वैद्यनाथमाहात्म्यवर्णनम्
वन्दे जटायुनगरीं वन्दे सिद्धामृतं सरः ।
वन्दे कल्पकविघ्नेशं वन्दे शङ्खवनोद्भवम् ॥
वन्दे श्रीवैद्यनाथेशं भवरोगचिकित्सकम् ।
वन्दे श्रीगन्धकण्ठीं वन्दे बालाम्बिकामुमाम् ॥
ऋषि अगस्त्य उवाच ।
भूयो वक्ष्यामि माहात्म्यं वैद्यनाथस्य शूलिनः ।
शृण्वतां पठतां पुंसामायुरारोग्यदायकम् ॥ १॥
वैद्यनाथस्य पूर्वस्यां दिशि मन्नामतीर्थकम् ।
पुण्यं चकास्ति पापघ्नं तत्तीर्थस्नानमात्रतः ॥ २॥
सिध्येत् कल्याणमाग्नेय्यां ब्रह्मकुण्डमिति श्रुतम् ।
तत्र स्नात्वा महापुण्ये यद्दद्यादणुमात्रकम् ॥ ३॥
तत्सर्वं कोटिगुणितं स्नानं दानं शिवार्चनम् ।
भिषगीशस्य नैऋत्यां कोदण्डतटिनी वरा ॥ ४॥
रामतीर्थमिति ख्यातं महापापहरं नॄणाम् ।
वैद्यनाथस्य निकटे दक्षिणे परमाद्भुतम् ॥ ५॥
सिद्धामृतमिति ख्यातं कलौ सर्वार्थसिद्धिदम् ।
मृत्तिकां गृध्रकुण्डस्य वैद्यनाथाभिषेकजैः ॥ ६॥
गन्धोदकैः पञ्चगव्यैः मर्दयित्वा समाहिताः ।
ये लेपयेयुर्भक्त्या च श्वेतकुष्ठादि रोगतः ॥ ७॥
क्षुद्रदोषैर्विनिर्मुक्ता दिव्यदेहाश्च सुन्दराः ।
गन्धर्वरूपसदृशा महापापैर्विवर्जिताः ॥ ८॥
आरोग्यं बलमायुष्यं दीर्घमायुरवाप्नुयुः ।
देशान्तरस्थितो यो वा गृध्रॠक्स्कन्दनामके ॥ ९॥
मणिमन्त्रौषधात् कुण्डात् मृदमादाय भक्तितः ।
धृत्वा क्षुद्रादिरोगेभ्यो मुच्यते नात्र संशयः ॥ १०॥
गृध्रस्य गृध्रकुण्डस्य दर्शनं भाग्यसिद्धये ।
ज्वरादिभिः पीडितोऽपि तथा कुष्ठादिभिवृतः ॥ ११॥
अपस्मारादिभिश्चैव भूतप्रेतादिभिस्तथा ।
अन्यैः क्षुद्रादिसङ्घैश्च संवृतः पीडितोऽपि वा ॥ १२॥
तेभ्यां विमुच्यते सद्यः गृध्रकुण्डस्य दर्शनात् ।
वैद्यनाथस्थले पुण्ये रुद्राक्षं धारयन्नरः ॥ १३॥
विभूतिं धारयन् धीमान् शिवपूजां करोति यः ।
सर्वोपद्रवसङ्घतैर्मुच्यते नात्र संशयः ॥ १४॥
कृष्णश्रीगन्धकण्ठीं ये वैद्यनाथं प्रदक्षिणम् ।
ये कारयन्ति कुर्वन्ति तेषां वक्ष्ये फलं द्विजाः ॥ १५॥
अश्वमेधसहस्रस्य प्राप्नुवन्ति फलं ध्रुवम् ।
वैद्यनाथस्थले पुण्ये पुण्यारामं महेशितुः ॥ १६॥
यः करोति नरो भक्त्या चेहाभीष्टमवाप्य सः ।
कैलासभागे वासो वा देवेन्द्रत्वं भवेत् ध्रुवम् ॥ १७॥
भिषगीशपुरे यज्ञं ये कुर्वन्ति द्विजोत्तमाः ।
तेऽवाप्य सकलान् कामान् व्रजेयुः शाम्भवं पदम् ॥ १८॥
शिवरात्रव्रतादीनि वैद्यनाथस्थले द्विजाः ।
ये कुर्वन्ति नरा भक्त्या तेषां वक्ष्ये फलादिकम् ॥ १९॥
क्षुद्ररोगविनिर्मुक्तास्सर्वरोगविवर्जिताः ।
अवाप्य सकलान् कामान् व्रजेयुः शाङ्करं पदम् ॥ २०॥
वैद्यनाथस्थले पुण्ये या ददाति द्विजातये ।
अन्नदानं रसोपेतं श्रद्धाभक्तियुतो नरः ॥ २१॥
तस्य पुण्यफलं वक्तुं न शक्नोमि मुनीश्वराः ।
वैद्यनाथस्थले पुण्ये कन्यादानं करोति यः ॥ २२॥
पुत्रपौत्रैः परिवृतः सार्वभौमो भवेद्ध्रुवम् ।
सस्ययुक्तां धरां तत्र वैद्यनाथस्थले नरः ॥ २३॥
यो ददाति दरिद्राय ब्राह्मणाय महात्मने ।
सप्तसागरपर्यन्तभूमिदानस्य यत्फलम् ॥ २४॥
तत्फलं प्राप्य तेजस्वी सोऽन्ते शिवपदं व्रजेत् ।
वैद्यनाथस्यले पुण्ये प्रपादानं करोति यः ॥ २५॥
अश्वमेधफलं प्राप्य शिवसायुज्यमाप्नुयात् ।
दुकूलं व्यजनं छत्र शिविकामम्बरं तथा ॥ २६॥
किरीटं भूषणं चैव वैद्यनाथस्थलेऽमले ।
श्रीगन्धकुसुमं दिव्यं मृगनाभिं च चन्दनम् ॥ २७॥
गोदानमश्वदानं वा गजदानं च कम्बलम् ।
मरीचिदशदानानि ये कुर्वन्ति द्विजातये ॥ २८॥
तेषां पुण्यफलं वक्तुं सहस्रवदनोऽक्षमः ।
श्वेतारण्ये च केदारे गजारण्ये वटालये ॥ २९॥
रामेशे कुम्भघोणे च गोकर्णे चित्सभास्थले ।
विरूपाक्षोऽर्जुनग्रामे त्यागराजपुरे वरे ॥ ३०॥
श्रीशैले चम्पकारण्ये वेदारण्यस्थले द्विजाः ।
महादानसहस्राणि यत्कृत्वा फलमाप्नुयात् ॥ ३१॥
तत्कलं वैद्यनाथेऽस्मिन् निष्कमात्रस्य दानतः ।
यः करोति नरो भक्त्या चाभिषेकं समाहितः ॥ ३२॥
आराधनशतं क्षीरैर्दधिभिश्च सहस्रकम् ।
घृताभिषेकैस्युतमपराधं सहेच्छिवः ॥ ३३॥
पञ्चामृतेः पञ्चगव्यैः ये कुर्वन्त्यभिषेचनम् ।
पञ्चपातकसन्ध्वैस्ते मुच्यन्ते नात्र संशयः ॥ ३४॥
गन्धाभिषेकस्सम्यक् भुक्त्वा भोगाननेकशः ।
ततः कैलासपदवीं प्राप्नुयुर्मुनिसत्तमाः ॥ ३५॥
ये वाध्यमानाः क्षुद्रैश्च श्वेतकुष्ठादिभिस्तथा ।
वैद्यनाथं समभ्यर्च्य बिल्वैस्साहस्रनामकैः ॥ ३६॥
मुक्तास्स्युः नात्र सन्देहः सत्यं सत्यं वदाम्यहम् ।
बहुनात्र किमुक्तेन भवन्तोऽपि महात्मनः ॥ ३७॥
पूजयध्वं महादेवं वैद्यनाथं महेश्वरम् ।
स्तुत्वा च विविधैस्तोत्रैः प्रार्थयित्वा मनोरथान् ॥ ३८॥
तत्रोषित्वा त्रिरात्रं च भोगान् भुञ्जत हे द्विजाः ।
इत्यगस्त्योदितान् धर्मान् सर्वपापप्रणाशनान् ॥ ३९॥
॥ इति वैद्यनाथस्थलमाहात्म्ये वैद्यनाथमाहात्म्यवर्णनं सम्पूर्णम् ॥
- ॥ वैद्यनाथस्थलमाहात्म्यम् । द्वादशोऽध्यायः । १२.१-३९॥
- .. vaidyanAthasthalamAhAtmyam . dvAdasho.adhyAyaH . 12.1-39..
Notes:
Ṛṣi Agastya ऋषि अगस्त्य describes the merits of visiting and conducting of certain rites at the several specific places (e.g. Agastyaṭīrtha अगस्त्यतीर्थ, Rāmatīrtha रामतीर्थ, Gṛdhrakuṇḍa गृघ्रकुण्ड etc.) located in the Vaidyanātha Sthala वैद्यनाथ स्थल.
Encoded and proofread by Ruma Dewan