विष्णुप्रोक्तं शिवतत्त्वोपदेशम्
(शिवरहस्यान्तर्गते उग्राख्ये)
विष्णुः (उवाच) -
शिवतत्त्वं शिवेनैव ज्ञायते परमात्मना ।
तत्तत्त्वज्ञानमेतस्य कथं मम भविष्यति ॥ ७०॥
ज्ञातं चेच्छाङ्करं तत्त्वं सद्यो मोक्षो भविष्यति ।
कथं स्यात्तादृशं भाग्यं मम संसारिणोऽधुना ॥ ७१॥
यदा संसारविच्छित्तिर्भविष्यति शिवाज्ञया ।
तदा ज्ञातमिति ज्ञेयं तत्त्वज्ञानं तु शाङ्करम् ॥ ७२॥
अधुना तत्कथं ज्ञेयं शिवतत्त्वं मया द्विजाः ।
ज्ञायते भूरितपसा शिवतत्त्वं शिवार्चकाः ॥ ७३॥
वेदाश्च नोत्सहन्ते यत्तत्त्वज्ञानाय शूलिनः ।
कथं ज्ञेयं मया तत्त्वं शिवस्य परमात्मनः ॥ ७४॥
परं यद्वेदविहितं महादेवस्य पूजनम् ।
क्रियते बिल्वपत्राद्यैर्यथाशक्ति मया सदा ॥ ७५॥
शिवपूजाविधानं च न मया ज्ञायते द्विजाः ।
तथापि क्रियते यावद्ज्ञातं शङ्करपूजनम् ॥ ७६॥
यथाकथञ्चित्कर्तव्यं नित्यं शङ्करपूजनम् ।
न ज्ञातो विधिरित्येतन्न त्याज्यं शङ्करार्चनम् ॥ ७७॥
नित्यमव्यभिचारेण यः कुर्याच्छिवपूजनम् ।
स सर्वपापनिर्मुक्तः शिवरूपं प्रयास्यति ॥ ७८॥
भक्तिश्रद्धासमेतेन भस्मनिष्ठेन मादरम् ।
पूजितः पार्वतीनाथो ददाति परमां गतिम् ॥ ७९॥
शिवलिङ्गार्चनेनैव सन्तुष्टः पार्वतीपतिः ।
पुरा मह्यं ददौ विप्रा विष्णुत्वं करुणानिधिः ॥ ८०॥
ददी ततः परं मह्यं वैकुण्ठमपि शङ्करः ।
सुदर्शनामिधं चक्रं ददौ मह्यं ततः परम् ॥ ८१॥
यस्मै हृष्टो महादेवस्तस्मै स गिरिजापतिः ।
ददाति भुक्तिं मुक्तिं च स्वतन्त्रः करुणानिधिः ॥ ८२॥
शङ्कराराधनेनैव बहवो मुनिपुङ्गवाः ।
शिवस्वरूपमापन्नाः शिवैकपरदेवताः ॥ ८३॥
शिवनामसुधापानं ये कुर्वन्ति शिवार्चकाः ।
नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यो नमो नमः ॥ ८४॥
ये कुर्वन्ति प्रयत्नेन केवलं शिवपूजनम् ।
नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यो नमो नमः ॥ ८५॥
भवत्यनल्पतपसा श्रद्धा शङ्करपूजने ।
ततोऽनल्पतपोगम्यः शङ्करो याज्य एव मे ॥ ८६॥
येषां बाह्योपचारेषु शक्तिर्नैव भविष्यति ।
तैर्मानसोपचारैर्वा कर्तव्यं शिवपूजनम् ॥ ८७॥
अनन्तवाजपेयादियागानां यत्फलं द्विजाः ।
ततोऽनन्तगुणं पुण्यं शिवपूजाविधेः फलम् ॥ ८८॥
महादानानि यावन्ति तेषां यावत्फलं श्रुतम् ।
ततोऽनन्तगुणं पुण्यं शिवपूजाविधेः फलम् ॥ ८९॥
तपांस्युग्राणि यावन्ति तावतां यत्फलं श्रुतम् ।
ततोऽनन्तगुणं पुण्यं शिवपूजाविधेः फलम् ॥ ९०॥
पौण्डरीकादियागानां स्वर्गमात्रं फलं द्विजाः ।
शिवार्चनं तु वेदोक्तं चतुर्वर्गफलप्रदम् ॥ ९१॥
धर्मार्थकाममोक्षास्तु प्राप्तव्याः शिवपूजया ।
अतः शिवार्चनफलं केन साम्यं प्रयास्यति ॥ ९२॥
शिवार्चनेन नश्यन्ति ब्रह्महत्यादिकोटयः ।
नश्यत्येका ब्रह्महत्या वाजिमेधेन च द्विजाः ॥ ९३॥
शिवस्मरणमात्रेण विनश्यन्त्यघकोटयः ।
ते न नश्यन्ति किं विप्राः सद्यः शङ्करपूजया ॥ ९४॥
स्वर्गापवर्गफलदं वैदिकं शङ्करार्चनम् ।
तन्न यागादिसदृशं यतः स्वर्गापवर्गदा ॥ ९५॥
(तन्न यागादिसदृशं यतः ते स्वर्गैकफला यतः) ॥ ९५॥
शिवनामाग्निमात्रेण दग्धं चेत्पापकाननम् ।
शिवार्चनेन दग्धं तन्नभविष्यति किं द्विज ॥ ९६॥
॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शिवतत्त्वोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २४। ७०-९६॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 24 . 70-96..
Notes:
Viṣṇu विष्णु delivers a detailed Upadeśa उपदेश (to Dvija-s द्विजाः) about Śivatattva शिवतत्त्व and the merits worship of Śiva शिव.
Proofread by Ruma Dewan