विष्णुप्रोक्तं शङ्करार्चनमहिमवर्णनम्

विष्णुप्रोक्तं शङ्करार्चनमहिमवर्णनम्

(सुदर्शनविष्णुसंवादे) मदर्चनेन ध्यानेन मोक्षेच्छा जायते नृणाम् । मोक्षदाता महादेवो ज्ञानविज्ञानदायकः ॥ ४९.११॥ तदर्चनेन सम्प्राप्तं मया पूर्वं सुदर्शनम् । सहस्रारं दैत्यहन्तृ साक्षात्त्र्यक्षप्रपूजया ॥ ४९.१२॥ तमाराधय यत्नेन भस्मधारणपूर्वकम् । अग्निरित्यादिभिर्मन्त्रैस्त्रियायुषत्रिपुण्ड्रकैः ॥ ४९.१३॥ रुद्राक्षधारको नित्यं रुद्रपञ्चाक्षरादरः । शिवलिङ्गं बिल्वपत्रैः पूजयंज्ञानवान्भव ॥ ४९.१४॥ वसन्क्षेत्रे महेशस्य स्नाहि तीर्थे च शाङ्करे । अहं ब्रह्मादयो देवाः पूजयैव पिनाकिनः ॥ ४९.१५॥ बलिनः शिवलिङ्गस्य पूजया विप्रसत्तम । यस्य भालतलं मेऽद्य त्रिपुण्ड्रपरिचिन्हितम् ॥ ४९.१६॥ ब्रह्मेन्द्रदेवमुनिभिस्त्रिपुण्ड्रं भस्मना धृतम् । पश्य वक्षसि बाह्वोर्मे रुद्राक्षाणां स्रजं शुभाम् ॥ ४९.१७॥ पञ्चाक्षरजपासक्तो रुद्राध्यायपरायणः । त्रिकालमर्चयामीशं बिल्वपत्रैरहं शिवम् ॥ ४९.१८॥ कमला विमला नित्यं कोमलैर्बिल्वपल्लवैः । पूजयत्यनिशं लिङ्गे तथा ब्रह्मादयः सुराः ॥ ४९.१९॥ मुनयो मनवोऽप्येवं तथान्ये द्विजसत्तमाः । नृपासुरास्तथा दैत्या बलिनः शिवपूजया ॥ ४९.२०॥ ज्ञानं मोक्षस्तथा भाग्यं लभ्यते शङ्करार्चनात् । तस्मात्त्वमपि भक्त्यैव समाराधय शङ्करम् ॥ ४९.२१॥ पशवो विष्णुविधयस्तथान्ये मुनयः सुराः । सर्वेषां पतिरीशानस्तत्प्रसादाद्विमुक्तिभाक् ॥ ४९.२२॥ प्रसादजनकं तस्य भस्मधारणमेव हि । प्रसादजनकं तस्य मुने रुद्राक्षधारणम् ॥ ४९.२३॥ प्रसादजनकस्तस्य रुद्राध्यायजपः सदा । प्रसादजनकस्तस्य पञ्चाक्षरजपो द्विज ॥ ४९.२४॥ प्रसादजनकं तस्य शिवलिङ्गैकपूजनम् । प्रसादे शाम्भवे जाते भुक्तिमुक्ती करे स्थिते ॥ ४९.२५॥ तस्य भक्त्यैव सर्वेषां मोचनं भवपाशतः । तस्य प्रीतिकरं साक्षाद्बिल्वैर्लिङ्गस्य पूजनम् ॥ ४९.२६॥ तस्य प्रीतिकरं साक्षाच्छिवक्षेत्रेषु वर्तनम् । तस्य प्रीतिकरं साक्षात् शिवतीर्थनिषेवणम् ॥ ४९.२७॥ तस्य प्रीतिकरं साक्षाद्भस्मरुद्राक्षधारणम् । तस्य प्रीतिकरं साक्षात्प्रदोषे शिवपूजनम् ॥ ४९.२८॥ तस्य प्रीतिकरं साक्षाद्र्रुद्रपञ्चाक्षरावृतिः । तस्य प्रीतिकरं साक्षाच्छिवभक्तजनार्चनम् ॥ ४९.२९॥ तस्य प्रीतिकरं साक्षात्सोमे सायन्तनार्चनम् । तस्य प्रीतिकरं साक्षात्तन्निर्माल्यैकभोजनम् ॥ ४९.३०॥ तस्य प्रीतिकरं साक्षादष्टमीष्वर्चनं निशि । तस्य प्रीतिकरं साक्षाच्चतुर्दश्यर्चनं निशि ॥ ४९.३१॥ तस्य प्रीतिकरं साक्षात्तन्नाम्नां स्मृतिरेव हि । एतावानेन धर्मो हि शम्भोः प्रियकरो महान् ॥ ४९.३२॥ ॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शङ्करार्चनमहिमवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ४९। ११-३२॥ - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 49. 11-32.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Proofread by Ruma Dewan
% Text title            : Vishnuproktam Shankararchanamahimavarnanam
% File name             : viShNuproktaMshankarArchanamahimavarNanam.itx
% itxtitle              : shaNkarArchanamahimavarNanam (viShNuproktaM shivarahasyAntargatam)
% engtitle              : viShNuproktaM shankarArchanamahimavarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 49| 11-32||
% Indexextra            : (Scan)
% Latest update         : August 5, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org