विष्णुप्रोक्तं शिवार्चनोपदेशम् २

विष्णुप्रोक्तं शिवार्चनोपदेशम् २

(शिवरहस्यान्तर्गते उग्राख्ये) विष्णुः - (अतः) शिवार्चनं कार्यं सर्वदा शैवपुङ्गवैः । मुक्ताः शिवार्चनेनैव बहवः पूर्वमास्तिकाः ॥ ४९०॥ शिवार्चनात्परो धर्मो नास्ति नास्तीति मे मतिः । सत्यमेतत्पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ ४९१॥ शिवार्चनं परो धर्मस्तपश्च शिवपूजनम् । यज्ञाः शिवार्चनं विप्राः सत्यं सत्यं न संशयः ॥ ४९२॥ शिवार्चनं कृतं येन भक्तिपूर्वकमादरात् । तेन यागाः कृताः सर्वे साङ्गाः सर्वस्वदक्षिणाः ॥ ४९३॥ शिवार्चनं कृतं येन भक्तिपूर्वकमादरात् । कृतानि तेन सर्वाणि महादानानि सन्ततम् ॥ ४९४॥ शिवार्चनं कृतं येन भक्तिपूर्वकमादरात् । तेनाधीतोऽनन्तशाखी वेदः साङ्गो द्विजोत्तमाः ॥ ४९५॥ शिवार्चनं कृतं येन भक्तिपूर्वकमादरात् । तेन तीर्थानि सर्वाणि सेवितानि न संशयः ॥ ४९६॥ शिवार्चनं कृतं येन भक्तिपूर्वकमादरात् । तेन धर्माः समस्ताश्च कृता एव द्विजोत्तमाः ॥ ४९७॥ सर्वेषामपि धर्माणां विश्वासः फलमीश्वरे । तस्यापि फलमुत्कृष्टं श्रीमहादेवपूजनम् ॥ ४९८॥ सर्वेप्सितार्थाः सिध्यन्ति श्रीमहादेवपूजया । तिरस्कृताः कल्पवृक्षाः श्रीमहादेवपूजकैः ॥ ४९९॥ तृणीकृता कामधेनुः शिवपूजापरायणः । कल्पवृक्षास्तु विप्रेन्द्रा विनश्वरफलप्रदाः ॥ ५००॥ फलं शिवार्चनाद्विप्राः प्राप्तव्यं न विनश्वरम् । फलं शिवार्चनात्प्राप्यमनल्पमविनश्वरम् ॥ ५०१॥ शिवार्चनपरो मर्त्यो भक्तिपूर्वकमन्वहम् । यं यं कामयते कामं तं तमाप्नोति सर्वदा ॥ ५०२॥ इच्छामात्रेण सिध्यन्ति तस्यार्थाः सकला अपि । गाणपत्यं पुरा प्राप्तं बहुभिः शिवपूजया ॥ ५०३॥ मुक्ताश्च बहवः पूर्वं महेशस्यैव पूजया । अत्रैव नाट्यसदने पुण्डरीकपुरे पुरा ॥ ५०४॥ त्रपुरारिं समभ्यर्च्य मुक्ता जाताश्च कोटिशः । श्रीमच्चिदम्बराधीशो येन दृष्टः कदाचन ॥ ५०५॥ सोऽपि मुक्तो भवत्येव महेशकृपया द्विजः । धन्या यूयं शिवासक्ताः श्रीचिदम्बरवासिनः ॥ ५०६॥ भस्मरुद्राक्षवीताङ्गाः निःसङ्गाः परमार्थिनः ॥ ५०७॥ ॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शिवार्चनोपदेशं २ सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २५। ४८९-५०७॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 25 . 489-507.. Notes: Viṣṇu विष्णु gives Upadeśa उपदेश about several merits of worshiping Śiva शिव, and especially those who have had ŚrīCidambarādhīśa darśana श्रीचिदम्बराधीश दर्शन or reside in ŚrīCidambara श्रीचिदम्बर. Proofread by Ruma Dewan
% Text title            : Vishnuproktam Shivarchanopadesham 2
% File name             : viShNuproktaMshivArchanopadesham2.itx
% itxtitle              : shivArchanopadesham 2 viShNuproktaM (shivarahasyAntargatam ataH shivArchanaM kAryaM sarvadA shaivapuNgavaiH)
% engtitle              : shivArchanopadesham 2 viShNuproktaM
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 25| 489-507||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org