विप्रैः प्रोक्तं काशीयात्रोपदेशम्

विप्रैः प्रोक्तं काशीयात्रोपदेशम्

(शिवरहस्यान्तर्गते उग्राख्ये) विप्रा ऊचुः यात्रादिरतचित्तानां स्वस्वधर्मरतात्मनाम् । काशीवासो मुक्तिहेतुर्नान्येषां पृथिवीपते ॥ २७२॥ उद्धूलनविपुण्ड्राभ्यां तथा रुद्राक्षधारणात् । विश्वेश्वराभ्यर्चनाच्च मा मा प्रमद भूपते ॥ २७३॥ (त्रिपुण्ड्रधारणे भस्मोद्धूलने शिवपूजने ।) (रुद्राक्षधारणे चापि श्रद्धा कार्या त्वया नृप ॥) २७३॥ ज्ञानवापीजलस्नानात् ज्ञानेशाभ्यर्चनादपि । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ २७४॥ (ज्ञानवापीजलस्नाने ज्ञानेशाभ्यर्चने तथा । विश्वेशाभ्यर्चने चापि कुरु श्रद्धां महीपते ॥) २७४॥ ढुण्ढीशपूजनात्तद्वद्दण्डपाणेश्च पूजनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ २७५॥ (ढुण्ढीशपूजने तद्वद्दण्डपाणेश्च पूजने । विश्वेश्वराभ्यर्चने च कुरु श्रद्धां महीपते ॥) २७५॥ अनन्तभैरवस्यापि कुमारस्यापि पूजनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ २७६॥ (अनन्तभैरवस्यापि कुमारस्यापि पूजने । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) २७६॥ अविमुक्तीश्वरार्चातस्तथा नन्दीशपूजनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ २७७॥ (अविमुक्तीश्वरार्चायां तथा नन्दीशपूजने । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) २७७॥ रुद्राध्यायजपात्तद्वत्पञ्चाक्षरजपात्तथा । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ २७८॥ (रुद्राध्यायजपे तद्वत्पञ्चाक्षरजपे तथा । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) २७८॥ भृङ्गीशदर्शनात्तद्वत्तारकेशस्य पूजनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ २७९॥ (भृङ्गीशदर्शने तद्वत्तारकेशस्य पूजने । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) २७९॥ भवानीदर्शनात्तद्वच्छिवाशङ्करपूजनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ २८०॥ (भवानीदर्शने तद्वच्छिवाशङ्करपूजने । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) २८०॥ वीरकुण्डजलस्नानात् श्रीविश्वेश्वरदर्शनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ २८१॥ (वीरकुण्डजलस्नाने श्रीविश्वेश्वरदर्शने । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) २८१॥ आमर्दकेश्वरार्चातः पापभक्षेशपूजनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ २८२॥ (आमर्दकेश्वरार्चायां पापभक्षेशपूजने । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) २८२॥ कालकुण्डजलस्नानात्कालभैरवदर्शनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ २८३॥ (कालकुण्डजलस्नाने कालभैरवदर्शने । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) २८३॥ नवग्रहेशपूजातः कालेशाभ्यर्चनादपि । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ २८४॥ (नवग्रहेशपूजायां कालेशाभ्यर्चने तथा । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) २८४॥ कृत्तिवासेश्वरार्चातः श्रीविश्वेश्वरदर्शनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ २८५॥ (कृत्तिवासेश्वरार्चायां श्रीविश्वेश्वरदर्शने । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) २८५॥ शिवगङ्गाजलस्नानादाग्नीध्रेश्वरदर्शनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ २८६॥ (शिवगङ्गाजलस्नानेऽप्याग्नीध्रेश्वरदर्शने । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) २८६॥ ओङ्कारकुण्डस्नानाच्च श्रीमन्दोङ्कारदर्शनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ २८७॥ (ओङ्कारकुण्डस्नाने च श्रीमदोङ्करदर्शने । विश्वेश्वरभ्यर्चने च श्रद्धां कुरु महीपते ॥) २८७॥ पिलिप्पिलजलस्नानात् त्रिलोचनसमर्चनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ २८८॥ (पिलिप्पिलजलस्नाने त्रिलोचनसमर्चने । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) २८८॥ सोमेशतीर्थस्नानाच्च तथा सोमेशदर्शनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ २८९॥ (सोमेशतीर्थस्नाने च तथा सोमेशदर्शने । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) २८९॥ केदारकुण्डस्नानाच्च तथा केदारदर्शनात् । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ २९०॥ (केदारकुण्डस्नाने च तथा केदारदर्शने । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) २९१॥ शिवभक्तप्रणामाच्च शिवभक्तार्चनादपि । विश्वेशाभ्यर्चनाच्च मा मा प्रमद भूपते ॥ २९२॥ (शिवभक्तप्रणामे च शिवभक्तार्चने तथा । विश्वेश्वराभ्यर्चने च श्रद्धां कुरु महीपते ॥) २९२॥ सर्वदा शिवनामानि जप काश्यां प्रयत्नतः । पूजयस्व महादेवं सततं बिल्वपल्लवैः ॥ २९२॥ भस्ममु(नो)द्धूलनं कृत्वा त्रिपुण्ड्रं च ततः परम् । रुद्राक्षधारणं कृत्वा जप मन्त्रं शिवात्मकम् ॥ २९३॥ नित्ययात्राः पक्षयात्रा मासयात्राश्च भूरिशः । तथैव वारयात्राश्च कर्तव्यास्तत्र सादरम् ॥ २९४॥ पूजनीयाः प्रयत्नेन शैवाः काशीनिवासिनः । नित्यं शिवकथाः श्राव्याः श्रोतव्यास्तत्र सादरम् ॥ २९५॥ ॥ इति शिवरहस्यान्तर्गते राजाप्रति विप्रैः प्रोक्तं काशीयात्रोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २९ शिवगौरीसंवादे काशीप्रभावकथनम् । २७२-२९५॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 29 shivagaurIsaMvAde kAshIprabhAvakathanam . 272-295.. Notes: Vipraḥ विप्राः deliver Upadeśa उपदेश (to Rājā राजा) about the procedures to be followed during Kāśī Yātrā काशी यात्रा. They emphasize about worshipping Viśveśa/Viśveśvara विश्वेश/विश्वेश्वर and mention about sequentially visiting and worshiping at the key spots in Kaśī काशी viz. Worshiping Jñāneśa ज्ञानेश after taking bath at Jñānavāpī ज्ञानवापी; worshiping Ḍhuṇḍhīśa ढुण्ढीश, Daṇḍapāṇi दण्डपाणि, Anantabhairava अनन्तभैरव, Kumāra कुमार, Avimukteśvara अविमुक्तेश्वर, Nandīśa नन्दीश; performing Rudrādhyāya japa रुद्राध्याय जप and Pañcākṣara japa पञ्चाक्षर जप; worshiping Bhṛṅgīśa भृङ्गीश, Tārakeśa तारकेश, Bhavānī भवानी, Śiva Śaṅkara शिव शङ्कर; worshiping Viśveśvara विश्वेश्वर after taking bath at Vīrakuṇḍa वीरकुण्ड; worshiping Āmardakeśvara आमर्दकेश्वर, Pāpabhakṣeśa पापभक्षेश; worshiping Kālabhairava कालभैरव after taking bath at Kālakuṇḍa कालकुण्ड; worshiping Navagraha नवग्रह, Kāleśa कालेश, Kṛttivāseśvara कृत्तिवासेश्वर, Viśveśvara विश्वेश्वर; worshiping Agnidhreśvara अग्निध्रेश्वर after taking bath at Śivagaṅgā शिवगङ्गा; worshiping Śrīmadoṅkāra श्रीमदोङ्कार after taking bath at Oṅkārakuṇḍa; ओङ्कारकुण्ड; worshiping Trilocana त्रिलोचन after taking bath at Pilippilla पिलिप्पिल्ल; worshiping Someśa सोमेश after taking bath at Someśatīrtha सोमेशतीर्थ; worshiping Kedāra केदार after taking bath at Kedārakuṇḍa केदारकुण्ड. Kaśī काशी harbors several ŚivaTīrthaKṣetra शिवतीर्थक्षेत्र that are outlined in ŚivaRahasyam saptāṃśaḥ शिवरहस्यं सप्तांशः. Proofread by Ruma Dewan
% Text title            : Vipraih Proktam Kashiyatropadesham
% File name             : vipraiHproktaMkAshIyAtropadesham.itx
% itxtitle              : kAshIyAtropadesham vipraiHproktaM (shivarahasyAntargatam)
% engtitle              : vipraiHproktaM kAshIyAtropadesham
% Category              : shiva, shivarahasya, tIrthakShetra, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 29 shivagaurIsaMvAde kAshIprabhAvakathanam | 272-295||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org