वैशाखमासकृते शिवस्तुतिः मास २
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवगौरीसंवादे -
शम्भो भर्ग भवेन्दुशेखर महागङ्गातरङ्गोज्ज्वल-
ल्लीलाभङ्गतरङ्गसुन्दरजटाजूटोत्तमाङ्गोज्ज्वल ।
पाहीश प्रमथाधिनाथ गिरिजानाथाव मां शङ्कर
त्रस्तं भो वरकालहस्तसुमहापाशावबद्धं हर ॥ ६६॥
हे शम्बरान्तकहर प्रवरामरेश
काशीपुरीश्वर जगत्परमावकाश ।
चर्माम्बरान्तकहर त्रिपुरावमर्द-
मूर्धन्य पाहि भगवन् हृतशम्बरारे ॥ ६७॥
हे कालकाल धृतशूल वराहिमाल
कालोज्ज्वलानलविशोषितलोकजाल ।
नीलाभकण्ठकलनानिलपापतूल
दावाग्निजाल भगवन्नव मां नमस्ते ॥ ६८॥
यक्षाधिपार्चितपदाम्बुज त्र्यक्ष दक्ष-
शिक्षाविनोद भगवन् सुमहोक्षवाह ।
वीक्षाविदग्धसुमचापवरोरुकाय
रक्षाऽधुना पशुपते हर मां हिताक्ष ॥ ६९॥
- -
एवं संस्तुत्य वैशाखे देवदेवं महेश्वरम् ।
एककालं त्रिकालं वा पूजयेल्लिङ्ग्ङ्गमैश्वरम् ॥ ७०॥
दद्याद्गोमिथुनं देवि मासान्ते शाम्भवेषु च ।
सदक्षिणं सवत्सं च वस्त्रालङ्कारभूषितम् ॥ ७१॥
होमः कार्योऽत्रवैशाख्यां प्रागुक्तक्रमतः शिवे ।
नक्ताशी भस्मनिष्ठोऽथ भवेन्मासान्तमीश्वरि ॥ ७२॥
वैशाख्यामथ पौर्णम्यां कुर्याच्च दधिकम्बलम् ।
घृतकम्बलदानेन विधिः प्रोक्तः पुरा मया ॥ ७३॥
एतत्तेऽभिहितं गौरि वैशाखार्चनजं फलम् ।
स्नानपूजनमीशानि गन्धपुष्पफलार्ण(म्बर)म् ॥ ७४॥
पानीयं पानकं तस्मिन् मसि विप्रेषु दापयेत् ।
मम प्रीत्यर्थमेवेशि तस्य पुण्यफलं फलं शृणु ॥ ७५॥
काञ्चनेन विमानेन वंशलक्षसमन्वितः ।
याति शम्भोः परं धाम सर्वभोगसमन्वितः ॥ ७६॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं वैशाखमासकृते शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः १५ वैशाखमासार्चनकथनम् । ६६-७६॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 15 vaishAkhamAsArchanakathanam . 66-76..
Notes:
Śiva शिव advises to Devī देवी; the ŚivaStutiḥ शिवस्तुतिः for the māsa मास while detailing about His Worship during the Caitra māsa वैशाख मास. He mentions about offering of the Dadhikabmbalam दधिकम्बलम् during Caitra Pūrṇimā वैशाख पूर्णिमा; while referring to an erstwhile explained Ghṛtakambalam घृतकम्बलम्.
The Vaiśākhamāsakṛte ŚivaŚatāṣṭanāmaStotram वैशाखमासकृते शिवशताष्टनामस्तोत्रम् comprising of 108 Names १०८ नामानि of Śiva शिव, and the Vaiśākhamāsakṛte ŚivaŚatāṣṭaNāmāvaliḥ वैशाखमासकृते शिवशताष्टनामावलिः derived from the same can be accessed from one of the links provided below. The count from the source text comes to less than 108 though. Perhaps there are/were meant to be more Śloka-s.
More details about worshiping Śiva शिव during individual Māsa मास are given in Chapters 13-25.
Selected Śloka-s श्लोकाः from Chapter 15 are presented on this page.
Proofread by Ruma Dewan