वेनकृतं शिवस्तोत्रम्

वेनकृतं शिवस्तोत्रम्

(स्थाणु (स्थाण्वेश्वर लिङ्ग)) वेन उवाच । प्रपद्ये देवमीशानं त्वामजं चन्द्रभूषणम् । महादेवं महात्मानं विश्वस्य जगतः पतिम् ॥ ६३॥ नमस्ते देवदेवेश सर्वशत्रुनिषूदन । देवेश बलिविष्टम्भ देवदैत्यैश्च पूजित ॥ ६४॥ विरूपाक्ष सहस्राक्ष त्र्यक्ष यक्षेश्वरप्रिय । सर्वतः पाणिपादान्त सर्वतोऽक्षिशिरोमुख ॥ ६५॥ सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठसि । शङ्कुकर्ण महाकर्ण कुम्भकर्णार्णवालय ॥ ६६॥ गजेन्द्रकर्ण गोकर्ण पाणिकर्ण नमोऽस्तु ते । शतजिह्व शतावर्त शतोदर शतानन ॥ ६७॥ गायन्ति त्वां गायत्रिणो ह्यर्चयन्त्यर्क्कमर्चिणः । ब्रह्माणं त्वा शतक्रतो उद्वंशमिव मेनिरे ॥ ६८॥ मूर्तौ हि ते महामूर्ते समुद्राम्बुधरास्तथा । देवताः सर्व एवात्र गोष्ठे गाव इवासते ॥ ६९॥ शरीरे तव पश्यामि सोममग्निं जलेश्वरम् । नारायणं तथा सूर्यं ब्रह्माणं च बृहस्पतिम् ॥ ७०॥ भगवान् कारणं कार्यं क्रियाकारणमेव तत् । प्रभवः प्रलयश्चैव सदसच्चापि दैवतम् ॥ ७१॥ नमो भवाय शर्वाय वरदायोग्ररूपिणे । अन्धकासुरहन्त्रे च पशूनां पतये नमः ॥ ७२॥ त्रिजटाय त्रिशीर्षाय त्रिशूलासक्तपाणये । त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्न नमोऽस्तु ते ॥ ७३॥ नमो मुण्डाय चण्डाय अण्डायोत्पत्तिहेतवे । डिण्डिमासक्तहस्ताय डिण्डिमुण्डाय ते नमः ॥ ७४॥ नमोर्ध्वकेशदंष्ट्राय शुष्काय विकृताय च । धूम्रलोहितकृष्णाय नीलग्रीवाय ते नमः ॥ ७५॥ नमोऽस्त्वप्रतिरूपाय विरूपाय शिवाय च । सूर्यमालाय सूर्याय स्वरूपध्वजमालिने ॥ ७६॥ नमो मानातिमानाय नमः पटुतराय ते । नमो गणेन्द्र नाथाय वृषस्कन्धाय धन्विने ॥ ७७॥ सङ्क्रन्दनाय चण्डाय पर्णधारपुटाय च । नमो हिरण्यवर्णाय नमः कनकवर्चसे ॥ ७८॥ नमः स्तुताय स्तुत्याय स्तुतिस्थाय नमोऽस्तु ते । सर्वाय सर्वभक्षाय सर्वभूतशरीरिणे ॥ ७९॥ नमो होत्रे च हन्त्रे च सितोदग्रपताकिने । नमो नम्याय नम्राय नमः कटकटाय च ॥ ८०॥ नमोऽस्तु कृशनाशाय शयितायोत्थिताय च । स्थिताय धावमानाय मुण्डाय कुटिलाय च ॥ ८१॥ नमो नर्तनशीलाय लयवादित्रशालिने । नाट्योपहारलुब्धाय मुखवादित्रशालिने ॥ ८२॥ नमो ज्योष्ठाय श्रेष्ठाय बलातिबलघातिने । कालनाशाय कालाय संसारक्षयरूपिणे ॥ ८३॥ हिमवद्दुहितुः कान्त भैरवाय नमोऽस्तु ते । उग्राय च नमो नित्यं नमोऽस्तु दशबाहवे ॥ ८४॥ चितिभस्मप्रियायैव कपालासक्तपाणये । विभीषणाय भीष्माय भीमव्रतधराय च ॥ ८५॥ नमो विकृतवक्त्राय नमः पूतोग्रदृष्टये । पक्वाममांसलुब्धाय तुम्बिवीणाप्रियाय च ॥ ८६॥ नमो वृषाङ्कवृक्षाय गोवृषाभिरुते नमः । कटङ्कटाय भीमाय नमः परपराय च ॥ ८७॥ नमः सर्ववरिष्ठाय वराय वरदायिने । नमो विरक्तरक्ताय भावनायाक्षमालिने ॥ ८८॥ विभेदभेदभिन्नाय छायायै तपनाय च । अघोरघोररूपाय घोरघोरतराय च ॥ ८९॥ नमः शिवाय शान्ताय नमः शान्ततमाय च । बहुनेत्रकपालाय एकमूर्ते नमोऽस्तु ते ॥ ९०॥ नमः क्षुद्राय लुब्धाय यज्ञभागप्रियाय च । पञ्चालाय सिताङ्गाय नमो यमनियामिने ॥ ९१॥ नमश्चित्रोरुघण्टाय घण्टाघण्टनिघण्टिने । सहस्रशतघण्टाय घण्टामालाविभूषिणे ॥ ९२॥ प्राणसङ्घट्टगर्वाय नमः किलिकिलिप्रिय । हुंहुङ्काराय पाराय हुंहुङ्कारप्रियाय च ॥ ९३॥ नमः समसमे नित्यं गृहवृक्षनिकेतिने । गर्भमांसश‍ृगालाय तारकाय तराय च ॥ ९४॥ नमो यज्ञाय यजिने हुताय प्रहुताय च । यज्ञवाहाय हव्याय तप्याय तपनाय च ॥ ९५॥ नमस्तु पयसे तुभ्यं तुण्डानां पतये नमः । अन्नदायान्नपतये नमो नानान्नभोजिने ॥ ९६॥ नमः सहस्रशीर्षाय सहस्रचरणाय च । सहस्रोद्यतशूलाय सहस्राभरणाय च ॥ ९७॥ बालानुचरगोप्त्रे च बाललीलाविलासिने । नमो बालाय वृद्धाय क्षुब्धाय क्षोभणाय च ॥ ९८॥ गङ्गालुलितकेशाय मुञ्जकेशाय वै नमः । नमः षट्कर्मतुष्टाय त्रिकर्मनिरताय च ॥ ९९॥ नग्नप्राणाय चण्डाय कृशाय स्फोटनाय च । धर्मार्थकाममोक्षाणां कथ्याय कथनाय च ॥ १००॥ साङ्ख्याय साङ्ख्यमुख्याय साङ्ख्ययोगमुखाय च । नमो विरथरथ्याय चतुष्पथरथाय च ॥ १०१॥ कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने । वक्त्रसन्धानकेशाय हरिकेश नमोऽस्तु ते । त्र्यम्बिकाम्बिकनाथाय व्यक्ताव्यक्ताय वेधसे ॥ १०२॥ कामकामदकामघ्न तृप्तातृप्तविचारिणे । नमः सर्वद पापघ्न कल्पसङ्ख्याविचारिणे ॥ १०३॥ महासत्त्व महाबाहो महाबल नमोऽस्तु ते । महामेघ महाप्रख्य महाकाल महाद्युते ॥ १०४॥ मेघावर्त युगावर्त चन्द्रार्कपतये नमः । त्वमन्नमन्नभोक्ता च पक्वभुक् पावनोत्तमः ॥ १०५॥ जरायुजाण्डजाश्चैव स्वेदजोद्भिदजाश्च ये । त्वमेव देवदेवेश भूतग्रामश्चतुर्विधः ॥ १०६॥ स्रष्टा चराचरस्यास्य पाता हन्ता तथैव च । त्वामाहुर्ब्रह्म विद्वांसो ब्रह्म ब्रह्मविदां गतिम् ॥ १०७॥ मनसः परमज्योतिस्त्वं वायुर्ज्योतिषामपि । हंसवृक्षे मधुकरमाहुस्त्वां ब्रह्मवादिनः ॥ १०८॥ यजुर्मयो ऋङ्मयस्त्वामाहुः साममयस्तथा । पठ्यसे स्तुतिभिर्नित्यं वेदोपनिषदां गणैः ॥ १०९॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश्च ये । त्वमेव मेघसङ्घाश्च विद्युतोऽशनिगर्जितम् ॥ ११०॥ संवत्सरस्त्वमृतवो मासो मासार्धमेव च । युगा निमेषाः काष्ठाश्च नक्षत्राणि ग्रहाः कलाः ॥ १११॥ वृक्षाणां ककुभोऽसि त्वं गिरीणां हिमवान् गिरिः । व्याघ्रो मृगाणां पततां तार्क्ष्योऽनन्तश्च भोगिनाम् ॥ ११२॥ क्षिरोदोऽस्युदधीनां च यन्त्राणां धनुरेव च । वज्रं प्रहरणानां च व्रतानां सत्यमेव च ॥ ११३॥ त्वमेव द्वेष इच्छा च रागो मोहः क्षमाक्षमे । व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ ॥ ११४॥ त्वं शरी त्वं गदी चापी खट्वाङ्गी च शरासनी । छेत्ता मेत्ता प्रहर्तासि मन्ता नेता सनातनः ॥ ११५॥ दशलक्षणसंयुक्तो धर्मोऽर्थः काम एव च । समुद्राः सरितो गङ्गा पर्वताश्च सरांसि च ॥ ११६॥ लतावल्ल्यस्तृणौषध्यः पशवो मृगपक्षिणः । द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः ॥ ११७॥ आदिश्चान्तश्च वेदानां गायत्री प्रणवस्तथा । लोहितो हरितो नीलः कृष्णः पीतः सितस्तथा ॥ ११८॥ कद्रुश्च कपिलश्चैव कपोतो मेचकस्तथा । सवर्णश्चाप्यवर्णाश्च कर्ता हर्ता त्वमेव हि ॥ ११९॥ त्वमिन्द्रश्च यमश्चैव वरुणो धनदोऽनिलः । उपप्लवश्चित्रभानुः स्वर्भानुर्भानुरेव च ॥ १२०॥ शिक्षाहौत्रं त्रिसौपर्णं यजुषां शतरुद्रियम् । पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् ॥ १२१॥ तिन्दुको गिरिजो वृक्षो मुद्गं चाखिलजीवनम् । प्राणाः सत्त्वं रजश्चैव तमश्च प्रतिपत्पतिः ॥ १२२॥ प्राणोऽपानः समानश्च उदानो व्यान एव च । उन्मेषश्च निमेषश्च क्षुतं जृम्भितमेव च ॥ १२३॥ लोहितान्तर्गतो दृष्टिर्महावक्त्रो महोदरः । शुचिरोमा हरिश्मश्रुरूर्ध्वकेशश्चलाचलः ॥ १२४॥ गीतवादित्रनृत्यज्ञो गीतवादित्रकप्रियः । मत्स्यो जालो जलौकाश्च कालः केलिकला कलिः ॥ १२५॥ अकालश्च विकालश्च दुष्कालः काल एव च । मृत्युश्च मृत्युकर्ता च यक्षो यक्षभयङ्करः ॥ १२६॥ संवर्तकोऽन्तकश्चैव संवर्तकबलाहकः । घण्टो घण्टी महाघण्टी चिरी माली च मातलिः ॥ १२७॥ ब्रह्मकालयमाग्नीनां दण्डी मुण्डी त्रिमुण्डधृक् । चतुर्युगश्चतुर्वेदश्चातुर्होत्रप्रवर्तकः ॥ १२८॥ चातुराश्रम्यनेता च चातुर्वर्ण्यकरस्तथा । नित्यमक्षप्रियो धूर्तो गणाध्यक्षो गणाधिपः ॥ १२९॥ रक्तमाल्याम्बरधरो गिरिको गिरिकप्रियः । शिल्पं च शिल्पिनां श्रेष्ठः सर्वशिल्पप्रवर्तकः ॥ १३०॥ भगनेत्राङ्कुशश्चण्डः पूष्णो दन्तविनाशनः । स्वाहा स्वधा वषट्कारो नमस्कारो नमो नमः ॥ १३१॥ गूढव्रतो गुह्यतपास्तारकास्तारकामयः । धाता विधाता सन्धाता पृथिव्या धरणोऽपरः ॥ १३२॥ ब्रह्मा तपश्च सत्यं च व्रतचर्यमथार्जवम् । भूतात्मा भूतकृद्भूतिर्भूतभव्यभवोद्भवः ॥ १३३॥ भूर्भुवः स्वरृतं चैव ध्रुवो दान्तो महेश्वरः । दीक्षितोऽदीक्षितः कान्तो दुर्दान्तो दान्तसम्भवः ॥ १३४॥ चन्द्रावर्तो युगावर्तः संवर्तकप्रवर्तकः । बिन्दुः कामो ह्यणुः स्थूलः कर्णिकारस्रजप्रियः ॥ १३५॥ नन्दीमुखो भीममुखः सुमुखो दुर्मुखस्तथा । हिरण्यगर्भः शकुनिर्महोरगपतिर्विराट् ॥ १३६॥ अधर्महा महादेवो दण्डधारो गणोत्कटः । गोनर्दो गोप्रतारश्च गोवृषेश्वरवाहनः ॥ १३७॥ त्रैलोक्यगोप्ता गोविन्दो गोमार्गो मार्ग एव च । स्थिरः श्रेष्ठश्च स्थाणुश्च विक्रोशः क्रोश एव च ॥ १३८॥ दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः । दुर्द्धर्षो दुष्प्रकाशश्च दुर्दुर्शो दुर्जयो जयः ॥ १३९॥ शशाङ्कानलशीतोष्णः क्षुत्तृष्णा च निरामयः । आधयो व्याधयश्चैव व्याधिहा व्याधिनाशनः ॥ १४०॥ समूहश्च समूहस्य हन्ता देवः सनातनः । शिखण्डी पुण्डरीकाक्षः पुण्डरीकवनालयः ॥ १४१॥ त्र्यम्बको दण्डधारश्च उग्रदंष्ट्रः कुलान्तकः । विषापहः सुरश्रेष्ठः सोमपास्त्वं मरुत्पते । अमृताशी जगन्नाथो देवदेवो गणेश्वरः ॥ १४२॥ मधुश्च्युतानां मधुपो ब्रह्मवाक् त्वं घृतच्युतः । सर्वलोकस्य भोक्ता त्वं सर्वलोकपितामहः ॥ १४३॥ हिरण्यरेताः पुरुषस्त्वमेकः त्वं स्त्री पुमांस्त्वं हि नपुंसकं च । बालो युवा स्थविरो देवदंष्ट्रा त्वन्नो गिरिर्विश्वकृद्विश्वहर्ता ॥ १४४॥ त्वं वै धाता विश्वकृतां वरेण्यस्त्वां पूजयन्ति प्रणताः सदैव । चन्द्रादित्यौ चक्षुषी ते भवान् हि त्वमेव चाग्निः प्रपितामहश्च । आराध्य त्वां सरस्वतीं वाग्लभन्ते अहोरात्रे निमिषोन्मेषकर्ता ॥ १४५॥ न ब्रह्मा न च गोविन्दः पौराणा ऋषयो न ते । माहात्म्यं वेदितुं शक्ता याथातथ्येन शङ्कर ॥ १४६॥ पुंसां शतसहस्राणि यत्समावृत्य तिष्ठति । महतस्तमसः पारे गोप्ता मन्ता भवान् सदा ॥ १४७॥ यं विनिद्रा जितश्वासाः सत्त्वस्थाः संयतेन्द्रियाः । ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥ १४८॥ या मूर्तयश्च सूक्ष्मास्ते न शक्या या निदर्शितुम् । ताभिर्मां सततं रक्ष पिता पुत्रमिवौरसम् ॥ १४९॥ रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु ते । भक्तानुकम्पी भगवान् भक्तश्चाहं सदा त्वयि ॥ १५०॥ जटिने दण्डिने नित्यं लम्बोदरशरीरिणे । कमण्डलुनिषङ्गाय तस्मै रुद्रात्मने नमः ॥ १५१॥ यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु । कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥ १५२॥ सम्भक्ष्य सर्वभूतानि युगान्ते पर्युपस्थिते । यः शेते जलमध्यस्थस्तं प्रपद्येऽम्बुशायिनम् ॥ १५३॥ प्रविश्य वदनं राहोर्यः सोमं पिबते निशि । ग्रसत्यर्कं च स्वर्भानू रक्षितस्तव तेजसा ॥ १५४॥ ये चात्र पतिता गर्भा रुद्र गन्धस्य रक्षणे । नमस्तेऽस्तु स्वधा स्वाहा प्राप्नुवन्ति तदद्भुते ॥ १५५॥ येऽङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् । रक्षन्तु ते हि मां नित्यं ते मामाप्याययन्तु वै ॥ १५६॥ ये नदीषु समुद्रेषु पर्वतेषु गुहासु च । वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च ॥ १५७॥ चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च । हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च ॥ १५८॥ ये च पञ्चसु भूतेषु दिशासु विदिशासु च । चन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु ॥ १५९॥ रसातलगता ये च ये च तस्मात् परं गताः । नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यश्च नित्यशः ॥ १६०॥ येषां न विद्यते सङ्ख्या प्रमाणं रूपमेव च । असङ्ख्येयगणा रुद्रा नमस्तेभ्योऽस्तु नित्यशः ॥ १६१॥ प्रसीद मम भद्रं ते तव भावगतस्य च । त्वयि मे हृदयं देव त्वयि बुद्धिर्मतिस्त्वयि ॥ १६२॥ स्तुत्वैवं स महादेवं विरराम द्विजोत्तमः ॥ १६३॥ इति श्रीवामनपुराणे सप्तचत्वारिंशत्तमाध्यायान्तर्गतं वेनकृतं शिवस्तोत्रं समाप्तम् । वामनपुराण । अध्याय ४७/६३-१६२॥ vAmanapurANa . adhyAya 47/63-162.. Proofread by PSA Easwaran
% Text title            : Venakritam Shiva Stotram
% File name             : venakRRitaMshivastotram.itx
% itxtitle              : shivastotram (venakRitaM vAmanapurANAntargatam prapadye devamIshAnaM tvAmajaM chandrabhUShaNam)
% engtitle              : venakRRitaM shivastotram
% Category              : shiva, vAmanapurANa, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : vAmanapurANa | adhyAya 47/63-162||
% Indexextra            : (Scans 1, 2, 3, 4, Hindi 1, 2, English, Marathi)
% Latest update         : September 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org