वेदपुरुषप्रोक्तं शिवलिङ्गार्चनोपदेशम्
(शिवरहस्यान्तर्गते उग्राख्ये)
वेदपुरुषः
शिवलिङ्गस्वरूपस्य शिवस्य परमात्मनः ।
कर्तव्यमर्चनं भक्त्या भुक्तिमुक्तिप्रदायकम् ॥ ४२०॥
ब्राह्मण्यमपि सम्प्रप्य यो नार्चयति शङ्करम् ।
स दुर्भग इति ज्ञेयो ब्राह्मणैर्वेदवित्तमैः ॥ ४२१॥
येन तप्तं तपः पूर्वमघघ्नं शङ्करालये ।
तस्यैव भवति श्रद्धा शिवलिङ्गसमर्चने ॥ ४२२॥
यः करिष्यति यत्नेन शिवलिङ्गे शिवार्चनम् ।
स साक्षाच्छङ्करं साम्बं समर्चयति सर्वथा ॥ ४२३॥
लिङ्गे समर्चितः शम्भुर्ददाति वरमीप्सितम् ।
अतः प्रयत्नतो नित्यं कर्तव्यं लिङ्गपूजनम् ॥ ४२४॥
उद्धूलनं त्रिपुण्ड्रं च तथा रुद्राक्षधारणम् ।
कर्तव्यमतियत्नेन लिङ्गपूजापरैर्द्विजैः ॥ ४२५॥
कर्तव्यो लिङ्गपूजान्ते पञ्चाक्षरजपो द्विजैः ।
सहस्रमप्रमादेन रुद्राध्यायजपस्ततः ॥ ४२६॥
रुद्राध्यायेन कर्तव्यं शिवलिङ्गाभिषेचनम् ॥ ४२७॥
बिल्वपत्रः पूजनीयं शिवलिङ्गं प्रयत्नतः ।
अयं मे हस्त इत्याद्यैः सव्यस्ततलेन यः ॥ ४२८॥
उपस्पृशेल्लिङ्गपार्श्वं स पापेभ्यो विमुच्यते ।
प्रदक्षिणाष्टकं कार्यमधिकं तु शिवालये ॥ ४२९॥
कृताञ्जलिपुटैरेव शिवस्मरणपूर्वकम् ।
यानि कानि च पापानि ब्रह्महत्यादिकानि च ॥ ४३०॥
तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे ।
उत्थायोत्थाय साष्टाङ्गान्प्रणामान् विंशदुत्तमान् ॥ ४३१॥
यः करिष्यति यत्नेन स पापेभ्यो विमुच्यते ।
प्रणम्य परमेशाग्रे करताडनपूर्वकम् ॥ ४३२॥
यो नृत्यत्यन्वहं भक्त्या स पापेभ्यो विमुच्यते ।
वृषस्य वृषणं स्पृष्ट्वा वृषशृङ्गान्तरान्मुदा ॥ ४३३॥
यः पश्येल्लिङ्गमैशानं स पापेभ्यो विमुच्यते ।
भुवनत्रयतीर्थानि सर्वाण्यपि निशामुखे ॥ ४३४॥
वृषाण्डं समुपाश्रित्य तिष्ठन्ति मुनिसत्तमाः ।
वृषाण्डं यः स्पृशेत्सायं स तीर्थान्यखिलान्यपि ॥ ४३५॥
स्पृष्टः स्नातश्च सततं पूतश्चात्र न संशयः ।
द्रष्टव्यमैश्वरं लिङ्गं वृषशृङ्गान्तराद् द्विजाः ॥ ४३६॥
वृषेशवृषणं स्पृष्ट्वा शिवस्मरणपूर्वकम् ।
प्रदक्षिणनमस्कारान्कृत्वा दृष्ट्वा च शङ्करम् ॥ ४३७॥
पुनः प्रदक्षिणं कृत्वा शिवलोके महीयते ।
इमानि नित्यं कार्याणि भस्मधारणपूर्वकम् ॥ ४३८॥
शिवलिङ्गार्चनादीनि ब्राह्मणाद्यैः प्रयत्नतः ।
सततं शिवपूजायां चित्तं यस्यानुवर्तते ॥ ४३९॥
स धन्य इति विज्ञेयस्तेन मुक्तिरवाप्यते ।
शिवपूजापि कर्तव्या शिवलिङ्गे निरन्तरम् ॥ ४४०॥
शिवलिङ्गे कृता पूजा सर्वकामप्रदायिका ।
ये पूजयन्ति सततं शिवलिङ्गं शिवात्मकम् ॥ ४४१॥
न तेषां गर्भवासादिदुःखानि द्विजपुङ्गवाः ।
शिवनामामृतं येन पीतं येन मुदा मुहुः ॥ ४४२॥
नैव पास्यत्यसौ मातुः पुनः स्तन्यमितः परम् ।
शिवनामामृते पीते जन्मैव न भविष्यति ॥ ४४३॥
एवं चेत्स्तन्यपानं तु दुर्लभं ह्यस्य सर्वथा ॥ ४४४॥
॥ इति शिवरहस्यान्तर्गते वेदपुरुषप्रोक्तं शिवलिङ्गार्चनोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २४। ४२०-४४४॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 24 . 420-444..
Proofread by Ruma Dewan