विष्णवादिप्रोक्तं शिवाभिधानश्रवणमहिमानुवर्णनम्
विष्णवादिप्रोक्तं महापातादिमरणकाले शिवाभिधानश्रवणमहिमानुवर्णनम्
विष्णुः -
शिवाभिधानं मरणक्षणे श्रुतं त्वया शिवानुग्रहपात्रभूतम् ।
मन्ये भवन्तं भगवन्तमेव त्वया न तुल्यो भुवनत्रयेऽपि ॥ १६०॥
स्वच्छन्दवृत्त्या स्थितमेव पूर्व तपः कृतं नोग्रमघापनुत्त्यै ।
शिवाभिधानश्रवणेन सद्यो मुक्तोऽसि संसारमहाम्बुराशेः ॥ १६१॥
कुर्वन्ति केचित् गिरिकन्दरेषु दारान् विहायापि तथा कुमारान् ।
न तैरिदं प्राप्यमनन्तरायं शिवाभिधानं मरणक्षणेषु ॥ १६२॥
अहो कृतार्थोऽसि शिवाभिधानं श्रुतं यतो मोक्षविधानदक्षम् ।
साक्षाद्विरूपाक्षकृपाश्रयेषु भालाक्षरूपोऽपि भविष्यसि त्वम् ॥ १६३॥
अनायासेनेदं खलु फलमुमाकान्तकृपया
त्वया प्राप्तं नूनं मरणसमये शाम्भवमिदम् ।
श्रुतं नामानन्तामयविलयहेतुः शिवकृपा
कथं त्वय्यप्यासीदमितसुकृतानां फलमिदम् ॥ १६४॥
मनुष्याणां तावन्मरणसमये रोदनवैः परं
कालो याति प्रणयसहितानामपि दया ।
महादेवाख्यायाः सकृदपि न चोच्चारणमतिः
वृथा हाहाहाहेत्यपि समयनाशोद्यतधियः ॥ १६५॥
मरणावसरेषु कण्ठभागे कफपित्तप्रभवे भवोद्भवस्य ।
स्मरणं शिवनामकीर्तनं वा न भवत्येव कदाऽपि पापयोगात् ॥ १६६॥
दारान् कुमारानपि वीक्ष्य तावन्मुमूर्षुरप्यादरतोऽश्रुपूर्णः ।
रुदत्ययं न स्मरति स्मरारिं न शाम्भवं नाम शृणोति दुष्टः ॥ १६७॥
अन्तकालसमये महेश्वराराधने भसितभूषणेऽपि वा ।
जायते न सहसा मतिस्ततो याति घोरनरकालयं नरः ॥ १६८॥
अन्तकालविषये सदाशिवध्यानमात्रमपि मुक्तिसाधनम् ।
तत्कथञ्चिदपि जायते नृणां शङ्करो यदि पुरा समर्चितः ॥ १६९॥
अन्तकालविषये शिवस्मृतिः भस्मधारणमघौघनाशने ।
जायते खलु कथञ्चिदुच्चकैः नाम शाङ्करमपि श्रुतं भवेत् ॥ १७०॥
भस्मोद्धूलितविग्रहोऽतिविपुलां रुद्राक्षमालां वहन्
कण्ठे कर्णयुगेऽपि शङ्करपदान्यप्युचरन्नादरात् ।
स्पृष्ट्वा लिङ्गमनुत्तमं मुहुरपि स्पृष्ट्वा च बिल्वीदलैः
सम्पूज्याशु समर्पणं च कुरुते शङ्गाय शाङ्गो जनः ॥ १७१॥
शम्भो भर्ग भवेन्दुशेखर महादेवेति यः संवदन्
रुद्राक्षामलभूतिभूपिततनुः कृत्वा च लिङ्गार्चनम् ।
शङ्गायाशु समर्पणं च कुरुते शाङ्गः स शङ्गो भवेत्
तत्पादाम्बुजरेणुभिर्मम शिरः पूतं भवत्यन्वहम् ॥ १७२॥
महाप्रयाणेषु महेशनाम श्रुतं स्मृतं वा यदि पुण्यवेगात् ।
तदा स मुक्तो भवतीति मन्ये नान्यस्य मुक्तिः प्रलयेऽपि सत्यम् ॥ १७३॥
शपामि शिवपादयोः शिवपदस्मृतेः केवलं विमुक्तिरिति सा स्मृतिर्भसितभूषणानां परम् ।
भविष्यति भवान्वयो न भवतीति मन्ये पुनः पुनः पुनरहं भुजद्वयमिदं समुद्धृत्य तु ॥ १७४॥
यमदूताः
अनेन मरणक्षणे शिवपदं श्रुतं देवताः प्रभूतबहुपुण्यवानयमभूत् शिवानुग्रहात् ।
शिवान्तिकमयं सुराः सपदि नेय एवादरात् विमानवरमाश्रितः सुरगणादिसेव्यो मुदा ॥ १७८॥
अपारकल्पेष्वपि येन तप्तं तपोऽतिघोरं बहुवह्निमध्ये ।
तस्यापि तावन्न महाप्रयाणे शिवाभिधानश्रवणावकाशः ॥ १७९॥
अहो कृतार्थाः कतिचिन्महेशप्रसादपात्रत्वमुपेत्य धन्याः ।
कैलासवासं समवाप्नुवन्ति पूज्याः सुराणामपि सर्वथाऽपि ॥ १८०॥
धनं परमिदं सुराः शिवपदं परं सम्पदां
विपत्कुलविनाशकं सकलपापसंहारकम् ।
स्मृतं सपदि पातकं हरति संश्रुतं वा
मुदा ददाति शिवसन्निधिं निधिमपि प्रदत्वा मुहुः ॥ १८१॥
अपारजननामयं हरति मृत्युवातादिकं
श्रुतं शिवपदं मुदा शिवपदाम्बुजानुग्रहात् ।
इतः किमधिकं धनं भुवि निधिप्रदानक्षमं
विमोक्षदमतिप्रियं शिवपदार्चकानां सुराः ॥ १८२॥
अतः परमिहाधुना खलु तथा विलम्बस्तदा विनेय
इति निश्चये सति कथानुवादैरलम् ।
भवद्भिरतिपूजितो भवतु सोऽयमत्यादरात्
इति प्रियतमैस्तदा सुरगणैः समाराधितः ॥ १८३॥
श्रीशङ्करः -
ततः परं पुष्पकरत्नसंस्थं तमानयामासुरिहादरेण ।
स मुक्त एवात्र शिवाभिधानमाहात्म्यमेतत् श्रुतमद्य गौरि ॥ १८४॥
शिवनामसुधाशनेन धन्याः कतिचित् ते गिरिजे ममापि मान्याः ।
इदमादरतोऽतिगोपनीयं मणिरेवायमहो महान् स शैवः ॥ १८५॥
नन्दिकेशः -
इति शङ्कवाग्विलासलोला कमलापूजितपादपद्ममाला ।
शिवनामधाप्रवाहलीला महिला कापि शिवस्य सा सुशीला ॥ १८६॥
तस्मादन्यं मुक्तिबीजं न विद्मो लोके मुक्तिः शङ्करानुग्रहेण ।
तस्मादेकः शङ्करः शङ्करो मे सेव्यः सेव्यः सर्वदा सर्वदाऽपि ॥ १८७॥
॥ इति शिवरहस्यान्तर्गते विष्णवादिप्रोक्तं महापातादिमरणकाले शिवाभिधानश्रवणमहिमानुवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः २०। वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 20. vAvRRittashlokAH ..
Proofread by Ruma Dewan