विष्णुकृतं ४ शिवस्तोत्रम्
विष्णुरुवाच ।
जय पृथ्वीमयाकार जय चापोमयाकृते ।
जय प्रभाकराकार जयामृतकराकृते ॥ ८॥
जय वैश्वानराकार जय गन्धवहाकृते ।
जय होतृमयाकार जयाकाशमयाकृते ॥ ९॥
रक्ष मां त्रिगुणातीत रक्ष मां कालविग्रह ।
रक्ष मामक्षयैश्वर्य रक्ष मां करुणाकर ॥ ३.२.१४.१०॥
स्रष्टा त्वं सर्वजगतां रक्षिता सर्वदेहिनाम् ।
हर्ता च सर्वभूतानां त्वां विनैवास्ति कोऽपरः ॥ ११॥
अणूनामप्यणीयांस्त्वं महांस्त्वं महतामपि ।
अन्तर्बहिस्त्वमेवैतज्जगदाक्रम्य वर्तसे ॥ १२॥
निगमास्तव निश्वासा विश्वं ते शिल्पवैभवम् ।
स त्वं त्वदीय एवासि ज्ञानमात्मा तव प्रभो ॥ १३॥
अमरा दानवा दैत्याः सिद्धा विद्याधरा नराः ।
प्राणिनः पक्षिणः शैलाः शिखिनोऽपि त्वमेव हि ॥ १४॥
स्वर्गस्त्वमपवर्गस्त्वं त्वमोङ्कारस्त्वमध्वरः ।
त्वं योगस्त्वं परा संवित्किं त्वं न भवसीश्वर ॥ १५॥
त्वमादिर्मध्यमन्तश्च तस्थुषां जग्मुषामपि ।
कालस्वरूपतां प्राप्य कलयस्यखिलं जगत् ॥ १६॥
परेशः परतः शास्ता सर्वानुग्राहकः शिवः ।
स एष मे कथङ्कारं साक्षाद्भवति धूर्जटिः ॥ १७॥
यं दृष्ट्वा शरणं प्राप्तो निःश्रेयसमवाप्नुयात् ।
अथ वा स्तौमि तद्धाम जातमात्रं यथामति ॥ १८॥
तच्छ्रुत्वैष कृपां कुर्यादवश्यं सर्वतः श्रुतिः ।
इति निश्चित्य वैकुण्ठः स्तोतुं समुपचक्रमे ॥ १९॥
तमेव तैजसं स्तम्भं प्रणम्य परमेश्वरम् ।
आदिमध्यान्तरहितं मत्वा तं जगदीश्वरम् ।
हठात्तेन विरञ्चेन वार्यमाणोऽपि सस्मितम् ॥ ३.२.१४.२०॥
श्रीविष्णुरुवाच ।
जय देव महादेव वामदेव वृषध्वज ।
कालान्तक क्रतुध्वंसिन्नीलकण्ठेन्दुशेखर ॥ २१॥
जय शम्भो शिवेशान शर्व त्र्यम्बक धूर्जटे ।
स्मरवैरिन्पुराराते स्थाणो भव महेश्वर ॥ २२॥
जयेश खण्डपरशो शूलिन्पशुपते हर ।
सर्वज्ञ भर्ग भूतेश कपालिन्नीललोहित ॥ २३॥
जय रुद्र मखाराते पिनाकिन्प्रमथाधिप ।
गङ्गाधर व्योमकेश गिरीश परमेश्वर ॥ २४॥
जय भीम मृगव्याध कृत्तिवासः कृपानिधे ।
कृशानुरेतः कैलासे नित्यमेव हि वर्तसे ॥ २५॥
त्वदाज्ञया मरुद्राति फणी वहति भूभरम् ।
दीप्यतः सूर्यशशिनौ ब्रह्माण्डं प्लवतेंऽबुधौ ॥ २६॥
ज्योतींषि सञ्चरन्ते खे सर्वं त्वच्छासनात्प्रभो ।
अहं ब्रह्मा च जगतां सर्गसन्त्राणयोरलम् ॥ २७॥
विधाय कल्पसे पुष्ट्यै सूते सस्यानि मेदिनी ।
नाक्रामन्त्यव्ययः सीमां यच्च त्वन्महिरेव सः ॥ २८॥
अणिमादिमहासिद्धिनिःसाधारणवैभवः ।
कथं त्वाममरैरन्यैरुपेक्षे समभिष्टुतम् ॥ २९॥
विशुक्त्वे विस्मरामस्त्वां स्मरामः सङ्कटेऽपि च ।
न रोषो जातु भक्तेषु प्रसादः सर्वदैव ते ॥ ३.२.१४.३०॥
यदा विधित्सेर्भक्तिं त्वं यदा च प्रावृणोषि ताम् ।
मोहबोधौ तदा पुंसां कल्पेते बन्धमोक्षयोः ॥ ३१॥
इति स्तुतस्साञ्जलिबद्धपाणिना पतिः पशूनामथ चक्रपाणिना ।
कृतापहासे च सरोजसम्भवे मदोद्धते प्रादुरभूद्दयानिधिः ॥ ३२॥
इति श्रीस्कन्दपुराणे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये
उत्तरार्धे चतुर्दशाध्यायान्तर्गतं विष्णुकृतं शिवस्तोत्रं
समाप्तम् ।
स्कन्दपुराण । माहेश्वरखण्ड । अरुणाखण्ड । उत्तरखण्ड । अध्याय १४/२१-३१॥
skandapurANa . mAheshvarakhaNDa . aruNAkhaNDa . uttarakhaNDa . adhyAya 14/21-31..
Proofread by PSA Easwaran