वैद्यनाथस्थले सिद्धामृततीर्थमाहात्म्यवर्णनम्
- ऋषि अगस्त्यप्रोक्तम् -
वैद्यनाथस्थले पुण्ये तस्मिन् सिद्धामृते नराः ॥ ४५॥
यस्मिंकस्मिंश्चिद्दिवसे चन्द्रसूर्योपरागयोः ।
सङ्क्रान्तिषु व्यतीपाते पित्रोर्मृतदिनेऽथवा ॥ ४६॥
स्नात्वा तिलाक्षतैर्भक्त्या तर्पयन्ति पितॄन् द्विजाः ।
त्रिस्सप्तकुलमुद्धृत्य सर्वान् कामानवाप्य च ॥ ४७॥
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ।
आप्नुयुस्तत्पदं सत्यं भिषगीशप्रसादतः ॥ ४८॥
भिषगीशस्थले ये वै सिद्धामृतसरस्तटे ।
तीर्थश्राद्धं प्रकुर्वन्ति तेषां मुक्तिर्द्विजोत्तमाः ॥ ४९॥
गयायां पिण्डदानेन पितॄणां यादृशी भुवि ।
तृप्तिरासीत्तथा सिद्धामृततीर्थस्य तर्पणात् ॥ ५०॥
तीर्थैरत्यद्भुतैस्तत्र सिद्धानाममृतोपमैः ।
गङ्गा प्रत्यक्षभूताभूत् जटाय्वाख्ये सरोवरे ॥ ५१॥
तस्मात् सिद्धामृतमिति त्रिषु लोकेषु विश्रुतम् ।
गौरीब्रह्मकुजादीनां सर्वेषां स्नानमात्रतः ॥ ५२॥
यस्मिन् सिध्यन्ति काम्यानि सिद्धामृतमिति श्रुतम् ।
सिद्धास्सुराश्च गन्धर्वाः स्वर्गादादाय चामृतम् ॥ ५३॥
अभिषिच्य कलौ शम्भुमचिकित्साचिकित्सकम् ।
यस्माज्जटायुतीर्थं तु पूरयामासुरादरात् ॥ ५४॥
तस्मात् सिद्धामृतमिति प्रसिद्धं जगतीतले ।
तस्मिन् सिद्धामृते भानोर्वारे स्नात्वा नरोत्तमाः ॥ ५५॥
सदारोग्यास्तु ते शिष्टाः प्रसीदन्ति शिवास्पदम् ।
सोमवारे नराः स्नात्वा तस्मिन् सिद्धामृतोदके ॥ ५६॥
सर्वान् कामानवाप्याऽत्र शिवसायुज्यमाप्नुयुः ।
भौमवारे नरस्नात्वा तस्मिन् सिद्धामृतोदके ॥ ५७॥
अरुणोदयवेलायां सर्वाभीष्टप्रदायके ।
सर्वरोगविनिर्मुक्ताः क्षेत्रलाभमवाप्नुयुः ॥ ५८॥
किञ्चिदभ्युदिते सूर्ये तस्मिन् सिद्धामृते शुभे ।
भौमवारे नरस्नात्वा वैद्यनाथं महेश्वरम् ॥ ५९॥
ये सेवन्ते नरा भक्त्या दीर्घमायुरवाप्य च ।
आरोग्यं जयमासाद्य क्षुद्ररोगान् विधूय च ॥ ६०॥
भोगान् भुक्त्या महाभागाः शिवसायुज्यमाप्नुयुः ।
भौमवारे नरस्नात्वा तस्मिन् सिद्धामृते जले ॥ ६१॥
हृदम्बुजे वैद्यनाथं ध्यायन्तस्ते मुनीश्वराः ।
प्राधान्यं जगतां प्राप्य चिरं भोगानवाप्नुयुः ॥ ६२॥
किञ्चिदभ्युदिते सूर्ये भौमवारे नरोत्तमाः ।
ये स्नात्वा नियमेनैव सिद्धामृतमहोदके ॥ ६३॥
कृष्णश्रीगन्धकण्ठीं तां ध्यायन्ति हृदयाम्बुजे ।
कुबेरसन्निभास्ते तु प्रमोदन्ते शिवास्पदे ॥ ६४॥
भौमवारे नरः स्नात्वा तस्मिन् सिद्धामृते वरे ।
ये ध्यायन्ति गुहं भक्त्या सुदृढाः प्रमुदान्विताः ॥ ६५॥
क्षुद्ररोगविनिर्मुक्ता दीर्घमायुरवाप्नुयुः ।
भौमवारे समागत्य सिद्धामृततटे शुभे ॥ ६६॥
जलं स्पृष्ट्वा हृदि ध्यात्वा वैद्यनाथं मुदान्विताः ।
कुर्वन्ति प्रोक्षणं ये तु चुलुकोदकमात्रकम् ॥ ६७॥
तिलमात्रं माषमात्रं सिद्धामृतजलं शुभम् ।
पिबन्ति पुत्रं सद्रूपं शुभं विद्याबलैर्युतम् ॥ ६८॥
अवाप्य भोगान् भुक्त्वा ते शिवसायुज्यमाप्नुयुः ।
पञ्चाशत् कोटिविस्तीर्णे भूतले निवसन्ति ये ॥ ६९॥
द्वीपान्तरे वा ध्यायन्तो वैद्यनाथं च मानसे ।
स्नान्ति गङ्गाजलं स्नानजातं फलमवाप्नुयुः ॥ ७०॥
सौम्यवारे नरास्नात्वा तस्मिन् सिद्धामृते वरे ।
सर्वशास्त्रार्थतत्वज्ञाः दीर्घमायुरवाप्नुयुः ॥ ७१॥
गुरुवारे नरास्नात्वा तस्मिन् सिद्धामृतोदके ।
बुध्या बृहस्पतिसमाः त्रिकालज्ञानिनोऽपि ते ॥ ७२॥
इन्द्रस्य सदनं प्राप्य पौरोहित्यमवाप्नुयुः ।
भृगुवारे नरास्त्नात्वा तस्मिन् सिद्धामृते शुभे ॥ ७३॥
निधीन् सर्वानवाप्याशु शिवसायुज्यमाप्नुयुः ।
स्थिरवारे नरास्नात्वा तस्मिन् सिद्धामृते वरे ॥ ७४॥
शनिपीडाविनिर्मुक्ताः दीर्घमायुरवाप्नुयुः ।
माघमासे समागत्य वैद्यनाथस्थले नराः ॥ ७५॥
शुक्लप्रतिपदारभ्य त्वमापर्यन्तमास्तिकाः ।
सिद्धामृते पुष्करे ये स्नान्ति तेषामिदं फलम् ॥ ७६॥
आयुरारोग्यमैश्वर्यं पुत्रः शत्रुजयं त्वमी ।
सिध्यन्ति सत्यं देहान्ते मुक्तिरेव न संशयः ॥ ७७॥
माघमासे नरास्नात्वा तस्मिन् सिद्धामृते सुकृत् ।
महारोगविनिर्मुक्ताः क्षुद्रपीडाविवर्जिताः ॥ ७८॥
पञ्चपातकनिर्मुक्ताः पुत्रैर्पौत्रैस्समन्विताः ।
इह भुक्त्वाखिलान् भोगान् स्वमित्रैर्बन्धुभिस्सह ॥ ७९॥
त्रिसप्तकुलमुद्धृत्य शिवसायुज्यमाप्नुयुः ।
माघमासे सकृत् स्नात्वा गायत्रीं वेदमातरम् ॥ ८०॥
पञ्चाक्षरं जपं चान्यं मन्त्रं ब्राह्मणतर्पणम् ।
कृत्वा सिद्धामृतस्यास्य वैभवश्लोकमादरात् ॥ ८१॥
यः श्रुणोति नरो भक्त्या करस्थास्तस्य सिद्धयः ।
ये दीपाराधनं कुर्युर्वैद्यनाथस्य भक्तितः ॥ ८२॥
अक्षिरोगाद्विनिर्मुक्ताः सर्वान् कामानवाप्नुयुः ।
प्रदक्षिणनमस्कारं श्रीरुद्रपठनं तथा ॥ ८३॥
बिल्वैरभ्यर्चनं चैव दानं ब्राह्मणभोजनम् ।
ये कारयन्ति कुर्वन्ति ते क्षुद्रादिविवर्जिताः ॥ ८४॥
सर्वव्याधिविनिर्मुक्तास्सर्वान् कामानवाप्य च ।
देहान्ते शिवसायुज्यं लभेयुर्नात्र संशयः ॥ ८५॥
औषध्यः फलपाकान्ता माघमासे फलन्ति ताः ।
द्विजानां ये प्रयच्छन्ति तत्रत्यानां महात्मनाम् ॥ ८६॥
क्षुद्ररोगादिनिर्मुक्ताः पुत्रैर्पौत्रैस्समन्विताः ।
इह भुक्त्वाऽखिलान् भोगान् ते शैवं पदमाप्नुयुः ॥ ८७॥
पुण्ये सिद्धामृते स्नात्वा माघे ये भक्तिपूर्वकम् ।
गुलमिश्रं तिलं पुण्यं तण्डुलं कदलीफलम् ॥ ८८॥
बदरीफलमन्यद्वा धात्रीफलमनुत्तमम् ।
दानं कुर्वन्ति मुक्तास्स्युः ते वै संसारबन्धनात् ॥ ८९॥
विद्यां षष्टिं यशः पुत्रान् राज्यलक्ष्मीं समाप्नुयुः ।
वैद्यनाथस्थले माघे पुण्ये सिद्धामृते नराः ॥ ९०॥
स्नात्वा ब्राह्मणमेकं वा त्रिंशच्च धरणीसुरान् ।
भोजयेद्यदि मृष्टान्नैः भोगान् भुक्त्वा यथेच्छ्या ॥ ९१॥
सर्वव्याधिविनिर्मुक्ताः शिवसायुज्यमाप्नुयुः ।
ये शृण्वन्ति नरा भक्त्या तीर्थमाहात्म्यमुत्तमम् ॥ ९२॥
गङ्गास्नानफलं प्राप्य शिवसायुज्यमाप्नुयुः ॥ ९३॥
॥ इति वैद्यनाथस्थलमाहात्म्ये वैद्यनाथस्थले सिद्धामृततीर्थमाहात्म्यवर्णनं सम्पूर्णम् ॥
- ॥ वैद्यनाथस्थलमाहात्म्यम् । दशमोऽध्यायः । ४५.२-९३॥
- .. vaidyanAthasthalamAhAtmyam . dashamo.adhyAyaH . 45.2-93..
Notes:
Ṛṣi Agastya ऋषि अगस्त्य describes the merits of visiting and conducting of certain rites at the Siddhāmṛta Tīrtha सिद्धामृत तीर्थ located in the Vaidyanātha Sthala वैद्यनाथ स्थल. He mentions especially about conducting these rites on various Vāra वार, the month of Māgha माघ and reaping several merits including relief from Śanipīḍā शनिपीडा and achieving ŚivaSāyujya शिवसायुज्य.
Encoded and proofread by Ruma Dewan