विष्णुप्रोक्तं शिवार्चनोपदेशम् ४
(शिवरहस्यान्तर्गते उग्राख्ये)
देवा ऊचुः
विष्णो वेदार्थतत्वज्ञ शिवपूजापरायण ।
किं ध्येयं किं परं ब्रह्म वद निश्चित्य सादरम् ॥ ३६८॥
अगस्त्य उवाच
इति तद्वचनं श्रुत्वा विष्णुर्हृष्टः कृताञ्जलिः ।
प्रणम्य शिरसा शम्भुमुवाच द्विजसत्तम ॥ ३६९॥
विष्णुः (उवाच)
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ।
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं भजाम्यहम् ॥ ३७०॥
शिव एव परं ब्रह्म सच्चिदानन्दविग्रहम् ।
निलिप्तो (निर्मलो) निर्गुणो नित्यस्तुरीयः शिव उच्यते ॥ ३७१॥
सच्चिद्धनो निराकारो निर्द्वन्द्वः स निरामयः ।
सृजत्यवत्यत्यस्मान्स भवाजत्वाद्युपाधिभिः ॥ ३७२॥
अदृष्टेनास्मदादीनां तस्येच्छैव प्रजायते ।
भवत्वोपाधिमाश्रित्य सृजत्येतज्जगच्छिवः ॥ ३७३॥
लीलयैव सृजत्यस्मानायासोऽस्य न कश्चन ।
मृडत्वोपाधिमाश्रित्य पाति सर्वमुमापतिः ॥ ३७४॥
लीलयैवावतः सर्वं तस्यायासो न कश्चन ।
हरत्वोपाधिमाश्रित्य स हन्त्यस्मान्पिनाकभृत् ॥ २७५॥
स हन्त्यस्माँल्लीलयैव तस्यायासो न कश्चन ।
शिवस्य वस्तुतः कृत्यं तस्य नास्त्येव सर्वथा ॥ ३७६॥
तथापि लीलयैवास्मान् सृजत्यवति हन्ति च ।
स्वतन्त्रस्य महेशस्य सर्वज्ञस्यामितात्मनः ॥ ३७७॥
सृष्ट्यादावितरापेक्षा नास्ति सर्वात्मना सुराः ।
स तुरीयोऽस्मदादीनां न प्रत्यक्षः कदाचन ॥ ३७८॥
परन्तु वेदवेदान्तैस्तद्रूपमवगम्यते ।
श्रुतिस्मृतिपुराणाद्यैः शिवोऽस्तीत्युच्यते ततः ॥ ३७९॥
श्रुत्याद्युक्तप्रकारेण स सेव्यः सर्वसाधनैः ।
सततं यैस्तपस्तप्तं बहुधा बहुसाधनैः ॥ ३८०॥
तेषामेव शिवे भक्तिः श्रद्धा चैवोपजायते ।
अनन्तमव्ययं शान्तं शिवमक्षरमद्वयम् ॥ ३८१॥
अविज्ञायान्यथा ज्ञात्वा भवन्त्यत्यन्तदुःखिताः ।
शिवो हि निर्गुणोऽनन्तस्तुरीय इति धीरपि ॥ ३८२॥
सहसा न भवत्येव संसाराविष्टचेतसाम् ।
येषां न विषयासक्तिर्ये च निर्दग्धकल्मषाः ॥ ३८३॥
तेषामेव शिवे भक्तिः श्रद्धा चैवोपजायते ।
धर्मास्तपांसि दानानि यागाश्च विविधाः सुराः ॥ ३८४॥
शिवे प्रामाण्यबुद्धिं च जनयन्ति न संशयः ॥ ३८५॥
॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शिवार्चनमहिमोपदेशं ४ सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २६ कुम्भघोणमहिमानुवर्णनम् । ३७०-३८५॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 26 kumbhaghoNamahimAnuvarNanam . 370-385..
Notes:
Upon being requested by Deva-s देवाः; Viṣṇu विष्णु tells them that He is worshiping Śiva शिव and delivers Upadeśa उपदेश about merits of doing the same.
Proofread by Ruma Dewan