वैद्यनाथमहिमावर्णनम्
ईश्वरः -
श्रृणु त्वमगजे पुण्यां मम भक्तस्य सत्कथाम् ।
भक्तभक्तं च मां विद्धि भाववश्योऽस्मि शङ्करि ॥ १॥
यः कश्चिदस्तु मद्भक्तः स मे प्रियतमोऽम्बिके ।
भक्तः प्रियो मे सततं चण्डालोऽस्तु द्विजोऽथवा ॥ २॥
भक्तान्नस्य क्षुधाविष्टः त्रिनेत्रः पात्रमम्बिके ।
वनखण्डमिति ख्यातं क्षेत्रमत्युत्तमोत्तमम् ॥ ३॥
वैद्यनाथोऽहममले तल्लिङ्गे संवसाम्यहम् ।
कामार्थी जनकामानां पूरकोऽहं सदाम्बिके ॥ ४॥
अरण्यशरणो नित्यं वनानां पतिरस्म्यहम् ।
ब्रह्मविष्ण्वादिभिर्देवैः गणवृन्दैश्च सेवितः ॥ ५॥
पूजितो बिल्वपत्राद्यैर्निवसामि त्वया सह ।
बदरीखदरैर्बिल्वैः हरीतकविभीतकैः ॥ ६॥
वैकङ्कतैः केतकैश्च वंशैः कण्टकभूरुहैः ।
अन्यैश्च शाखिशतकैः फलपुष्पावनामिभिः ॥ ७॥
संवृतं वनमत्युग्रं सिंहव्याघ्ररवाकुलम् ।
वेणुक्रेङ्कारनिनदैः झिल्लिकागणपूजितैः ॥ ८॥
केसरीविकटारावभीतदन्तिजबृंहितैः ।
घूकोलूकोत्थघूत्कारसंवर्धितदिगन्तरम् ॥ ९॥
केकिकोकिलनादैश्च शिवाकोलजघुर्घुरैः ।
भीषणं भीषणस्यापि तत्रारण्यपतिस्त्वहम् ॥ १०॥
निवसामि त्वया गौरि तद्वने सञ्चरन्सदा ।
फलपुष्पाण्यपाराणि पश्यन्जिघ्रन्वनस्थलीः ॥ ११॥
अरण्यपतिरेवाहं तदा हि वनगोचरः ।
तत्रास्ति भिल्लराट्कश्चित्सदाऽत्यन्तसखा मम ॥ १२॥
भक्तश्च सततं देवि मयि प्रीतिसमन्वितः ।
बद्धगोधाङ्गुलित्राणो मृगचर्मलसत्कटिः ॥ १३॥
वराहचर्मादिकृतपादत्राणसमन्वितः ।
मातङ्गकृत्तिविलसत्कञ्चुकावृतविग्रहः ॥ १४॥
पिनाकसदृशं तस्य धनुरस्त्येकमुत्तमम् ।
मुष्टिना हस्तलग्नेन धनुषा स विराजितः ॥ १५॥
तन्निषङ्गशरैः पूर्णं धारयन्ती तदङ्गना ।
सवर्णवाससा तं हि समायास्यति पृष्ठतः ॥ १६॥
गुञ्जादिविधृतापारभूषणावलिभासुरा ।
स मृगाजिनसर्वाङ्गो मधुपिङ्गललोचनः ॥ १७॥
तद्दृष्टिपातभीत्यैव पलायन्ते मृगाण्डजाः ।
किं पुनस्तच्छराघातं मृगः कः सोदुमर्हति ॥ १८॥
मृगं व महिषं वापि सृमरं चमरं रुरुम् ।
कोलं शललकं चैव शशं खङ्गं च विध्यति ॥ १९॥
करीन्द्रशुण्डाकाण्डानि गिरीन्द्रशिखराण्यपि ।
स्वकाण्डशरकाण्डैश्च खण्डयत्येव भिल्लराट् ॥ २०॥
व्याघ्रं वापि तरक्षुं वा स विध्यत्येव दुःसहः ।
सदा कटितटोद्भासिखङ्गखेटकशोभितः ॥ २१॥
आखेटकपरीवारेर्जालजालैः सदाऽऽवृतः ।
त्रिसहस्रमहाभिल्लैः क्रूरेः क्रूरतरैर्वृतः ॥ २२॥
ते नित्यं शस्त्रपाषाणखङ्गखेटधराः सदा ।
धनुःशरकराश्चान्ये नित्यं तमनुयायिनः ॥ २३॥
व्याघ्रवीयैः श्वमिश्चैव करालोन्नतदंष्ट्रिभिः ।
कूजद्भिरनुधावद्भिस्तैः साकं वक्रपुच्छकैः ॥ २४॥
जृम्भमाणललज्जिह्वादीर्घश्रोत्रोरुलोचनैः ।
नीलपीत्यारुणैर्वर्णैर्लालातन्तुयुतैर्मुखैः ॥ २५॥
शशान्वराहांश्च मृगाननुद्रुत्याशुचिस्तदा ।
विदारयन्ति दशनैस्तद्रक्तापूरितैर्मुखैः ॥ २६॥
मृगान्पार्श्वोदरान्त्रेषु वृक्णैश्च वृषणैस्तथा ।
शरपातात्पूर्वमेव धावन्त्येते सुदुःसहाः ॥ २७॥
भिल्लानां पुरतो देवि तस्मिन्सुगहने वने ।
स मुष्टिधृतचर्मस्थश्येनैरुग्रारुणाक्षिभिः ॥ २८॥
पक्षिजालं निहन्ति स्म विसृष्टकरबन्धनैः ।
स मण्डलपरिभ्रश्यन्नखतुण्डोरुकुट्टनैः ॥ २९॥
पक्षपादप्रहारैस्तां बलाकापङ्क्तिमुत्थिताम् ।
नीलनीरदमध्यस्थविदुल्लेखेव उप्रभाम् ॥ ३०॥
पातयन्ति महीपृष्ठे विष्टव्धवरकार्मुकाः ।
गजनीला महाभिल्लाः सर्वे मल्लिङ्गपूजकाः ॥ ३१॥
तेषां श्रेष्ठोऽथ मेधावी जपो नाम्ना महाबलः ।
पत्न्या समन्वितो नित्यं झषान्सरसि हन्त्यपि ॥ ३२॥
हत्वा वराहान्पृषतान्रुरूनन्याञ्छशांस्तथा ।
सुस्वादुमांसमुत्कृत्य निष्टप्यास्वाद्य शोभते ॥ ३३॥
अन्यदादाय जालेन वारयन्भूरि तद्वलम् ।
सम्प्रेषयति तद्गौरि गृहं भिल्लगणैस्तदा ॥ ३४॥
सुस्वादुमांसं पेश्यां स निक्षिप्यायाति मां तदा ।
भवरोगहरं नाम्ना तीर्थं तत्रास्ति शैलजे ॥ ३५॥
आयुर्वेदः पुरा दत्तो मयाऽश्विभ्यां सुपूजितः ।
स्नात्वा तस्मिन्महातीर्थे पूतौ देवभिषग्वरौ ॥ ३६॥
देवपङ्क्तिगतौ चापि भवतां सोमपीथिनौ ।
ताभ्यां स्तुतोऽहं कल्याणि तत्स्तुतिं श्रृणु शैलजे ॥ ३७॥
पूजितो बिल्वपत्रैश्च वैद्यनाथो महेश्वरि ॥ ३८॥ (वैद्यनाथोऽहमीश्वरि )
॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे वैद्यनाथमहिमावर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः २०॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 20..
Notes:
Shiva describes to Devi, the Vaidyanatha Jyotirlinga in Vanakhanda, where bhilla worshipped Him in his own innocent way. Shiva granted the knowledge of Ayurveda to the Ashwini Kumara twins at this Shiva Kshetra.
The shloka numbers are maintained per the source text.
Proofread by Ruma Dewan