विष्णवादिप्रोक्तं शिवाभिधानश्रवणमहिमानुवर्णनम्

विष्णवादिप्रोक्तं शिवाभिधानश्रवणमहिमानुवर्णनम्

विष्णवादिप्रोक्तं महापातादिमरणकाले शिवाभिधानश्रवणमहिमानुवर्णनम् विष्णुः - शिवाभिधानं मरणक्षणे श्रुतं त्वया शिवानुग्रहपात्रभूतम् । मन्ये भवन्तं भगवन्तमेव त्वया न तुल्यो भुवनत्रयेऽपि ॥ १६०॥ स्वच्छन्दवृत्त्या स्थितमेव पूर्व तपः कृतं नोग्रमघापनुत्त्यै । शिवाभिधानश्रवणेन सद्यो मुक्तोऽसि संसारमहाम्बुराशेः ॥ १६१॥ कुर्वन्ति केचित् गिरिकन्दरेषु दारान् विहायापि तथा कुमारान् । न तैरिदं प्राप्यमनन्तरायं शिवाभिधानं मरणक्षणेषु ॥ १६२॥ अहो कृतार्थोऽसि शिवाभिधानं श्रुतं यतो मोक्षविधानदक्षम् । साक्षाद्विरूपाक्षकृपाश्रयेषु भालाक्षरूपोऽपि भविष्यसि त्वम् ॥ १६३॥ अनायासेनेदं खलु फलमुमाकान्तकृपया त्वया प्राप्तं नूनं मरणसमये शाम्भवमिदम् । श्रुतं नामानन्तामयविलयहेतुः शिवकृपा कथं त्वय्यप्यासीदमितसुकृतानां फलमिदम् ॥ १६४॥ मनुष्याणां तावन्मरणसमये रोदनवैः परं कालो याति प्रणयसहितानामपि दया । महादेवाख्यायाः सकृदपि न चोच्चारणमतिः वृथा हाहाहाहेत्यपि समयनाशोद्यतधियः ॥ १६५॥ मरणावसरेषु कण्ठभागे कफपित्तप्रभवे भवोद्भवस्य । स्मरणं शिवनामकीर्तनं वा न भवत्येव कदाऽपि पापयोगात् ॥ १६६॥ दारान् कुमारानपि वीक्ष्य तावन्मुमूर्षुरप्यादरतोऽश्रुपूर्णः । रुदत्ययं न स्मरति स्मरारिं न शाम्भवं नाम श‍ृणोति दुष्टः ॥ १६७॥ अन्तकालसमये महेश्वराराधने भसितभूषणेऽपि वा । जायते न सहसा मतिस्ततो याति घोरनरकालयं नरः ॥ १६८॥ अन्तकालविषये सदाशिवध्यानमात्रमपि मुक्तिसाधनम् । तत्कथञ्चिदपि जायते नृणां शङ्करो यदि पुरा समर्चितः ॥ १६९॥ अन्तकालविषये शिवस्मृतिः भस्मधारणमघौघनाशने । जायते खलु कथञ्चिदुच्चकैः नाम शाङ्करमपि श्रुतं भवेत् ॥ १७०॥ भस्मोद्धूलितविग्रहोऽतिविपुलां रुद्राक्षमालां वहन् कण्ठे कर्णयुगेऽपि शङ्करपदान्यप्युचरन्नादरात् । स्पृष्ट्वा लिङ्गमनुत्तमं मुहुरपि स्पृष्ट्वा च बिल्वीदलैः सम्पूज्याशु समर्पणं च कुरुते शङ्गाय शाङ्गो जनः ॥ १७१॥ शम्भो भर्ग भवेन्दुशेखर महादेवेति यः संवदन् रुद्राक्षामलभूतिभूपिततनुः कृत्वा च लिङ्गार्चनम् । शङ्गायाशु समर्पणं च कुरुते शाङ्गः स शङ्गो भवेत् तत्पादाम्बुजरेणुभिर्मम शिरः पूतं भवत्यन्वहम् ॥ १७२॥ महाप्रयाणेषु महेशनाम श्रुतं स्मृतं वा यदि पुण्यवेगात् । तदा स मुक्तो भवतीति मन्ये नान्यस्य मुक्तिः प्रलयेऽपि सत्यम् ॥ १७३॥ शपामि शिवपादयोः शिवपदस्मृतेः केवलं विमुक्तिरिति सा स्मृतिर्भसितभूषणानां परम् । भविष्यति भवान्वयो न भवतीति मन्ये पुनः पुनः पुनरहं भुजद्वयमिदं समुद्धृत्य तु ॥ १७४॥ यमदूताः अनेन मरणक्षणे शिवपदं श्रुतं देवताः प्रभूतबहुपुण्यवानयमभूत् शिवानुग्रहात् । शिवान्तिकमयं सुराः सपदि नेय एवादरात् विमानवरमाश्रितः सुरगणादिसेव्यो मुदा ॥ १७८॥ अपारकल्पेष्वपि येन तप्तं तपोऽतिघोरं बहुवह्निमध्ये । तस्यापि तावन्न महाप्रयाणे शिवाभिधानश्रवणावकाशः ॥ १७९॥ अहो कृतार्थाः कतिचिन्महेशप्रसादपात्रत्वमुपेत्य धन्याः । कैलासवासं समवाप्नुवन्ति पूज्याः सुराणामपि सर्वथाऽपि ॥ १८०॥ धनं परमिदं सुराः शिवपदं परं सम्पदां विपत्कुलविनाशकं सकलपापसंहारकम् । स्मृतं सपदि पातकं हरति संश्रुतं वा मुदा ददाति शिवसन्निधिं निधिमपि प्रदत्वा मुहुः ॥ १८१॥ अपारजननामयं हरति मृत्युवातादिकं श्रुतं शिवपदं मुदा शिवपदाम्बुजानुग्रहात् । इतः किमधिकं धनं भुवि निधिप्रदानक्षमं विमोक्षदमतिप्रियं शिवपदार्चकानां सुराः ॥ १८२॥ अतः परमिहाधुना खलु तथा विलम्बस्तदा विनेय इति निश्चये सति कथानुवादैरलम् । भवद्भिरतिपूजितो भवतु सोऽयमत्यादरात् इति प्रियतमैस्तदा सुरगणैः समाराधितः ॥ १८३॥ श्रीशङ्करः - ततः परं पुष्पकरत्नसंस्थं तमानयामासुरिहादरेण । स मुक्त एवात्र शिवाभिधानमाहात्म्यमेतत् श्रुतमद्य गौरि ॥ १८४॥ शिवनामसुधाशनेन धन्याः कतिचित् ते गिरिजे ममापि मान्याः । इदमादरतोऽतिगोपनीयं मणिरेवायमहो महान् स शैवः ॥ १८५॥ नन्दिकेशः - इति शङ्कवाग्विलासलोला कमलापूजितपादपद्ममाला । शिवनामधाप्रवाहलीला महिला कापि शिवस्य सा सुशीला ॥ १८६॥ तस्मादन्यं मुक्तिबीजं न विद्मो लोके मुक्तिः शङ्करानुग्रहेण । तस्मादेकः शङ्करः शङ्करो मे सेव्यः सेव्यः सर्वदा सर्वदाऽपि ॥ १८७॥ ॥ इति शिवरहस्यान्तर्गते विष्णवादिप्रोक्तं महापातादिमरणकाले शिवाभिधानश्रवणमहिमानुवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः २०। वावृत्तश्लोकाः ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 20. vAvRRittashlokAH .. Proofread by Ruma Dewan
% Text title            : Vishnavadiproktam Mahapatadimaranakale Shivabhidhanashravanamahimanuvarnanam
% File name             : viShNavAdiproktaMshivAbhidhAnashravaNamahimAnuvarNanam.itx
% itxtitle              : shivAbhidhAnashravaNamahimAnuvarNanam viShNavAdiproktam (shivarahasyAntargatam)
% engtitle              : viShNavAdiproktaM shivAbhidhAnashravaNamahimAnuvarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 20 | vAvRittashlokAH ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org