वैराग्यशतकम्

वैराग्यशतकम्

(श्रीमदप्पय्यदीक्षितविरचितम्) ॥ श्रीः ॥ आस्ते कश्चन भिक्षुः सङ्गृह्णन्नव्ययानि दश । न ममेत्यव्यययुगलं याचामस्तं किमस्त्यन्यत् ॥ १॥ धीसचिवं धैर्यबलं सङ्कल्पविरोधि शान्तिधनम् । विश्वत्रयविषयमिदं वैराग्यं नाम साम्राज्यम् ॥ २॥ राज्ञो बिभ्यति लोका राजानः पुनरितोऽपि वैरिभ्यः । आ ब्रह्मणः कृतान्तादकुतोभयमस्पृहाराज्यम् ॥ ३॥ भिक्षाप्रदा जनन्यः पितरो गुरवः कुमारकाः शिष्याः । एकान्तरमणहेतुः शान्तिर्दयिता विरक्तस्य ॥ ४॥ किमपि न ये चेष्टन्ते कार्यप्रतिकार्ययोर्विरहात् । सन्तस्त एव मुक्ताः सन्देहे गौतमः साक्षी ॥ ५॥ पततु नभः स्फुटतु मही चलन्तु गिरयो मिलन्तु वारिधयः । अधरोत्तरमस्तु जगत्का हानिर्वीतरागस्य ॥ ६॥ के चोराः के पिशुनाः के रिपवः के च दायादाः । जगदखिलं तस्य वशे यस्य वशे हतमिदं चेतः ॥ ७॥ विषया उपतिष्ठन्तां विषयैर्वा समवयन्तु करणानि । आन्तरमेकं करणं शान्तं यदि का ततश्चिन्ता ॥ ८॥ किं विषयान्परिहर्तुं वस्तव्यं मेरुकन्दरेष्वबुधैः । न ह्यद्भिरनासक्तुं पांसुषु रोहन्ति पद्मानि ॥ ९॥ अज्ञानमिह निदानं प्राग्रूपं जननमेव भवरोगे । परिपाकः संसरणं भैषज्यं नैष्ठिकी शान्तिः ॥ १०॥ स्वेनैव भुक्तमर्थं सूकरजातिस्मरो मनुष्य इव । दूरे जुगुप्समानो धीरो वैराग्यमाद्रियते ॥ ११॥ शैशवमिव कौमारे तत्तरुणिम्नीव स इव वृद्धत्वे । न स्वदते धीराणां कामस्य विचेष्टितं शान्तौ ॥ १२॥ शतशः परीक्ष्य विषयान्सद्यो जहति कचित्क्वचिद्धन्याः । काका इव वान्ताशनमन्ये तानेव सेवन्ते ॥ १३॥ चरमौ मातापितरौ चरमा गृहिणी सुताश्चरमाः । कर्तव्येऽतिप्रेमणि कथमिह धीरा विरज्यन्ते ॥ १४॥ तृणवद्धमन्ति चपलाः स्त्रीनामनि चण्डमारुते चलिते । धरणिधरा इव सन्तस्तत्र न किञ्चित्प्रकम्पन्ते ॥ १५॥ कामिजनपरमभोग्ये कामसुखे धारयन्ति बीभत्सम् । सन्तः शमसुखरसिकाः सुधाशनाः सूकरान्न इव ॥ १६॥ विक्षेपमात्रभाजो विकासकाष्ठागत ज्ञानाः । स्वस्यापि चेष्टितानि स्वयमीक्षन्ते परस्येव ॥ १७॥ अस्थानेऽभिनिविष्टान्मूर्खानस्थान एव सन्तुष्टान् । अनुवर्तन्ते धीराः पितर इव क्रीडतो बालान् ॥ १८॥ पुष्णति पुरुषे सलिलैर्मुष्णति पुष्पं फलं च तरव इव । वर्तन्ते सन्तः सममुपकर्तरि चापकर्तरि च ॥ १९॥ नित्यानित्यविवेकः सर्वेषां घटघटत्वयोरास्ते । स विवेको यः शान्तिकृदविवेकोऽन्यः समस्तोऽपि ॥ अनधिगते कामसुखे कालेन यथा प्रवर्तते तरुणः । एवं ब्रह्मसुखेऽपि प्रवर्तते कोऽपि भाग्यवशात् ॥ २१॥ पुत्रगुणाः स्वातन्त्र्ये दारगुणाश्चाधिवेदनावसरे । भ्रातृगुणा दायविधौ द्रष्टव्या मोक्ष्यमाणेन ॥ २२॥ का मे गतिरिति पृच्छति चरमश्वासेऽपि यः स्वार्थम् ॥ तस्य जनस्यापि कृते पापाः पापानि कुर्वन्ति ॥ २३॥ पितृभिः कलहायन्ते पुत्रानध्यापयन्ति पितृभक्तिम् । परदारानुपयन्तः पठन्ति शास्त्राणि दारेषु ॥ २४॥ शान्तिरलभ्यादुपरतिरपात्रभावः प्रतिग्रहनिवृत्तिः । क्षान्तिर्दुर्बलतेति च निवृत्तिधर्माः कलावेते ॥ २५॥ नीतिज्ञा नियतिज्ञा वेदज्ञा अपि भवन्ति शास्त्रज्ञाः । ब्रह्मज्ञा अपि लभ्याः स्वाज्ञानज्ञानिनो विरलाः ॥ २६॥ कलिकलुषे मनसि स्वे कथमिव जगदार्जवं लभताम् । चक्षुर्दोषे जाग्रति चान्द्रं द्वित्वं कुतो यातु ॥ २७॥ विषयाननुकूलयितुं विषयिणि हृदये विधीयतां यत्नः । दृशि देयमौषधं को दृश्ये दत्त्वा कृती भवति ॥ २८॥ दाराः पुत्रेषु रताः पुत्राः पितृधनपरिग्रहव्यग्राः । रोदनशरणा जननी परलोकगतस्य को बन्धुः ॥ २९॥ पश्यन्ति म्रियमाणान्मरिष्यतोऽनुमिमते स्मरन्ति मृतान् ॥ कथयन्ति चैवमसकृच्चेष्टन्ते नित्यवत्तु परम् ॥ ३०॥ कलहायन्ते मूढाः कः प्रतिभूः श्वः प्रभात इति ॥ तस्यामेव रजन्यां कः प्रतिभूः स्वस्य सत्तायाम् ॥ ३१॥ आप्रपदमाशिरस्पदमन्तः कलिमलमलीमसे वपुषि । विफलं गङ्गाजलमपि मद्यघटे दर्भमुष्टिरिव ॥ ३२॥ दण्ड्यं यत्सुखहेतोः पुष्णन्ति जनाः कथं तदेव वपुः । न हि शर्कराभिलाषिभिरिक्षोः काण्डानि पूज्यन्ते ॥ ३३॥ कुल्याः कृता विशालाः कुड्यान्युपलैर्निबद्धानि । क्रीता बलिनो महिषाः कृतकृत्याः स्म इति मन्यन्ते ॥ ३४॥ प्रायो मुह्यति चेतः प्राणभृतः प्राणनिर्गमावसरे । पुण्येन यदि न मुह्यति पुत्रानेव स्मरन्म्रियते ॥ ३५॥ शमयितुमौदरमग्निं संसारे सागरे निमज्जन्ति । तुहिनव्यथानिवृत्त्यै न हि वेश्मनि पावको देयः ॥ ३६॥ अर्थानामधिकानां राज्ञा चोरेण वा ध्रुवो नाशः । अन्ने खल्वतिभुक्ते वमनं वा स्याद्विरेको वा ॥ ३७॥ आहृत्य परित्यक्ता जनयन्त्यर्थाः सुखाभासम् । अत्यन्तपरित्यक्ताः परमानन्दाय कल्पन्ते ॥ ३८॥ प्रणमति परिसान्त्वयति प्रलपति याचति परिभ्रमति । आविष्ट इव पिशाच्या पुरुषस्तृष्णावशं यातः ॥ ३९॥ जननादृष्टात्पितरौ पुत्रा जामातरो व्ययादृष्टात् । कलहादृष्टाज्ज्ञातय इति निर्णीते किमेष्टव्यम् ॥ ४०॥ स्वपितुः परलोकाय स्वयमनुदिवसं यदाचरति । क्रियतामिदमुपमानं किं नालं पुत्रवैराग्ये ॥ ४१॥ अननुगते दारिद्र्ये किमनुगतं लक्षणं दृष्टम् । कामस्यापरिपूर्तौ कृपणं जगदा चतुर्वदनात् ॥ ४२॥ न खलु धनत्वं जातिर्यस्य यदिष्टं तदेव तस्य धनम् । तत्तदिव पामराणामाकिञ्चन्यं धनं विदुषाम् ॥ ४३॥ स्वीक्रियते यदि तृष्णा स्वीकर्तव्यं जगत्समस्तमपि । स्वीक्रियते यदि शान्तिः स्वात्मापि स्वस्य भवति न वा ॥ ४४॥ यद्दातारं वशयति यत्परिजनमस्य सान्त्वयति । यदपत्रपते नान्तर्भावी लाभः स कस्य समः ॥ ४५॥ प्रादेशमात्रमुदरं परिपूरयितुं कियानयं यत्नः । चुलकेनाम्भः पातुं खनितव्यः किं तडागोऽपि ॥ ४६॥ यामार्धमसंस्काराद्यामद्वयमनशनाच्च सुव्यक्ते । शारीरे सौन्दर्येऽभिनिविशन्ते कियन्मूढाः ॥ ४७॥ वन्ध्येत्याहुस्तरुणीं जरतीति परित्यजन्ति बहुपुत्राम् । अपि निन्दन्त्यल्पसुतां का गृहिणी कामिनां हृद्या ॥ ४८॥ यान्ति शुचमकृतदारा द्वे भार्ये नेति कृतदाराः । ते परदारा नेति स्त्रीभिस्तृतान्न पश्यामः ॥ ४९॥ मदनस्याज्ञाकरणे मन्ये जगदखिलमेकरूपमिदम् । तिर्यञ्च इति नरा इति देवा इत्यन्यतो भेदः ॥ ५०॥ शुक्लविमोकस्थानं मलमूत्रत्यागदेशवत्किमपि । स्त्रिय इति विधिना विहितं कियदत्र जना निमज्जन्ति ॥ वेदानधीत्य विधिवन्मीमांसित्वा तदर्थं च । दाराः कर्तव्या इति केनेदं प्रहसनं कथितम् ॥ ५२॥ दुःखेनोपार्ज्यन्ते पाल्यन्ते प्रत्यहं च लाल्यन्ते । वामाः स्त्रियो विमूढेरुपभुञ्जानाः सुखं द्विगुणम् ॥ ५३॥ अश्नीत पिबत खादत जागृत संविशत चलत तिष्ठत वा । सकृदपि चिन्तयतान्तः सावधिको देहबन्ध इति ॥ ५४। ॥ किं विजितया पृथिव्या किं काञ्चनभूभृता करस्थेन । किं दिव्याभिः स्त्रीभिर्मर्तव्ये ब्रह्मणा लिखिते ॥ ५५॥ जीवति कतिचिन्निमिषान्कतिचित्तेषु श्रुतीरधीत इव । तावत्येवाकुलयति तन्त्राणि नवानि चातनुते ॥ ५६॥ स्वल्पो जीवनकालः स्वल्पा धीः परिचयः स्वल्पः । तदपि तरेम कथञ्चिच्छ्रूतयो यदि नोपजायन्ते ॥ ५७॥ कुत आगतं न जाने क्व नु वा गन्तव्यमिदमपि न जाने । सञ्चरसि क्वेदानीं संसारपथे महातमसि ॥ ५८॥ तमसावृताश्चरन्तः सविधे दूरे च नावयन्त्यर्थान् । अवयन्ति तु विस्पष्टं तदिति शिरस्यभिहते मूढाः ॥ ५९॥ निमिषन्त्यत्र तरुण्यस्तत्र तरुण्यो न निमिषन्ति । ईदृक्षो हि विशेषः स्वर्गः स्वर्ग इति किं तत्र ॥ ६०॥ कोपो मैत्रावरुणेः शापो वा तार्किकस्य मुनेः । संस्मर्यते यदि सकृच्छत्रोरपि मास्तु शक्रपदम् ॥ ६१॥ गच्छत्वमरावत्यां गच्छतु चतुराननस्य वा नगरे । पुनरागन्तव्यं यदि पुंसा किं साधितं भवति ॥ ६२॥ भुक्ता बहवो दारा लब्धाः पुत्राश्च पौत्राश्च । नीतं शतमप्यायुः सत्यं वद मर्तुमस्ति मनः ॥ ६३॥ विश्लेषणस्वभावान्विषयान्पश्यन्करोति को ममताम् । नश्यवस्थापन्नं कः क्रीणीते धनैरश्वम् ॥ ६४॥ अन्नाभावे मृत्युः शालिभिरन्नानि शालयो वृष्टया । वृष्टिस्तपसेति वदन्नमृत्यवे तत्तपश्चरतु ॥ ६५॥ किं न निगृहन्ति मनः किं न भजन्ते जनाः शिवं शरणम् । अभिसन्धिभेदमात्रान्मोक्षोपायेन बध्यन्ते ॥ ६६॥ भोगाय पामराणां योगाय विवेकिनां शरीरमिदम् । भोगाय च योगाय च न कल्पते दुर्विदग्धानाम् ॥ ६७॥ ब्राह्मणचण्डाला इत्याह मनुर्यन्महापथिकान् । भवमार्गमहापथिकानधिकृत्यैव प्रवृत्तं तत् ॥ ६८॥ एकद्वाः क्षितिपतिषु द्वित्रा देवेषु पञ्चषा द्रुहिणे । एतावन्तो जगति ब्रह्मानन्दार्णवस्य कणाः ॥ ६९॥ अज्ञानेनापिहिते विज्ञाने कर्म किं कुरुते । विकले चक्षुषि तमसा व्यादाय मुखं किमेक्षेत ॥ ७०॥ अतिकलुषमाशुनश्वरमापातस्फुरणमनभिलापकरम् । अपि हृष्यन्ति जनाः कथमवलम्ब्य ज्ञानखद्योतम् ॥ ७१॥ प्रयुतं नियुतं वापि प्रदिशन्ति प्राकृताय भोगाय । क्रीणन्ति न बिल्वदलैः कैवल्यं पञ्चषैर्मूढाः ॥ ७२॥ यावत्किल चेष्टन्ते तावत्पाशेन बध्यते ग्रन्थिः । निभृतं यदि वर्तन्ते कालेन स्रंसते पाशः ॥ ७३॥ उपरुन्धन्ति श्वासान्मुनयो नाश्नन्ति न पिबन्ति । स्तूयन्ते किं मुनयः कण्ठे कुर्वन्ति कनकपाशमिमे ॥ ७४॥ कामं जनाः स्मयन्ते कैलासविलासवर्णनावसरे । साधनकथनावसरे साचीकुर्वन्ति वक्राणि ॥ ७५॥ वङ्गाः कथमङ्गाः कथमित्यनुयुङ्क्ते वृथा देशान् । कीदृक्कृतान्तपुरमिति कोऽपि न जिज्ञासते लोकः ॥ ७६॥ त्यक्तव्यो ममकारस्त्यक्तुं यदि शक्यते नासौ । कर्तव्यो ममकारः किं तु स सर्वत्र कर्तव्यः ॥ ७७॥ पुत्रा इति दारा इति पोष्यान्मूर्खो बहिर्जनान्ब्रूते । अन्धे तमसि निमञ्जनात्मा पोष्य इति नावैति ॥ ७८॥ यञ्चिन्तितमधिगर्भं यञ्च चिरं चिन्तितं नरके । विषयानिलसंसर्गान्ममृजे तत्सर्वमेकपदे ॥ ७९॥ बाह्यगतागतशीला प्राणस्य श्वासलक्षणा वृत्तिः । कर्षति मनसो वृत्तिं कुलटेव कुलस्त्रियं मुग्धाम् ॥ ८०॥ अतिगम्भीरमनाविलमक्षोभ्यमदृष्टपारमविलङ्घयम् । अविरलतरङ्गसङ्कुलमैक्षिषि विज्ञानसागरं महताम् ॥ ८९॥ घोरं भवमपहातुं कतिचिदघोरं भवं प्रपद्यन्ते । संसरणकातराणां संसरणं शाम्भवी भक्तिः ॥ ८२॥ पाशो यदि मोक्तव्यः पशुपतिरेवानुसर्तव्यः । न खलु व्यतिमुच्यन्ते पशवः पाशेन सम्बद्धाः ॥ ८३॥ अलमलमनुभूताभिर्मातृभिरलमस्तु पितृभिश्च । भवितव्यं यदि नित्यवदर्धं मातुः पितुश्चास्तु ॥ ८४॥ धन्यास्ते बहुदेवाः स्वामिनि येषां न दुर्भिक्षम् । जातु न जानीमो वयमेकमपि स्वामिनं पूर्णम् ॥ ८५॥ सन्तु बृहन्तो देवाः किं तु न तान्नन्तुमीहते चेतः । आढ्यवदान्यन्यायादन्तकजितमेव चिन्तयते ॥ ८६॥ निध्यायसि विषयसुखं न ध्यायसि विषममस्य परिपाकम् । बन्धुं तमेव चिन्तय बन्द्धुं मोक्तुं च यः क्षमते ॥ ८७॥ सदनं गुरूपसदनं चरणं पञ्चाक्षरीपुरश्चरणम् । धनमभिलाषनिरोधनमत्याश्रमवर्तिनां पुंसाम् ॥ ८८॥ स विधिर्यत्ते विदधति स प्रतिषेधो यतो निवर्तन्ते । सोपनिषद्यद्ब्रुवते शैवाश्रमवर्तिनो धीराः ॥ ८९॥ कौ पितरौ यौ जगतां कः स्वामी यः प्रपञ्चम्य । प्रत्यस्तमिते भेदे तत्किमिदं किमिति कः प्रश्नः ॥ ९०॥ त्यज संसारमसारं भज शरणं पार्वतीरमणम् । विश्वसिहि श्रुतिशिखरं विश्वमिदं तव निदेशकरम् ॥ ९१॥ भव्यमभव्यं वा नः प्रलिखतु वेधाः सुदुर्मेधाः । सव्यमसव्यं वा नश्चरणं शरणं महेशस्य ॥ ९२॥ वेधाः कथं हरिः कथमिति तु प्रश्ने वयं मूकाः । शिवमेकं जानीमस्तस्मादन्यं न जानीमः ॥ ९३॥ दारुणमसिपत्रवनं दारुणतममन्धतामिस्रम् । का वा ततः क्षतिर्नः शैवा वयमा चतुर्वदनात् ॥ ९४॥ कृतदीक्षो घोरमखे कुलकूटस्थो भरद्वाजः । विद्येश्वरेषु कश्चन पितामहो न इति विस्रम्भः ॥ ९५॥ कलहः कदापि मास्त्विति कलितशरीरैक्ययोः शिवयोः । अहमस्म्यहमस्मीति प्राप्तः कलहो मम त्राणे ॥ ९६॥ नरकायापि न भोगान्नराधमायापि नान्यसुरान् । मन्यन्ते कतिचिदमी माहेश्वरमाश्रिता योगम् ॥ ९७॥ ज्ञातुं हातुं विषयं श्रोतुं मन्तुं ग्रहीतुमात्मानम् । वत्सा यदि न हि घटते तत्साधयताविमुक्ताय ॥ ९८॥ साङ्ख्यं योगो नियमा भक्तिः कर्म प्रपत्तिरिति । एकत्र सकलमेतत्केवलमविमुक्तमेकत्र ॥ ९९॥ बद्धः कस्ते वक्ष्यति मुक्तो मुक्तिं न जानाति । यास्यसि चेदविमुक्तं ज्ञास्यसि विश्वेश्वरस्य मुखात् ॥ १००॥ न ग्रहीतं श्रुतिहृदयं न च निगृहीतं परिप्लवं हृदयम् । इच्छामि च धाम परं गच्छामि च विश्वनाथपुरम् ॥ १०१॥ इति श्रीमदप्पय्यदीक्षितविरचितं वैराग्यशतकं सम्पूर्णम् ॥ The shataka is composed by Shri Appayya Dikshita as noted in the reference 2 of Kavyamala. In some prints, it is considered a composition of Nilakantha Dikshita. Proofread by Rajesh Thyagarajan
% Text title            : Vairagya Shatakam 2 by Appayya Dikshita
% File name             : vairAgyashatakam2.itx
% itxtitle              : vairAgyashatakam 2 (appayyadIkShitavirachitaM)
% engtitle              : vairAgyashatakam 2 by appayyadIkShita
% Category              : shiva, appayya-dIkShita, shataka
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Appayya Dixit
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Scan 1, 2, 3)
% Latest update         : March 13, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org