विष्णुप्रोक्ता काञ्चायां महादेवार्चनमहिमा
(शिवरहस्यान्तर्गते उग्राख्ये)
- ब्रह्माविष्णुसंवादे -
ब्रह्मोवाच
विष्णो सम्पूज्यते को वा नित्यं कि ध्यायते मुदा ॥ २५.२॥
चिरादत्रैव सततं स्थीयते भवता कुतः ।
विष्णुरुवाच
अत्र काञ्च्यां महादेवः कामाक्षीवल्लभः प्रभुः ॥ २६॥
लीलां करोति सततं पूजितः सकलैः सुरैः ।
उमासहायः सर्वेशो महादेवो जगत्प्रभुः ॥ २७॥
पूज्यते ध्यायते नित्यं प्रणवेन महेश्वरः ।
सर्वैश्च शङ्करः साम्बः पूजनीयोऽतिभक्तितः ॥ २८॥
अथो मयापि सततं पूज्यते पार्वतीम्पतिः ।
देवतासार्वभौमोऽयं सर्वदेवशिखामाणिः ॥ २९॥
सर्ववेदान्तवेद्योऽयं शङ्करश्चन्द्रशेखरः ।
शिवः शिवार्थिभिर्नित्यं पूजनीयः प्रयत्नतः ॥ ३०॥
अतः शिवार्थिना नित्यं मया सम्पूज्यते शिवः ।
सुराणां मानुषाणां च साम्बः संसारमोचकः ॥ ३१॥
विधिवत्पूजितो देवः कुरुते भवमोचनम् ।
यावत्पुष्टिर्बलं दृष्टिर्यावदायुरनामयम् ॥ ३२॥
तावद्यत्नेन सम्पूज्यो नित्यं देवः सदाशिवः ।
तस्य हस्तद्वयं धन्यं येन साम्बः सदाशिवः ॥ ३३॥
पूज्यते सावधानेन स्तूयते मधुरोक्तिभिः ।
तस्यैव हि मनो धन्यं येन निध्यायते शिवः ॥ ३४॥
उद्धूलिताङ्गो यो नित्यं महेशं पूजयेन्मुद्रा ।
तस्य मृत्युभयं नास्ति भाग्यस्याप्यन्तमेव च ॥ ३५॥
॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्ता काञ्चायां महादेवार्चनमहिमा सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २०। २५.२-३५॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 20 . 25.2-35..
Notes:
Upon being asked by Brahmā ब्रह्मा, Viṣṇu विष्णु explains that He is worshiping Mahādeva महादेव of Kāñcī काञ्ची, who is also known as Kāmākṣīvallabha कामाक्षीवल्लभ. He further elaborates about the merits of worshiping Śiva शिव.
Proofread by Ruma Dewan