वैशाखमासकृते शिवशताष्टनामस्तोत्रम् मास २
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवगौरीसंवादे -
ॐ भर्गाय भूतभव्याय भवरोगहराय च ।
शर्वायाखर्वरूपाय दूर्वापूज्याय शम्भवे ॥ ५०॥
गोकर्णाय च गोप्त्रे च शङ्कुकर्णाय ते नमः ।
वराहमथनायैव रूक्षाय द्विरदाय च ॥ ५१॥
नमो दग्धस्मराङ्गाय गणानां पतये नमः ।
अंहसां पतये चैव ओजसां पतये नमः ॥ ५२॥
नमोऽस्त्वपर्णापतये हेमवर्णाय वर्णिने ।
बलाबलसमूहाय अक्षोभ्यक्षोभणाय च ॥ ५३॥
चन्द्राभरणभूषाय नमः शेषाहिधारिणे ।
दीप्तशृङ्गैकशृङ्गाय वृषभाय ककुद्मते ॥ ५४॥
बिल्मिने बिल्वपूज्याय विशाखासुप्रियाय च ।
उग्राय रुद्ररूपाय धन्वने धावते नमः ॥ ५५॥
ज्योतिर्गणानां पतये ग्रहाधाराय ते नमः ।
अतीताय भविष्याय वर्तमानाय ते नमः ॥ ५६॥
अजराय नमस्तुभ्यं तपसे वरदाय च ।
सुवर्चसे सुवीर्याय स्मरगर्वहराय च ॥ ५७॥
वरदाय वरेण्याय स्वर्णवर्णाय ते नमः ।
अर्णवान्तर्निवासाय दीप्तशूलधराय च ॥ ५८॥
पुरुषायाप्रमेयाय अघोरायोर्ध्वकेशिने ।
ज्वालामालावृताङ्गाय भुजङ्गाभरणाय च ॥ ५९॥
नमो वाह्याय गुह्याय स्वर्गाय नरकाय च ।
हराय परमेशाय स्कन्द गोप्त्रे(प्त्रिषुधन्वने (गोप्त्रीषुधन्वने) ॥ ६०॥
कनिष्ठायाथ ज्येष्ठाय गह्वरेष्ठाय वर्णिने ।
मुण्डाय शितिकण्ठाय जटिलाय भगाय च ॥ ६१॥
बन्धवे नागकर्णाय बालन्यङ्कुधराय च ।
भूधरायादिमध्याय ज्ञानज्ञेयागमाय च ॥ ६२॥
निगमान्तैकवेद्याय अभेद्याय वपुष्मते ।
भद्रदाय शरण्याय वरेण्याय नमो नमः ॥ ६३॥
अरण्यानां च पतये भूताधिपतये नमः ।
यक्षाधिपतये चैव रक्षकाय कपर्दिने ॥ ६४॥
एवं नामाष्टशतकैः पूजयेद्बिल्वपल्लवैः ।
वैशाखे देवदेवेशं स्तुवीतैवं महेश्वरि ॥ ६५॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं वैशाखमासकृते शिवशताष्टनामस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः १५ वैशाखमासार्चनकथनम् । ५०-६५॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 15 vaishAkhamAsArchanakathanam . 50-65..
Notes:
Śiva शिव delivers to Devī देवी; Vaiśākhamāsakṛte ŚivaŚatāṣṭanāmaStotram वैशाखमासकृते शिवशताष्टनामस्तोत्रम् comprising of 108 Names १०८ नामानि of Śiva शिव, while detailing about His Worship during the Vaiśākha māsa वैशाख मास.
The count from the source text comes to less than 108 though. Perhaps there are/were meant to be more Śloka-s.
The corresponding Vaiśākhamāsakṛte ŚivaŚatāṣṭaNāmāvaliḥ वैशाखमासकृते शिवशताष्टनामावलिः derived from the Vaiśākhamāsakṛte ŚivaŚatāṣṭanāmaStotram वैशाखमासकृते शिवशताष्टनामस्तोत्रम्, and a Vaiśākhamāsakṛte ŚivaStutiḥ वैशाखमासकृते शिवस्तुतिः can be accessed from one of the links provided below.
More details about worshiping Śiva शिव during individual Māsa मास are given in Chapters 13-25.
Selected Śloka-s श्लोकाः from Chapter 15 are presented on this page.
Proofread by Ruma Dewan