विष्णुप्रोक्तं शिवार्चनोपदेशम् ५

विष्णुप्रोक्तं शिवार्चनोपदेशम् ५

(शिवरहस्यान्तर्गते उग्राख्ये) विष्णुः (उवाच) विश्वं च भुवनं चित्ते त- ज्जातं भूयो जायमानं च भूयः । एतत्सर्वं रुद्र एवेति मत्वा भूयो भूयः पूज्यमानो (पूजनीयो) महेशः ॥ ३८६॥ सर्वं रुद्रं मत्वा सर्वभावेन सर्वं सर्वाशास्यं निर्गुणं निष्कलं च । ससेवन्ते साधवः सर्वथा नो भूयो भूयः पूजनीयो महेशः ॥ ३८७॥ रुद्रः सर्वं रुद्र एकत्वमाहुः एको रुद्रो न द्वितीयाय तस्थे । नेशादन्यत्किञ्चिदस्तीति नित्यं भूयो भूयः पूजनीयो महेशः ॥ ३८८॥ यं वेदान्ता नैव जानन्ति सिद्धा यं योगीन्द्रा नैव जानन्ति विप्राः । तं चिद्रूपं ज्ञातुमिच्छत्यतो वा यो यं ज्ञात्वैवामृतत्वं प्रयाति ॥ ३८९॥ यो निर्लिप्तो निर्गुणोऽपि त्रिणेत्रो यो निर्बाहुः स्वर्णबाहुः स्वतन्त्रः । यो नीरूपः स्वर्णरूपः स एव भूयो भूयः पूजनीयो महेशः ॥ ३९०॥ निर्गुणोऽपि स्वर्णवर्णो य आसी- द्योवाऽरूपोऽप्यम्बिकानाथ आसीत् । देवाधीशः सोऽयमज्ञेयतत्वो भूयो भूयः पूजनीयो महेशः ॥ ३९१॥ यस्येच्छातोऽस्माकमुत्पत्तिरासो- द्यस्येच्छातो जायते रक्षणं च । यस्येच्छातो भाविनाशः स नित्यो भूयो भूयः पूजनीयो महेशः ॥ ३९२॥ यस्माद्भीतो वाति वायुः सदायं यस्माद्भीतो(त्यो)देति सूर्योऽपि नित्यम् । यस्माद्भीतो (वह्निमुख्या) वीतिहोत्रेन्द्रमुख्या भूयो भूयः पूजनीयो महेशः ॥ ३९३॥ यस्यार्चातो लभ्यते सर्वपृथ्वी यस्यार्चातो लभ्यते मोक्षलक्ष्मीः । यस्यार्चातोऽनेकधर्माद्यसिद्धिः सोऽयं शम्भुः पूजनीयोऽनिशं च ॥ ३९४॥ ॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शिवार्चनोपदेशं ५ सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २६ कुम्भघोणमहिमानुवर्णनम् । ३८६-३९७॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 26 kumbhaghoNamahimAnuvarNanam . 386-397.. Notes: Viṣṇu विष्णु delivers Upadeśa उपदेश (to Deva-s देवाः) about the OmniPresence of Rudra रुद्र in this Universe and worshiping Maheśa-Śambhu-Śiva महेश-शम्भु-शिव. Proofread by Ruma Dewan
% Text title            : Vishnuproktam Shivarchanopadesham 5
% File name             : viShNuproktaMshivArchanopadesham5.itx
% itxtitle              : shivArchanopadesham 5 viShNuproktaM (shivarahasyAntargatam vishvaM cha bhuvanaM chitte)
% engtitle              : shivArchanopadesham 5 viShNuproktaM
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 26 kumbhaghoNamahimAnuvarNanam | 386-397||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org