ततो मृतनिरस्तशस्त्राङ्कुरैः ।
प्रकीर्णमणिभाण्डकैर्विवृत नेत्र जिह्वास्यकैः
प्रकीर्णमभवत्तदा रणतलं सुदुर्दर्शनम् ॥ १४९॥
कुथाङ्कुशपदाहतिप्रबलमांससम्पर्कत-
स्खलद्गणशरारवैर्मृतिमवापुरेवं सुराः ।
त्रिदशा विदशां दशामवापुरेवं
गणशस्त्रैर्निहताश्च कान्दिशीकाः ॥ १५०॥
तथेह गणपुङ्गवः शरवरोरुधारादिभिः
सुरासुरगणं व्यधात् भगणनाथचूडाज्ञया ॥ १५१॥
रटत्करटिगर्जनैर्हयवरोरुपातस्वनैः ।
बभूव धरणी तदा सकरुणारुणा शोणितैः ।
प्रभग्नरथचक्रकप्रशिथिलाक्षनेमिस्वनैः ।
रराज रणभूस्तदा गणगणोरुबाणैर्हता ॥ १५२॥
ध्वस्ताक्षसत्सारथिसत्पताका-
सुछत्रहीनान्निपपात माधवः ।
स्वकां स्त्रियमालिलिङ्गिषु-
रभ्युत्थो दक्षयुतः स वासवः ॥ १५३॥
विहङ्गमं तं खगमं पुरःस्थितं
विष्णुः समारुह्य चकार लाघवम् ।
गोमायुमायेव स माययाऽस्त्रका-
ण्यवासृजत्तत्र गणेन्द्रदेहे ॥ १५४॥
विधौ मुधैवाथ स विष्णुराहवे
व्याधात्स्वकास्त्रैर्विनिवार्य तान् गणान् ।
प्राध्मापयच्छङ्खमदीनवीर्यो
धैर्यैकधुर्यः स गणेशितुः पुरः ॥ १५५॥
तदस्त्रवर्षं विनिवार्य गोवृषो
वर्षप्रकर्षं सह तै गणेश्वरैः ।
शरान्धकारं च विभिद्य सायकै-
र्मयूखमालीव स दृश्यते स्म ह ॥ १५६॥
पक्षीन्द्रपक्षाणि शरैः प्रचिच्छिदे
तनुं च पादौ च शरैरखण्डयत् ।
विहङ्गमस्तत्क्षतजाभितप्तः
पपात कूजन् सह विष्णुनावनौ ॥ १५७॥
प्रध्माप्य शङ्खं स ही वीरभद्रः
प्रोवाच विष्णुं क्षतजावृताङ्गम् ।
वसन्तकालोत्थपलाशकद्रुम-
प्रभासमानाङ्गमथो रणस्थले ॥ १५८॥
वीरभद्र उवाच ।
तत्ते क्व दैत्यप्रहरोरुचक्रं
शङ्खं क्व ते कौस्तुभवैजयन्ती ।
न दैत्यपक्षस्य विहारकालः
संहारकालोऽद्य तवेत्यवेहि ॥ १५९॥
नाहं हिरण्यकशिपुर्न हिरण्यनेत्र
त्रिविक्रमोऽहं हि तवास्मि सम्प्रति ।
न रावणोऽहं न च कंसदैत्यो
न भार्गवः क्षत्रकुलान्तकारी ॥ १६०॥
विभीषिकां ते किमुतात्र जन्ये
इषीकनालानिव सन्दहे ते ।
क्षीणाक्षिकोणेन स देवमुष्णं
वीक्षन् सहस्राक्षमथोऽत्र दक्षम् ॥ १६१॥
दीक्षान्वितं त्र्यक्षपदे विरक्तं
लीक्षेव सन्दह्य भगाक्षिसूदनः ॥ १६२॥
सूत उवाच ।
इत्युक्त्वोत्थित एव खण्डकरधृक् खेटाभिघातैर्हरिं
जानुभ्यामथ पादघातनिकरैर्व्यालोलयत्तत्र हि ।
दक्षं दीक्षितमप्यपास्तशिरसं चक्रेऽथ रङ्गस्थितं
खड्गेनैव हरिं हरन्तमसकृद्ब्रह्मा प्रसाद्यानमत् ॥ १६३॥
ब्रह्मोवाच ।
क्षमस्व मन्युं च सहस्व विष्णो-
र्महापराधं रणवीरभद्र ।
त्वं त्वीरभद्रोऽसि सुभक्तबृंहित-
स्तथाखिलानां रणगोऽस्यभद्रः ॥ १६४॥
इन्द्रोऽपि त्रास वीरभद्रं
प्रणम्य पादावुपगुह्य नात्यजत् ।
उत्थाय याहीति च तेन मोचितो
दयावता प्राह तदाश्रुलोचनः ॥ १६५॥
पापस्य दक्षस्य सहायकारणा-
त्सुरासुरास्ते निहतास्त्वयाधुना ।
विष्णोर्यशो भक्षितमेव दैत्य-
पापस्य सङ्गादभवत्स्वनाशः ॥ १६६॥
अधोक्षजं रक्षतु वा कटाक्षैः
क्षन्तव्य एवास्त्यपराधवृन्दम् ।
लोकोपकारार्थमसौ त्वयाद्य
संरक्षणीयो नहि नाशमाप्नुयात् ॥ १६७॥
स्कन्द उवाच ।
निष्कोशितासि स जहार सद्य-
स्तत्केशपाशं विधिवाक्यतोषितः
सारथ्यकौचित्यसुसामवाक्यै-
र्जहर्ष तत्राशु स वीरभद्रः ॥ १६८॥
श्वसन्तमासन्नसुदुःखखिन्नं
गच्छेति तत्राह हरिं क्रुधा गणैः ।
त्रपानतो माधव एव नत्वा
गणेन्द्रमुख्यं प्रययौ स्वलोकम् ॥ १६९॥
खगं समुज्जीव्य यथागतं हरि-
र्दक्षेऽत्र निर्विण्णमना बभूव ।
ता दक्षपत्न्यः सुरवर्यपत्न्यो
यत्नादुपालभ्य पतीन् रणाङ्गणे ॥ १७०॥
विमुक्तकेश्यः प्ररुदन्ति सङ्घशो
वैवर्ण्यमालिन्यसबाष्पलोचनाः ॥ १७१॥
हा दक्षपक्षसुरताऽद्य गतात्त भागे
लक्षेव धृष्टा निखिला गणेश्वरैः ।
कस्तं प्रसादयति चापधरोग्रबाहुं
प्रयाम सर्वाः शरणं हि नो गतिः ॥ १७२॥
इत्येवमुक्त्वा प्रणताः सुराङ्गनाः
संसान्त्व्य बाष्पाणि निगृह्यतामिति ।
उवाच भद्रोऽत्र वचस्तदानीं
निन्दा श्रवायाः फलमेतदीशितुः ॥ १७३॥
अशाम्भवसहायकृद्भवति पाप ऊनाङ्गको
महेश्वरदयोज्झितो ज्वलितलोलभालानलैः ।
विदाहयति तं परं सुखवरं वा त्यजेत्
विलोकितमिदं यथा मखविभङ्गविघ्नं महत् ॥ १७४॥
सूत उवाच ।
अलीकनीत्या सुरसत्तमानां
पिनाकिन या स्थिरभक्तिवर्जिता ।
विनाशनी सा प्रबभौ तदानीं
सौदामनी चातिचलेव कामिनी ॥ १७५॥
जगर्जुर्गणेन्द्रा मुदा तं गणेन्द्रं
प्रकृष्टोरुघोषैर्दिवं गां भिनन्तः (?) ।
क्षयद्वीरपादार्चको वीरभद्रो
जयत्येव दक्षसुहृद्देव सङ्घम् ॥ १७६॥
सन्धुक्षिताघोक्षज एष वीरो
जयत्येव ईशार्चनासक्तचित्तः ।
महाभस्मरुद्राक्षभाजां शरण्यो
न गण्योऽस्य साम्ये भवेत्कोऽपि वीरः ॥ १७७॥
ववर्षुरब्दाः कुसुमोरुवर्षं
ववुश्च वाता सुखसारशीतलाः ।
विस्रस्तविश्वं प्रजगाम हर्षं
जग्मुश्च शान्तिं किल सर्वलोकाः ॥ १७८॥
हरप्रसादेन स वीरभद्रो
रमावरं तं प्रददार सायकैः ।
दक्षोऽपि संशिक्षित एव देवै
जगाम रुद्रं स पितामहेन ॥ १७९॥
॥ इति शिवरहस्यान्तर्गते वीरभद्रेण दक्षाध्वरध्वंसकथनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । अध्यायः ६ वीरभद्रविष्णुयुद्धम् । १०८-१७९ ॥
- .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . adhyAyaH 6 vIrabhadraviShNuyuddham . 108-179 ..
Notes:
Skanda स्कन्द narrates (to Jaigīṣavya जैगीषव्य); about the formidable Vīrabhadra वीरभद्र (a.k.a Bhairava भैरव due to His frightening appearance) who had manifested from the dreadlocks of Śiva शिव and as commanded by Him, arrives at the venue of Dakṣa-Adhvara दक्ष अध्वर with a terrifying army. Vīrabhadra वीरभद्र sets fire to the stage and with His army of Gaṇa-s गणाः unleashes terror and chaos amongst the participants of the Dakṣādhvara दक्षाध्वर in order to teach them a lesson, in which He duly succeeds.
Proofread by Ruma Dewan