विप्रैः प्रोक्तं काशीवासोपदेशम्

विप्रैः प्रोक्तं काशीवासोपदेशम्

(शिवरहस्यान्तर्गते उग्राख्ये) येन केनापि रूपेण काश्यां स्थातव्यमास्तिकैः । मर्तव्यं च प्रयत्नेन काश्यामेव मुमुक्षुभिः ॥ ३०४॥ महास्मशानसंविष्टं कुणपं सर्वथा नरैः । नान्यत्र नेयं तत्रैव भस्मसात्कार्यमादरात् ॥ ३०५॥ महास्मशानमरणं सुराणामपि दुर्लभम् । (महास्मशानमरणं प्राणिनामतिदुर्लभम्) अतस्तत्र प्रयत्नेन मर्तव्यं मुक्तिकाङ्क्षिभिः ॥ ३०६॥ (अतस्तत्रैव मरणं काङ्क्षितव्यं विमुक्तये ॥) ३०६॥ याच्यतु मरणं काश्यां ब्रह्मविष्ण्वादिभिः सुरैः । किम्पुनर्मादृशैर्मत्यैर्नित्यधर्मसमाश्रितैः ॥ ३०७॥ ब्रह्मविष्ण्वादिदेवानां काश्यां मरणमिच्छताम् । भविष्यत्येव मरणं प्रलये समुपस्थिते ॥ ३०८॥ मरणं मङ्गलं काश्यां केवलं मरणं ततः । तदर्थं विविधा यत्नाः कर्तव्या मुक्तिकाङ्क्षिभिः ॥ ३०९॥ नृप पूर्वं शरीराणि दग्धान्यन्यत्र भूरिशः । शरीरमेकदा काश्यां दाहनीयं प्रयत्नतः ॥ ३१०॥ नृपानन्तशरीराणि दग्धान्यन्यत्र जन्मसु । सकृद्दग्धे तु देहेऽत्र पुनर्दाहोऽस्य नो भवेत् ॥ ३११॥ स काश्यां काशते श्रीमान्महेशानुग्रहेण यः । स्वदेहदहनोद्भूतभस्मराशिं विलोकयेत् ॥ ३१२॥ शरीरं भस्मसात्कृत्वा काश्यां तेनैव भस्मना । यः काशीं भूषयेत्तेन सम्प्राप्तं शेषभूषणम् ॥ ३१३॥ ये त्यक्ततनवः काश्यां त एवातनवः पुनः । वामार्धवामातनवश्चन्द्रचूडा भवन्ति च ॥ ३१४॥ देवतासार्वभौमत्वं यस्याभिलषितं भवेत् । तेन काश्यां तनुत्यागः कर्तव्यः सावधानतः ॥ ३१५॥ काश्यां शरीरमात्रस्य त्यागेनैव महेश्वरः । दत्वा पञ्चाक्षरं शैवं स्वस्वरूपं प्रयच्छति ॥ ३१६॥ काश्यां त्यक्तशरीरेण शैवेन मदनान्तकः । महेशो दृश्यते साक्षात्सर्वलक्षणसंयुतः ॥ ३१७॥ यस्य (येन) साक्षान्महादेवदर्शनं समपेक्षितम् । तेन काश्यां प्रयत्नेन मर्तव्यं मुक्तिकाङ्क्षिणा ॥ ३१८॥ मरणाभिमुखः काश्यां यदा भवति मानवः । तदा शिवोत्तरीयेण तं वीजयति चेश्वरी ॥ ३१९॥ तत्कर्णकुहरे शम्भुस्तारकं समुपादिशेत् । पञ्चाक्षरं महामन्त्रं शैवं संसारतारकम् ॥ ३२०॥ तदा गणाः समागत्य दुन्दुभिध्वनिपूर्वकम् । चारुचामरहस्ताश्च तन्वन्ति विजयध्वनिम् ॥ ३२१॥ मुक्तिकन्यां ततस्तस्मै शिवो मङ्गलपूर्वकम् । ददाति मङ्गलाचारान्कुर्वन्ति प्रमथास्ततः ॥ ३२२॥ मरणं मङ्गलं तस्मात्काश्यां भवति भूपते । मुक्तिकन्याविवाहार्थं काइयां मर्तव्यमेकदा ॥ ३२३॥ ततः परं न मरणं कदाचिदपि जायते । भवत्यन्यत्र मरणे बहुधा मरणव्यथा ॥ ३२४॥ दुरीकरोति तां देवो महेशो मङ्गलायुतः । दर्शनार्थं महेशस्य शिवप्राप्त्यर्थमेव च ॥ ३२५॥ मर्तव्यं मानवैर्धन्यैः काश्यां यत्नपुरःसरम् । ३२६.१ ॥ इति शिवरहस्यान्तर्गते राजाप्रति विप्रैः प्रोक्तं काशीवासोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २९ शिवगौरीसंवादे काशीप्रभावकथनम् । ३०४-३२६.१॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 29 shivagaurIsaMvAde kAshIprabhAvakathanam . 304-326.1.. Notes: Vipraḥ विप्राः deliver Upadeśa उपदेश (to Rājā राजा) about the merits of staying in Kāśī काशी especially nearing the time of one’s death. Proofread by Ruma Dewan
% Text title            : Vipraih Proktam Kashivasopadesham
% File name             : vipraiHproktaMkAshIvAsopadesham.itx
% itxtitle              : kAshIvAsopadesham vipraiHproktaM (shivarahasyAntargatam)
% engtitle              : vipraiHproktaM kAshIvAsopadesham
% Category              : shiva, shivarahasya, tIrthakShetra, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 29 shivagaurIsaMvAde kAshIprabhAvakathanam | 304-326.1||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org