विष्ण्वादिकृतं शिवस्तोत्रम्

विष्ण्वादिकृतं शिवस्तोत्रम्

विष्ण्वादय ऊचुः । देवदेव महादेव लौकिकाचारकृत्प्रभो । ब्रह्म त्वामीश्वरं शम्भुं जानीमः कृपया तव ॥ १॥ किं मोहयसि नस्तात मायया परया तव । दुर्ज्ञेयया सदा पुंसां मोहिन्या परमेश्वर ॥ २॥ प्रकृतः पुरुषस्यापि जगतो योनिबीजयोः । परब्रह्म परस्त्वं च मनोवाचामगोचरः ॥ ३॥ त्वमेव विश्वं सृजसि पास्यत्सि निजतन्त्रतः । स्वरूपां शिवशक्तिं हि क्रीडन्नूर्णपटो यथा ॥ ४॥ त्वमेव क्रतुमीशान ससर्जिथ दयापरः । दक्षेण सूत्रेण विभो सदा त्रय्यभिपत्तये ॥ ५॥ त्वयैव लोकेऽवसितास्सेतवो यान् धृतव्रताः । शुद्धान् श्रद्दधते विप्रा वेदमार्गविचक्षणाः ॥ ६॥ कर्तुस्त्वं मङ्गलानां हि स्वपरं तु मुखे विभो । अमङ्गलानां च हितं मिश्रं वाथ विपर्ययम् ॥ ७॥ सर्वकर्मफलानां हि सदा दाता त्वमेव हि । सर्वे हि प्रोक्ता हि यशस्तत्पतिस्त्वं श्रुतिश्रुतः ॥ ८॥ पृथग्धियः कर्मदृशोऽरुन्तुदाश्च दुराशयाः । वितुदन्ति परान्मूढा दुरुक्तैर्मत्सरान्विताः ॥ ९॥ तेषां दैववधानां भो भूयात्त्वच्च वधो विभो । भगवन्परमेशान कृपां कुरु परप्रभो ॥ २.४१.१०॥ नमो रुद्राय शान्ताय ब्रह्मणे परमात्मने । कपर्दिने महेशाय ज्योत्स्नायै महते नमः ॥ ११॥ त्वं हि विश्वसृजां स्रष्टा धाता त्वं प्रपितामहः । त्रिगुणात्मा निर्गुणश्च प्रकृतेः पुरुषात्परः ॥ १२॥ नमस्ते नीलकण्ठाय वेधसे परमात्मने । विश्वाय विश्वबीजाय जगदानन्दहेतवे ॥ १३॥ ॐ कारस्त्वं वषट्कारस्सर्वारम्भप्रवर्तकः । हन्तकास्स्वधाकारो हव्यकव्यान्नभुक् सदा ॥ १४॥ कृतः कथं यज्ञभङ्गस्त्वया धर्मपरायण । ब्रह्मण्यस्त्वं महादेव कथं यज्ञहनो विभो ॥ १५॥ ब्राह्मणानां गवां चैव धर्मस्य प्रतिपालकः । शरण्योऽसि सदानन्त्यः सर्वेषां प्राणिनां प्रभो ॥ १६॥ नमस्ते भगवन् रुद्र भास्करामिततेजसे । नमो भवाय देवाय रसायाम्बुमयाय ते ॥ १७॥ शर्वाय क्षितिरूपाय सदा सुरभिणे नमः । रुद्रायाग्निस्वरूपाय महातेजस्विने नमः ॥ १८॥ ईशाय वायवे तुभ्यं संस्पर्शाय नमो नमः । पशूनाम्पतये तुभ्यं यजमानाय वेधसे ॥ १९॥ भीमाय व्योमरूपाय शब्दमात्राय ते नमः । महादेवाय सोमाय प्रवृत्ताय नमोऽस्तु ते ॥ २.४१.२०॥ उग्राय सूर्यरूपाय नमस्ते कर्मयोगिने । नमस्ते कालकालाय नमस्ते रुद्र मन्यवे ॥ २१॥ नमश्शिवाय भीमाय शङ्कराय शिवाय ते । उग्रोऽसि सर्वभूतानां नियन्ता यच्छिवोऽसि नः ॥ २२॥ मयस्कराय विश्वाय ब्रह्मणे ह्यार्तिनाशिने । अम्बिकापतये तुभ्यमुमायाः पतये नमः ॥ २३॥ शर्वाय सर्वरूपाय पुरुषाय परात्मने । सदसद्व्यक्तिहीनाय महतः कारणाय ते ॥ २४॥ जाताय बहुधा लोके प्रभूताय नमो नमः । नीलाय नीलरुद्राय कद्रुद्राय प्रचेतसे ॥ २५॥ मीढुष्टमाय देवाय शिपिविष्टाय ते नमः । महीयसे नमस्तुभ्यं हन्त्रे देवारिणां सदा ॥ २६॥ ताराय च सुताराय तरुणाय सुतेजसे । हरिकेशाय देवाय महेशाय नमो नमः ॥ २७॥ देवानां शम्भवे तुभ्यं विभवे परमात्मने । परमाय नमस्तुभ्यं कालकण्ठाय ते नमः ॥ २८॥ हिरण्याय परेशाय हिरण्यवपुषे नमः । भीमाय भीमरूपाय भीमकर्मरताय च ॥ २९॥ भस्मदिग्धशरीराय रुद्राक्षाभरणाय च । नमो ह्रस्वाय दीर्घाय वामनाय नमोऽस्तु ते ॥ २.४१.३०॥ दूरेवधाय ते देवाग्रेवधाय नमो नमः । धन्विने शूलिने तुभ्यं गदिने हलिने नमः ॥ ३१॥ नानायुधधरायैव दैत्यदानवनाशिने । सद्याय सद्यरूपाय सद्योजाताय वै नमः ॥ ३२॥ वामाय वामरूपाय वामनेत्राय ते नमः । अघोराय परेशाय विकटाय नमो नमः ॥ ३३॥ तत्पुरुषाय नाथाय पुराणपुरुषाय च । पुरुषार्थप्रदानाय व्रतिने परमेष्ठिने ॥ ३४॥ ईशानाय नमस्तुभ्यमीश्वराय नमो नमः । ब्रह्मणे ब्रह्मरूपाय नमस्साक्षात्परात्मने ॥ ३५॥ उग्रोऽसि सर्वदुष्टानां नियन्तासि शिवोऽसि नः । कालकूटाशिने तुभ्यं देवाद्यवनकारिणे ॥ ३६॥ वीराय वीरभद्राय रक्षद्वीराय शूलिने । महादेवाय महते पशूनां पतये नमः ॥ ३७॥ वीरात्मने सुविद्याय श्रीकण्ठाय पिनाकिने । नमोऽनन्ताय सूक्ष्माय नमस्ते मृत्युमन्यवे ॥ ३८॥ पराय परमेशाय परात्परतराय ते । परात्पराय विभवे नमस्ते विश्वमूर्तये ॥ ३९॥ नमो विष्णुकलत्राय विष्णुक्षेत्राय भानवे । भैरवाय शरण्याय त्र्यम्बकाय विहारिणे ॥ २.४१.४०॥ मृत्युञ्जयाय शोकाय त्रिगुणाय गुणात्मने । चन्द्रसूर्याग्निनेत्राय सर्वकारणसेतवे ॥ ४१॥ भवता हि जगत्सर्वं व्याप्तं स्वेनैव तेजसा । परब्रह्म निर्विकारी चिदानन्दः प्रकाशवान् ॥ ४२॥ ब्रह्मविष्ण्विन्द्रचन्द्रादिप्रमुखास्सकलास्सुराः । मुनयश्चापरे त्वत्तस्सम्प्रसूता महेश्वर ॥ ४३॥ यतो बिभर्षि सकलं विभज्य तनुमष्टधा । अष्टमूर्तिरितीशश्च त्वमाद्यः करुणामयः ॥ ४४॥ त्वद्भयाद्वाति वातोऽयं दहत्यग्निर्भयात्तव । सूर्यस्तपति ते भीत्या मृत्युर्धावति सर्वतः ॥ ४५॥ दयासिन्धो महेशान प्रसीद परमेश्वर । रक्ष रक्ष सदैवास्मान् यस्मान्नष्टान् विचेतसः ॥ ४६॥ रक्षिताः सततं नाथ त्वयैव करुणानिधे । नानापद्भ्यो वयं शम्भो तथैवाद्य प्रपाहि नः ॥ ४७॥ यज्ञस्योद्धरणं नाथ कुरु शीघ्रं प्रसादकृत् । असमाप्तस्य दुर्गेश दक्षस्य च प्रजापतेः ॥ ४८॥ भगोऽक्षिणी प्रपद्येत यजमानश्च जीवतु । पूष्णो दन्ताश्च रोहन्तु भृगोः श्मश्रूणि पूर्ववत् ॥ ४९॥ भवतानुग्रहीतानां देवादीनां च सर्वशः । आरोग्यं भग्नगात्राणां शङ्कर त्वायुधाश्मभिः ॥ २.४१.५०॥ पूर्णभागोऽस्तु ते नाथावशिष्टेऽध्वरकर्मणि । रुद्रभागेन यज्ञस्ते कल्पितो नान्यथा क्वचित् ॥ ५१॥ इत्युक्त्वा सप्रजेशश्च रमेशश्च कृताञ्जलिः । दण्डवत्पतितो भूमौ क्षमापयितुमुद्यतः ॥ ५२॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायाम् । द्वितीये सतीखण्डे देवस्तुतिवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ४१॥ शिवपुराण । रुद्रसंहिता । सतीखण्ड । अध्याय ४१/१-४७॥ shivapurANa . rudrasaMhitA . satIkhaNDa . adhyAya 41/1-47.. Proofread by PSA Easwaran
% Text title            : Vishnvadikritam Shiva Stotram
% File name             : viShNvAdikRRitaMshivastotram.itx
% itxtitle              : shivastotram (viShNvAdikRitaM shivapurANAntargatam devadeva mahAdeva laukikAchArakRitprabho)
% engtitle              : viShNvAdikRRitaM shivastotram
% Category              : shiva, shivapurANa, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : shivapurANa | rudrasaMhitA | satIkhaNDa | adhyAya 41/1-47||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, Hindi 1, 2, 3, 4, 5, Bengali, Thesis, Kalyan 1, 2)
% Latest update         : November 19, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org