वेदपुरुषप्रोक्तं शिवतत्त्वोपदेशम्

वेदपुरुषप्रोक्तं शिवतत्त्वोपदेशम्

(शिवरहस्यान्तर्गते उग्राख्ये) वेदपुरुषः यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥ ३९९॥ नान्यो महेश्वरो ज्ञेयो रूढ एव स शङ्करः । स परः सर्वदेवेषु द्विजा ध्येयः स एव हि ॥ ४००॥ सर्वकर्ता सर्वसाक्षी शिव एव महेश्वरः । सत्यमेतत्पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ ४०१॥ सर्वश्रुतिश्रुतो नित्यः साम्ब एव महेश्वरः । सत्यमेतत्पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ ४०२॥ सर्वश्रुतिश्रुतो नित्योः रुद्र एव महेश्वरः । सत्यमेतत्पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ ४०३॥ सर्वश्रुतिश्रुतो नित्यः सोम एव महेश्वरः । सत्यमेतत्पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ ४०४॥ सर्वश्रुतिश्रुतो नित्यस्त्र्यक्ष एव महेश्वरः । सत्यमेतत्पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ ४०५ सर्वश्रुतिश्रुतो नित्यः स्थाणुरेव महेश्वरः । सत्यमेतत्पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ ४०६॥ सर्वश्रुतिश्रुतो नित्यः शम्भुरेव महेश्वरः । सत्यमेतत्पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ ४०७॥ सर्वश्रुतिश्रुतो नित्यः शर्व एव महेश्वरः । सत्यमेतत्पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ ४०८॥ सर्वश्रुतिश्रुतो नित्यो भव एव महेश्वरः । सत्यमेतत्पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ ४०९॥ सर्वश्रुतिश्रुतो नित्यः उग्र एव महेश्वरः । सत्यमेतत्पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ ४१०॥ प्राग्विश्वाधिको रुद्रो विश्वं विष्ण्वादिकं जगत् । न रुद्रादधिकः कोऽपि तस्मात्स पर उच्यते ॥ ४११॥ यः सोमोऽजनयद्विष्णुं स विष्णोरधिकस्ततः । विष्ण्वादिजनकः सोमः सर्वदेवाधिको ध्रुवम् ॥ ४१२॥ यो वै रुद्रः स भगवानन्यो न भगवान्ध्रुवम् । सत्यमेतत्पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ ४१३॥ ध्येयो मुक्त्यर्थिभिर्नित्यं शिव एकः शिवङ्करः । सत्यमेतत्पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ ४१४॥ निधनेत्यादिभिः कार्यं शिवलिङ्गार्चनं द्विजैः । शिवलिङ्गस्वरूपेण यतस्तिष्ठति शङ्करः ॥ ४१५॥ शिवस्यैवार्चनं कार्यं लिङ्गरूपस्य वैदिकैः । अन्यथा नरकं यान्ति सत्यमेवोच्यते मया ॥ ४१६॥ यो वै रुद्रः स भगवान् स विश्वाधिक उच्यते । महेश्वरः स एवेति ज्ञात्वा पूज्यो महेश्वरः ॥ ४१७॥ महेश्वरमुमाकान्तमनन्यसदृशं प्रभुम् । योऽन्यतुल्यतया वेत्ति स चण्डाल इति स्मृतः ॥ ४१८॥ ईशानः सर्वविद्यानामित्याद्यैर्वचनैर्मया । ध्येयः शङ्कर एवेति निश्चितं बहुधा पुरा ॥ ४१९॥ ॥ इति शिवरहस्यान्तर्गते वेदपुरुषप्रोक्तं शिवतत्त्वोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २४। ३९९-४१९॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 24 . 399-419.. Proofread by Ruma Dewan
% Text title            : Vedapurushaproktam Shivatattvopadesham
% File name             : vedapuruShaproktaMshivatattvopadesham.itx
% itxtitle              : shivatattvopadesham vedapuruShaproktaM (shivarahasyAntargatam)
% engtitle              : vedapuruShaproktaM shivatattvopadesham
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 24| 399-419||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org