विष्णुप्रोक्तं शिवार्चनोपदेशम् ३

विष्णुप्रोक्तं शिवार्चनोपदेशम् ३

(शिवरहस्यान्तर्गते उग्राख्ये) विष्णुरुवाच सर्ववेदश्रुतं पुण्यं ज्ञानवैराग्यदं नृणाम् । शिवलिङ्गार्चनं कार्यं मुक्त्यर्थं भस्मभूषणैः ॥ ११॥ महादेवार्चनं ब्रह्मन् चतुर्वर्गफलप्रदम् । तत्फलं प्राप्यते सर्वैः शङ्करस्यैव पूजया ॥ १२॥ शङ्कराराधनं येन न कृतं सावधानतः । स दुर्भगो दुराचारो दुर्बुद्धिश्च न संशयः ॥ १३॥ यावन्तो दुभङ्गाः सन्ति दरिद्राश्च कुरूपिणः ॥ ते त्यक्तशाङ्कराचाराः सम्त्यक्तशिवपूजनाः ॥ १४॥ न येन पूज्यते देवः शङ्करः प्रत्यहं मुदा । तेन सम्प्राप्यते दुःखं यातना च तनुव्यये ॥ १५॥ भूतं भव्यं भविष्यच्च भाग्यं यस्य भविष्यति । तस्यैव मुक्तिर्भवति भवानीप्राणवल्लभे ॥ १६॥ भगवान् भगविध्वंसी भवानि प्राणवल्लभे । भूरिभाग्यप्रभावेण भाव्यते भुवि भावुकैः ॥ १७॥ अशैवकृतकर्माणि वेदोक्तान्यपि पद्मज । वृथा भवन्ति सर्वाणि पातकं प्रत्युताधिकम् ॥ १८॥ अशैवैर्वेदिकं कर्म न कर्तव्यं कदाचन । अशैवानां वैदिकेषु न कर्मस्वधिकारिता ॥ १९॥ अशैवो यत्कुले जातः तत्तु दुष्कर्मसङ्कुलम् । सम्पादनीया यत्नेन शिवभक्तिस्तपोबलात् ॥ २०॥ शैवभक्तिर्मुक्तिदात्री या भक्तिः स्यादनन्यगा । किमश्वमेधयागाद्यैः विसृष्टान्नैः सुदक्षिणैः ॥ २१॥ यदि न स्यान्महादेवे भक्तिरव्यभिचारिणी । किमत्युत्तमगोदानेर्बहुभिर्भूरिदक्षिणैः ॥ २२॥ यदि न स्यान्महादेवे भक्तिरव्यभिचारिणी । किमन्नदानैः किं तीर्थैः किं तपोभिरनुत्तमैः ॥ २३॥ यदि न स्यान्महादेवे भक्तिरव्यभिचारिणी । येन ध्यातो महादेवः क्षणं वा सावधानतः ॥ २४॥ तेन धर्माः कृतास्सर्वे सर्वदा सावधानतः । स भाग्यवान् स पुण्यात्मा स तपोनिधिरात्मवान् ॥ २५॥ योऽनन्यशरणो नित्यं पूजयेत्पार्वतीपतिम् । स कुलीनः स विद्यावान् स सर्वगुणसंश्रयः ॥ २६॥ योऽनन्यशरणो नित्यं पूजयेत्पार्वतीपतिम् । स सर्वयोगनिरतः स समाधियुतः सदा ॥ २७॥ योऽनन्यशरणो नित्यं पूजयेत्पार्वतीपतिम् । स सर्वज्ञः स पूतात्मा स तत्वज्ञः स धर्मवित् ॥ २८॥ योऽनन्यशरणो नित्यं पूजयेत्पार्वतीपतिम् । स बुद्धिमान स नीतिज्ञः स विद्वान् पण्डितोत्तमः ॥ २९॥ योऽनन्यशरणो नित्यं अर्चयेत् पार्वतीपतिम् । कृतानि भूरि दानानि ग्रहणे चन्द्रसूर्ययोः ॥ ३०॥ तस्यैवानन्यगा भक्तिर्भवति श्रीमहेश्वरे । ये सन्ततं भविष्यन्ति दग्धसंसारवासनाः ॥ ३१॥ तेषामनन्यगा शुद्धा शिवे भक्तिः प्रजायते । ३२.१ ॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शिवार्चनोपदेशं ३ सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २६ कुम्भघोणमहिमानुवर्णनम् । ११-३२.१॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 26 kumbhaghoNamahimAnuvarNanam . 11-32.1.. Proofread by Ruma Dewan
% Text title            : Vishnuproktam Shivarchanopadesham 3
% File name             : viShNuproktaMshivArchanopadesham3.itx
% itxtitle              : shivArchanopadesham 3 viShNuproktaM (shivarahasyAntargatam sarvavedashrutaM puNyaM jnAnavairAgyadaM nRiNAm)
% engtitle              : shivArchanopadesham 3 viShNuproktaM
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 26 kumbhaghoNamahimAnuvarNanam | 11-32.1||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org