अगस्त्यकृतवेदपादस्तवः
अगस्त्यः -
भर्गो देवस्य सवितुर्वरेण्यमिह धीमहि ।
स भर्गो भगवान् शम्भुः धियो यो नः प्रचोदयात् ॥ ४॥
गणगणपतये नमो नमः सुरगणपतये नमो नमः ।
अगपतिपतये नमो नमः पशुपतिपतये नमो नमः ॥ ५॥
नमस्तेऽस्तु गणेशाय महादेवसुताय ते ।
विघ्नान्धकारसूर्याय ब्रह्मणां ब्रह्मणस्पते ॥ ६॥
नमामि ढुण्ढिं मदसिक्तगण्डं कृपाघषण्डं विधृतार्धमुण्डम् ।
स्वभक्तविघ्नार्तिहरप्रचण्डं परात्परं यन्महतो महान्तम् ॥ ७॥
गणाधिपं गण्डतलालिकोटिकिरीट कोटिध्वजनिर्जिताम्बुधेः ।
संसेविताङ्घ्रि प्रणमामि सर्वदा कविं कवीनामुपमश्रवस्तमम् ॥ ८॥
सिद्धिं दातुं बुद्धिं वृद्धिं शक्तं नित्यं गौरीपुत्रम् ।
स्कन्दं वन्दे वन्द्यं वेदैः सुब्रह्मण्यों सुब्रह्मण्यम् ॥
तारकासुरसंहारं विहारचतुरं परम् ।
वन्दे वन्दारुमन्दारं कुमारं पुष्करस्रजम् ॥ १०॥
अकस्मादस्मदीयेन भाग्येन सुखदेव मे ।
स्मरारातिस्मृतिस्तावदभ्रात् वृष्टिरिवाजनि ॥ ११॥
ये वैदिकस्मार्तविधिप्रयुक्तक्रियाजलक्षालनपूतचित्ताः ।
विभूतिरुद्राक्षविभूषणास्ते शमेन शान्ताः शिवमाचरन्ति ॥ १२॥
सुरापारशिरोरत्नप्रभानीराजिताय ते ।
महादेवाय शर्वाय सदसस्पतये नमः ॥ १३॥
भूतजातसमुत्पत्तिहेतुभूताय सर्वदा ।
सर्वदेवाभिवन्द्याय भूतानां पतये नमः ॥ १४॥
सर्वामराधिदेवाय वेदाराध्यपदाय ते ।
देवोत्तमोत्तमायाशु पशूनां पतये नमः ॥ १५॥
कालान्तकाय शर्वाय महामृत्युञ्जयाय च ।
भूतस्वर्गापवर्गाय जगतां पतये नमः ॥ १६॥
नमस्त्रिलोकनाथाय नमः परतराय ते ।
नमः शान्ताय भगवन् अन्नान्नां पतये नमः ॥ १७॥
आर्यचित्तप्रविष्टाय प्रहृष्टाय सुरेष्वपि ।
प्रकृष्टायातिपुष्टाय पुष्टानां पतये नमः ॥ १८॥
महाभूताधिपतये भूतभीतिप्रदाय च ।
भूतिप्रदप्रभूताय दिशां च पतये नमः ॥ १९॥
विश्वमायाविदूराय विश्वविश्वप्रियाय च ।
विश्वेश्वराय सोमाय विश्वरूपाय वै नमः ॥ २०॥
घोर तत्पुरुषेशान वामदेव सदाशिव ।
अविद्याध्वान्तसूर्याय सद्योजाताय वै नमः ॥ २१॥
नमो भर्गाय भीमाय भगनेत्रहराय ते ।
देवतासार्वभौमाय नमो रुद्राय मीढुषे ॥ २२॥
सहस्रशिरसे तुभ्यं सहस्रचरणाय च ।
नमः सहस्रहस्ताय सहस्राक्षाय मीढुषे ॥ २३॥
भालभासुरनेत्राग्निसन्दग्धत्रिपुराय ते ।
नमः सुन्दररूपाय सुमृडीकाय मीढुषे ॥ २४॥
संसारघोररोगार्तिनिवारणकराय ते ।
नमस्तुभ्यमषाढाय सहमानाय मीढुषे ॥ २५॥
समस्त वेदवेदान्तवन्दिवन्दितमव्ययम् ।
भव्वस्वरूपं तं वन्दे सदसस्पतिमद्भुतम् ॥ २६॥
सुरासुरगणाराध्यं दुराराध्यं दुरात्मनाम् ।
परमानन्ददं वन्दे सुगन्धिं पुष्टिवर्धनम् ॥ २७॥
तमेव भक्त्या हृदि भावयामो भवं भवानीरमणं भजामः ।
भवादिनामानि मुदा वदामो यतः प्रसूता जगतः प्रसूती ॥ २८॥
गौरी विहारप्रवरप्रजातस्वेदोदकामोदविजृम्भितेन ।
उमासहायः समयः स भूयः तोयेन जीवान् व्यचसर्ज भूम्याम् ॥ २९॥
य एव तावद्भिरिराजकन्या विन्यस्तहस्तस्तनमस्तहस्तः ।
स एव तावव्द्यचसर्ज तस्यां यदोषधीभिः पुरुषान् पशूंश्च ॥ ३०॥
प्रदोषकालीनशिवार्चनेन यः सर्वदोषापहरो हरो मे ।
गौरीविहारादरतः ससर्ज यदेष भूतानि चराचराणि ॥ ३१॥
भालाक्षं दक्षयज्ञादिशिक्षादक्षाभिलक्षितम् ।
वन्दे देवं विरूपाक्षमक्षरं परमं पदम् ॥ ३२॥
शिवप्रभावश्रवणोत्सुकाय शिवार्चनानन्दविजृम्भिताय ।
शिवस्तवाख्यानविवर्धनाय शिव प्रजायै शिवमस्तु मह्यम् ॥ ३३॥
महाप्रभुः शम्भुरुमासहायो दयामयो भूतिमयो मयोऽपि ।
माता पिता मे स हितप्रदाता धाता विधाता परमोत सन्दृक् ॥ ३४॥
मङ्गलालङ्कृतार्धाङ्गमर्धेन्दुललितालकम् ।
अर्धनारीश्वरं वन्दे पुरुषं कृष्णपिङ्गलम् ॥ ३५॥
जगन्निर्माणचातुर्यमर्यादासेतुसेवितम् ।
वन्दे शान्तमुमाकान्तं जगतस्तस्थुषस्पतिम् ॥ ३६॥
पुरादिकामरारातिसंहारचतुरं परम् ।
परात् परतरं वन्दे जेतारमपराजितम् ॥ ३७॥
तं वन्दे सच्चिदानन्दमद्वैतमतिसुन्दरम् ।
लीलया विदधे योयमिमानि त्रीणि विष्टपा ॥ ३८॥
तं वन्दे नित्यसर्वज्ञं नित्यविज्ञानसागरम् ।
यतो यजूंषि जातानि ऋचः सामानि जज्ञिरे ॥ ३९॥
भवन्तमेव सततं भगवन्तमुमापतिम् ।
स्मृत्वा तरति संसारं यो विश्वाऽभिविपश्यति ॥ ४०॥
सर्वामरनियन्तारं शङ्करं लोकशङ्करम् ।
भज यस्य प्रसादेन व्याप्य नारायणः स्थितः ॥ ४१॥
तमेव वन्दे देवेशं महेशं शरणं गतः ।
यदाज्ञया जगद् धाता यथापूर्वमकल्पयत् ॥ ४२॥
स्मरारिं तमहं वन्दे यल्लिङ्गं मङ्गलप्रदम् ।
पूजयन्ति प्रसूनाद्यैरिन्द्रज्येष्ठा मरुद्गणाः ॥ ४३॥
नमामि तमुमार्धाङ्गं शङ्गं मङ्गलदायकम् ।
यमाराध्य सुखं प्रापुः देवासः पूषरातयः ॥ ४४॥
नमामि तं महारुद्रं शाम्भवाश्चिद्धनं परम् ।
सततं वेदवेदान्तेः सञ्जानाना उपासते ॥ ४५॥
नमामि तां परां गौरीं कुचकुङ्कुमरूधिताम् ।
स्मृत्याप्यानन्ददामाशु या ते रुद्र शिवा तनूः ॥ ४६॥
नमस्ते करुणापारसागराय स्मराय च ।
नमः शान्तिरसायापि नमस्ते रुद्रमन्यवे ॥ ४७॥
महाप्रलयकालाग्निनिभशूलाय ते नमः ।
नमः परशवे तावत् उतोत इषवे नमः ॥ ४८॥
फणिराजमहाकायज्याज्योत्स्नामण्डिताय च ।
महामेरुस्वरूपाय नमस्ते अस्तु धन्वने ॥ ४९॥
रक्तकङ्कणभाभारभासुराभ्यां भव प्रभो ।
भक्ताभीष्टप्रदाभ्यां च बाहुभ्यामुत ते नमः ॥ ५०॥
सुरासुरादिकापारसंहारकरणान्यपि ।
घोराण्यपाररूपाणि तस्मात्तेभ्योऽकरं नमः ॥ ५१॥
मां मामकधिया दीनं तावकं करुणाकर ।
कुरु शङ्कर सम्पन्नं दरिद्रन्नीललोहित ॥ ५२॥
शाङ्कराग्रेसराराध्यं शिवाराधनसाधनम् ।
रक्ष रक्ष विरूपाक्ष नान्यं विन्दामि राधसे ॥ ५३॥
दाराणां मम पुत्राणां पौत्रादीनां विशेषतः ।
त्वत्पादुकाराधकानामस्माकमविता भव ॥ ५४॥
अतः परमुमाकान्त दुर्दशां न सहामहे ।
तां दुर्दशां हरास्माकं भूरिदां भूरि देहि नः ॥ ५५॥
शिवपूजनसक्तेभ्यः शाम्भवेभ्यः प्रतिक्षणम् ।
पवित्रं गात्रमस्मभ्यं वसु स्वार्हं तदाभर ॥ ५६॥
भावेभ्यो भवभीरुभ्यो भस्माङ्गेभ्यः प्रयत्नतः ।
भवानीरमण स्वामिन् इषंस्तोतृभ्य आभर ॥ ५७॥
सर्व मोहविनाशाय सर्वाभीष्टद शङ्कर ।
प्रयच्छ शाङ्करीं विद्यां राया विश्वपुषा सह ॥ ५८॥
शिवपूजासाधनानां बिल्वानामार्जनाय च ।
तथा शिवप्रणामार्थं बलं धेहि तनूषु नः ॥ ५९॥
शिवपूजनसामग्रीविरहादेव दुःखिनः ।
हृद्रोगं मम सूर्येश हरिमाणं च नाशय ॥ ६०॥
शिवद्रोहरता एव शिवभक्तपरराङ्मुखाः ।
तान् शिवाचाररहितान् विबाधस्व महाम्भसि ॥ ६१॥
अनन्यशरणानस्मान् त्र्यक्ष दाक्षायणीप्रिय ।
कटाक्षेण विरूपाक्ष रक्ष णो ब्रह्मणस्पते ॥ ६२॥
गौरीपते पिता माता दाता त्राता विशेषतः ।
त्वमस्माकं धनं भाग्यमुत भ्रातोऽत नः सखा ॥ ६३॥
स्तन्यपानादिसमये न कृतं शिवपूजनम् ।
अन्यच्च तत् क्षमस्वेश यन्मया दुष्कृतं कृतम् ॥ ६४॥
कर्पूरपूरनीहार गिरिसुन्दर विग्रहम् ।
गिरिजानुग्रहानुग्रं गाये त्वां मनसा गिरा ॥ ६५॥
सोऽयं देयो वरोऽस्मभ्यं वयं लिङ्गं समर्पितम् ।
बिल्वादिसाधनैर्दिव्यैः पश्येम शरदः शतम् ॥ ६६॥
शिवलिङ्गार्चनोद्योगमहोत्सव समन्विताः ।
सर्वसौभाग्यसम्पन्ना जीवेम शरदः शतम् ॥ ६७॥
गौरीविहारश्रीपुञ्ज मञ्जुशिञ्जितमञ्जुलम् ।
श्रीकालकालमालोक्य नन्दाम शरदः शतम् ॥ ६८॥
उमासहायं सदयं प्रसन्नहृदयं हृदि ।
आनन्दं मुहुरालोक्य मोदाम शरदः शतम् ॥ ६९॥
प्रसीद भगवन् शम्भो भवत्करुणया वयम् ।
निर्भयाः शाम्भवा एव भवाम शरदः शतम् ॥ ७०॥
हारापारकथामेव संसारातिभयक्षयम् ।
कर्तुमत्युद्यताः शृणवाम शरदः शतम् ॥ ७१॥
शिव शङ्कर गौरीश महादेवान्तकान्तक ।
शूलिन् इत्यादिनामानि प्रब्रवाम शरदः शतम् ॥ ७२॥
अपमृत्यु महामृत्यु महारोग कुलैरपि ।
आधिभिर्व्याधिभिः नित्यमजीताः स्याम शरदः शतम् ॥ ७३॥
गौरीकुचगिरिस्फारकाश्मीररसरूषितम् ।
सदा चाङ्गेषु पश्यामि युवानं विश्पतिं कविम् ॥ ७४॥
गौरीमनोहरस्मेरविलोकनविशारदम् ।
दृष्ट्वा हृष्टोऽस्मि तं साम्बं सुभासं शुक्रशोचिषम् ॥ ७५॥
अपारासारसंसाररोगभोगविनाशकः ।
स्मृतः स्मरहरः शूरो नीलग्रीवो विलोहितः ॥ ७६॥
स्मृतः स्तुतः श्रुतो ध्यातः पूजितो वा सकृन्मुदा ।
मुक्तिप्रदो महादेवः तुविग्रीवो अनामयः ॥ ७७॥
रुद्रवीणागानलोललीलया सामकल्पकः ।
सामगानप्रियः सोऽयमुपास्मै गायता नरः ॥ ७८॥
रुद्रसूक्तप्रियो देवो रुद्राध्यायप्रियः शिवः ।
अतस्तैरखिलर्नूनमेष विरप्रैरभिष्टुतः ॥ ७९॥
शिवार्चनादयो धर्माः चित्त शङ्करकल्पिताः ।
अतो भज विरूपाक्षमध्यक्षं धर्मणामिमम् ॥ ८०॥
प्रणमन्ति सुराः सर्वे प्रणतं शिवसन्निधौ ।
अतः कुर्मो नमस्कारान् रुद्राय स्थिरधन्वने ॥ ८१॥
रुद्राध्यायादिभिर्या या नमस्या प्रतिपादिता ।
सा पिनाकिनमायाति नमस्या कल्मलीकिनम् ॥ ८२॥
नेत्राम्भोरुह ते कृत्यं हितमद्याधुनोच्यते ।
पश्य मामक पश्येशं भ्राजमानं हिरण्मयम् ॥ ८३॥
शिवनामसुधाधारां घोरसंसारहारिणीम् ।
अन्तःकरणपात्रेण पातं गौराविवेरिणी ॥ ८४॥
शिवनिर्माल्यमाल्यानि सम्यगाघ्रायनासिके ।
शाम्भवेभ्योऽधुना नित्यमस्मभ्यं शर्म यच्छतम् ॥ ८५॥
रसने मधुरापाररसास्वादनतत्परे ।
शिवनारसं ब्रूहि जयतामिवदुन्दुभिः ॥ ८६॥
रे रे चित्तचकोर त्वं जहि दुःखमतः परम् ।
शिवनामसुधाधारां गेरो न तृषितः पिब ॥ ८७॥
रे रे मनश्चञ्चरीक शिवपादाम्बुजं मुहुः ।
गाढमालिङ्ग मच्चित्तं योषा जारमिव प्रियम् ॥ ८८॥
महार्हरत्नाकरचारुमेरुभूरिप्रभाभासुरभूषणाय ।
महेश्वरायातिमनोहराय महो महीं सुष्ठुतिमीरयामि ॥ ८९॥
महेश्वरातिदुःसहामितातिगर्भवेदना
समाकुलानपारपापसङ्घसङ्कुलानिमान् ।
अवाव मामवाव मामुमासहाय कालहन्
अदूषणोव सोम हे मृशस्व शूर राधसे ॥ ९०॥
भजेम कामदं मुदा हृदि प्रविष्टमष्टधा
निरन्तरायमन्तरायनाशहेतुसाधकम् ।
अनर्गलप्रवाहसृष्टिकारणं सभापतिः
स नो ददातु तं रयिं रयिं पिशङ्गसन्दृशम् ॥ ९१॥
नमोऽन्धकासुरादि सर्वशत्रु नाशहेतवे
सुराधिकाय चित्तमेतदिन्दुखण्डमौलये ।
भयापहाय देयमेव बिल्वपल्लवामलं
न यस्य दृश्यते सखा न हीयते कदाचन ॥ ९२॥
अहो महादेव महानुभाव शुभस्वभावानुपमप्रभाव ।
भवोद्भवानुद्भव भव्यभाव भवे भवे नातिभवे भवस्व माम् ॥ ९३॥
महाघकोटिकूटकोटिदावपावकानलान्
अपारकामवञ्चितानुदारकामलोलुपान् ।
अनाथनाथ विश्वनाथ तानवाव तावकान्
अदूषणोऽव सोमहन् मृशस्व शूर राधसे ॥ ९४॥
मन्दारकुन्दादिमरन्दधारासक्तालिमालाकुलमालिकाभिः ।
समर्चयामि स्तुतिभिर्गिरीशमषाढमुग्रं सहमानमाभिः ॥ ९५॥
नमो नमस्ते गिरिराजराजकुमारिकासुन्दरकामुकाय ।
नमो नमस्तेऽस्तु पुनर्नमस्ते नमो जघन्याय च बुध्नियाय ॥ ९६॥
तस्मै नमः सर्वगुणार्णवाय सर्वामराराधितपादुकाय ।
गौरीसमेताय बहुप्रजेयं यतः प्रसूता जगतः प्रसूती ॥ ९७॥
तस्मै नमो मङ्गलमङ्गलाय श्रीमङ्गलालङ्कृतविग्रहाय ।
वेदान्तसङ्घातसमाश्रयाय यस्मात् परं नापरमस्ति किञ्चित् ॥ ९८॥
सुधाकरापारकरप्रसारविहारताराकरहारभार ।
नमो नमस्तेऽस्तु नमो नमस्ते यस्मिन्निदं सञ्च विचैति सर्वम् ॥ ९९॥
हिरण्यरूपं च हिरण्यबाहुं हिरण्यनाथं च हिरण्यवर्णम् ।
नमामि भालस्फुरदग्निजालं हिरण्यदं तं शुचिवर्णमारात् ॥ १००॥
सूक्ष्मातिसूक्ष्माद्भुतविग्रहाय महोन्नतात्युन्नतसन्नुताय ।
नमो नमस्ते श्रुतिसन्नुत त्वमणोरणीयान् महतो महीयान् ॥ १०१॥
न केवलं पर्वतमस्तकेषु न केवलं पर्वतमध्यभागे ।
न केवलं तद्गिरिमूलभागे अधःस्विदासीत् उपरिस्विदासीत् ॥ १०२॥
न केवलं पूर्वदिगाश्रयोऽयं न केवलं तिष्ठति दक्षिणायाम् ।
न पश्चिमायामयमुत्तरस्यां व्याप्तः स सर्वाः प्रदिशो दिशश्च ॥ १०३॥
संसाररोगादिकरोगजालं श्रीकालकालाखिललोकपालम् ।
दूरीकुरु त्वं त्वरया दयाब्धे भिषक्तमं त्वां भिषजां शृणोमि ॥ १०४॥
पश्याधुना पश्य भवत्पदाब्जपूजारतं भस्मविभूषिताङ्गम् ।
रुद्राक्षमालाभरणं महेश पश्चात् पुरस्तादधरादुदक्तात् ॥ १०५॥
दयासुधासागरधीरधारातरङ्गसङ्गत्वदपाङ्गसङ्गात् ।
वयं महापापकुलस्वरूपाः त्वत्पादनावा दुरितं तरेम ॥ १०६॥
दैन्याम्बुधाराधरधीरधार पुरापकाराकरमादरेण ।
मां पालयाभीष्टविशिष्टमिष्टमोजिष्ठया दक्षिण एव रातिम् ॥ १०७॥
महेश्वराराधनसाधनानामासादनेनैव नयामि कालम् ।
न कालभीर्देहि ममामितायुः यदि क्षितायुः यदि वा परेतः ॥ १०८॥
कदा मुदा सुन्दरमन्दहासपुरःसरं मां स्मरवैरिरारात् ।
भस्माङ्गमालिङ्गति सोत्तमाङ्गैः स्थिरेभिरङ्गैः पुरुरूप उग्रः ॥ ११०॥
कदा त्रिपुण्ड्राङ्कितभालभागं रुद्राक्षमालाभरणप्रियं च ।
लिङ्गार्चकं द्रक्ष्यति रक्षणाय हिरण्यरूपः स हिरण्यसन्दृक् ॥ १११॥
बिल्वादिसम्पूजितलिङ्गमध्यात् विनिर्गतं बिल्वदलाङ्किताङ्गम् ।
शङ्गं प्रपश्यामि मुहुर्मुदाऽहमादित्यवर्ग तमसः परस्तात् ॥ ११२॥
तमेव देवोत्तममिन्दुमौलिं भजामि भक्त्या भगवन्तमेकम् ।
भवं भवानीपतिमामनन्ति वेदान्तविज्ञानसुनिश्चितार्थाः ॥ ११३॥
तमेव साम्बं सततं भजामि यल्लिङ्गपूजासमवाप्तभाग्यः ।
हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ॥ ११४॥
तमेव विश्वेश्वरमाश्रयामि यो देवदेवो जगदेकनाथः ।
यद्दृष्टिमात्रं श्रियमातनोति श्रीणामुदारो धरुणो रयीणाम् ॥ ११५॥
सुपुत्रपौत्रादिसमृद्धिकामाः कामारिमेकं शरणं प्रपन्नाः ।
यतः समस्तेप्सितदानलोलः हिरण्यगर्भः समवर्तताग्रे ॥ ११६॥
महेश्वरादेव समस्तमेतत् कल्पावसाने पुनरेव जातम् ।
आदावुमालिङ्गितसुन्दराङ्गात् दिवा च नक्तं परितो युवाऽजनि ॥ ११७॥
भो लोचनोरुभ्रमरप्रकृष्टमन्दारकुन्दादिमरन्दधाराम् ।
विहाय गौरीपतिमाश्रिताय स्वादुः किलायं मधुमामुतायम् ॥ ११८॥
क्षीरं घृत शर्करया समेतं गृहाण जिह्वे मधुरप्रिये त्वम् ।
फलानि रम्याणि पुनर्गृहाण स्तुहि श्रुतं गर्तसदं युवानम् ॥ ११९॥
अतः परं कालभयं न मे स्यात् न गर्भवासादिभयानि नूनम् ।
यतो जलैः बिल्वदलैः प्रगेषु यक्ष्वामहे सौमनसाय रुद्रम् ॥ १२०॥
श्रीमन्महादेव दयासमुद्र श्रीमन्महारुद्र ममापराधान् ।
दूरीकुरु त्वं कृपया त्वमीश पितेव पुत्रान् प्रति नो जुषस्व ॥ १२१॥
मामव्यक्तव्यक्तसर्वापराधागाधाम्भोधिक्रूरनक्रादिदष्टम् ।
दृष्ट्वाऽरिष्टानिष्टनाशाय भूयो देवस्त्राता त्रायतामप्रयुच्छन् ॥ १२२॥
यत्पादाब्जं योगिर्भिर्नैव दृष्टं ब्रह्माद्यैर्वा सिद्धसङ्घैरनेकैः ।
यस्य ध्यानात् सर्वदा सर्वसिद्धिः तत्त्वायामि ब्रह्मणा वन्दमानः ॥ १२३॥
नमामि दुण्ढिं मदसिक्तगण्डं हताघषण्डं विधृतोर्ध्वशुण्डम् ।
स्वभक्तविघ्नार्तिहरप्रचण्डं परात्परं यन्महतो महान्तम् ॥ १२४॥
गणाधिपं गण्डतलालिकोटिभिः किरीटकोटिध्वजनिर्जिताम्बुदैः ।
संसेविताङ्घ्रि प्रणमामि सर्वदा कविं कवीनामुपमश्रवस्तमम् ॥ १२५॥
नमो भवान्यै भवतापभीरु स्वभक्तसंरक्षणतत्परायै ।
आनन्ददा हारविहारदा या चतुष्कपर्दा युवतिः सुपेशाः ॥ १२६॥
ताराभिरामामरहारहीरप्रसारधारानिकरोपकाराम् ।
चिराय धीरां भज चित्त गौरीं वचोविदं वाचमुदीरयन्तीम् ॥ १२७॥
नमामि तामेव जगज्जनित्रीं करोति काश्मीररसप्रसारैः ।
आरक्तवर्णी गिरिजा कुचौ या प्रियं सखायं परिषस्वजाना ॥ १२८॥
तामेव वन्दे गिरिराजकन्यां यत्पादुकाराधनतः सुखानि ।
महेश्वराङ्कस्थलसन्निविष्टा विश्वानि देवी भुवनानि चष्ट्या ॥ १२९॥
मन्दारादिस्रग्विशेषालिवृन्दामन्दध्वानाकर्णनासक्तचित्ताम् ।
वन्दे मन्दं भक्तसंरक्षणार्थं वन्दे देवं राधसे चोदयन्तीम् ॥ १३०॥
वन्दे भूयो मन्दुहासोपहासव्यासक्तास्यानन्दसिन्धुं महेशम् ।
क्रीडालोलं कर्तुमभ्युद्यतां तामेषा नेत्री राधसः सूनुतानाम् ॥ १३१॥
भवानि मातस्त्रिजगज्जनित्रि त्वमम्ब बिम्बाधररागभागैः ।
श्रियं प्रदेहि त्वरया प्रियान्नो ययाऽति विश्वा दुरिता तरेम ॥ १३२॥
कस्ते स्तुतिं कर्तुमिहास्ति शक्तः यामिन्दिरा सुन्दरचन्दनाद्यैः ।
समर्चयामास सरस्वती च सरस्वती वा सुभगा ददिर्वसु ॥ १३३॥
फलं -
इति स्तुतो महादेवो वरान् दत्वा तदीप्सितान् ।
पुनर्वरान्तरं दातुमुवाच वचनं मुदा ॥ १३४॥
त्वया कृतं स्तोत्रशिखामणि यः कण्ठे लुठन्तं कुरुतेऽतिभक्त्या ।
तमाशु सम्पञ्जलराशयस्ताः परिष्वजन्ते जनयो यथा पतिम् ॥ १३५॥
इमं स्तवं यः पठति प्रभाते मध्याह्नकालेऽपि महाप्रदोषे ।
तस्य प्रयान्ति प्रहता इवाशु भियं दधाना हृदयेषु शत्रवः ॥ १३६॥
लभन्ते जपन्तः श्रियं कीर्तिकामाः लभन्ते धनं धान्यमश्वादिकं च ।
लभन्ते तथाऽऽयुः प्रवृद्धं प्रवृद्धाः लभन्ते ह पुत्रान् लभन्ते ह पुत्रान् ॥ १३७॥
इति दत्वा वरांस्तस्मै तत्रैव गिरिजापतिः ।
अन्तर्दधे गणेशाद्यैः सह लिङ्गे शिवात्मके ॥ १३८॥
श्रीशैलेश्वरलिङ्गतुल्यममलं लिङ्गं न भूमण्डले
ब्रह्माण्डप्रलयेऽपि तस्य विलयो नास्तीति वेदोक्तयः ।
तस्मात् तद्भजनेन मुक्तिरखिलैः प्राप्या न सा दुर्लभा
तत्पूजानिरतस्य दुर्लभतमं किं वा जगन्मण्डले ॥ १३९॥
॥ इति शिवरहस्यान्तर्गते अगस्त्यकृतवेदपादस्तवः सम्पूर्णः ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ३५। ४-१३९ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 35. 4-139 ..
Proofread by Ruma Dewan