विश्वावसुप्रोक्तं शिवार्चनमहिमानुवर्णनम्

विश्वावसुप्रोक्तं शिवार्चनमहिमानुवर्णनम्

- विश्वावसुपुत्रसंवदे - विश्वावसुः - शिवं सर्वोत्तमं मत्वा भजध्वमतियत्नतः । अन्यथा मदनावस्था भविष्यति न संशयः ॥ ८५॥ शङ्करे सर्वदा प्रीतिर्विधेया स दयार्णवः । अपर्णारमणः प्रीतिः प्रणतो मुक्तिदायकः ॥ ८६॥ प्रीतश्चेत् स ददाति शैलतनयाकान्तः प्रभुत्वं परं लोकानामविनश्वरं सततमप्यन्ते तु मुक्तिं पराम् । तं तावन्निगमान्तवाक्यविनुतं सन्तः कृतार्थाः परं संसाराद्विरताः प्रयान्ति शरणं देवाग्रगण्यं मुहुः ॥ ८७॥ यावत्पूजा सावधानं क्रियते गिरिजापतेः । तावन्न हानिवार्तापि हानिर्दुरतरा यतः ॥ ८८॥ शङ्कराराधनोद्युक्ते सिद्धयस्तु पदे पदे । ततो न दुःखवार्तापि भो पुत्राः शम्भुपूजकाः ॥ ८९॥ शिवपूजासाधनानि कुसुमानि वने वने । अतिरम्याणि तिष्ठन्ति पूजयध्वं सदाशिवम् ॥ ९०॥ अरुणोदयवेलायां कुरुध्वं शिवचिन्तनम् । ध्येयः साम्बो महादेवः सर्वमङ्गलविग्रहः ॥ ९१॥ ततः स्नात्वा भस्मनापि सम्यगुद्धूल्य सादरम् । त्रिपुण्ड्रधारणं कार्यं कार्यं रुद्राक्षधारणम् ॥ ९२॥ ततः परं शङ्करमन्दिरेषु सम्यक् शिवाराधनसाधनानि । सम्पाद्य पूजापि विधे विधेया कार्या प्रयत्नेन च शाङ्गलिङ्गे ॥ ९३॥ (सम्पाद्य पूजा विविधैर्विधानैः कार्या प्रयत्नेन च शाङ्गलिङ्गे)॥ ९३॥ शिवलिङ्गार्चनं काले काले कार्यं निरन्तरम् । तेनैव पापनाशः स्यात् सुखं मुक्तिश्च जायते ॥ ९४॥ यद्यप्यत्यन्तसुलभं शाम्भवानां शिवार्चनम् । तथापि दुर्लभं मन्ये प्रमादे सति सर्वथा ॥ ९५॥ अप्रमादेन कर्तव्यं श्रीमहादेवपूजनम् । स्वप्नेऽप्यन्यसुरार्चायां आदरस्त्याज्य एव हि ॥ ९६॥ त्याज्यं सर्वात्मना त्याज्यं शिवान्यसुरपूजनम् । स्वप्नेऽपि शिवपूजैव कर्तव्यातिप्रयत्नतः ॥ ७७॥ अशिवानि भविष्यन्ति शिवान्यसुरपूजनात् । अतस्तन्नैव कर्तव्यं न कर्तव्यं कदाचन ॥ ९८॥ वाञ्छितं शिवमस्माकं अतः कार्यं शिवार्चनम् । यतः स्वयं शिवः क्षीरं कामधेनुः शिवार्चनम् ॥ ९९॥ शिवार्चनस्य महिमा न ज्ञातो ब्रह्मणाप्यतः । तज्ज्ञानविरहेऽप्याशु कर्तव्यं शिवपूजनम् ॥ १००॥ कालान्तरे मया कार्यं शिवपूजनमित्यपि । आलस्यं नैव कर्तव्यं कालो हि कठिनो यतः ॥ १०१॥ क्व तावदायुरस्माकमित्येवाद्भुतचिन्तया । कर्तव्यमिति यत्नेन सत्वरं शिवपूजनम् ॥ १०२॥ विषमप्यमृतं भूयादालस्येन ततः सुताः । कर्तव्यमतियत्नेन लिङ्गे शङ्गार्चनं मुदा ॥ १०३॥ शाङ्गलिङ्गार्चनं लोके सर्वदा दुर्लभं सुताः । विघ्नानपि निराकृत्य कुर्वन्तु शिवपूजनम् ॥ १०४॥ शिवार्चनस्य समये यदि विघ्नो भविष्यति । तदा तन्नाश्ययत्नेन कर्तव्यं शिवपूजनम् ॥ १०५॥ शिवार्चनं खलु श्रेयः श्रेयसां विघ्नसम्भवः । सम्भावितस्ततस्तस्य नाशोऽपि शिवपूजया ॥ १०६॥ शिवार्चनं परं तावत् सर्वारिष्टविनाशनम् । सर्वेष्टदायकं चेति कर्तव्यं शिवपूजनम् ॥ १०७॥ शिवार्चनात् परं लोके किंवा पुण्यं भविष्यति । तत् पुण्योत्तममित्येव ज्ञातव्यं सर्वथा बुधैः ॥ १०८॥ येन केनापि वा भक्त्या कृतं यदि शिवार्चनम् । तदा ददाति गौरीशस्तस्मै मुक्तिमसंशयम् ॥ १०९॥ अपारसुकृताम्बुधिर्यदि भवेत् प्रवृद्धस्तदा शिवार्चनरतिभवेदिति मतिः प्रवृद्धा ततः । अवश्यमसकृत्स्मृतः प्रणत एव वा पूजितो ददाति परमं पदं गिरिश इत्यवैमि ध्रुवम् ॥ ११०॥ विनाशयति पातकामितमहागिरीनेकदा स्मृतोऽपि गिरिशः सुताः सकृदपारपुण्यप्रदः । स एव सुरपुङ्गवैर्मनसि सर्वदा पूज्यते स एव मुनिपुङ्गवैरपि समाधिनिष्ठैरपि ॥ १११॥ अपूर्वमीशार्चनमेकमेव लोके प्रसिद्धं सकलार्थहेतुः । तत्तुल्यमन्यन्न मयापि दृष्टं वेदैर्न दृष्टं सुरपुङ्गवैर्वा ॥ ११२॥ न यागदानाध्ययनादिभिर्वा लिङ्गार्चनात्यादरपुण्यतुल्यम् । पुण्यं भविष्यत्यत एव तावत् तत्पुण्यपुण्यं विदुरास्तिकास्ते ॥ ११३॥ आचारमन्यद्वक्ष्यामि (रहस्यमन्यद्वक्ष्यामि)श‍ृणुध्वमतिसादरम् । श्रुते तस्मिन् शिवाचारे भक्तिवृद्धिर्भविष्यति ॥ ११४॥ या शिवार्चनसामग्री सर्वा सा भूतिपावना । कर्तव्या मूलमन्त्रेण तया तुष्टो भवेत् शिवः ॥ ११५॥ अत्रैवोदाहरन्तीममितिहासं पुरातनम् । विजयानगरे कश्चित् स्थितः शाम्भवपुङ्गवः ॥ ११६॥ स समाराधयन्नेव भावलिङ्गं शिवात्मकम् । भस्मोद्धूलितसर्वाङ्गो ददर्श स्वप्नमेकदा ॥ ११७॥ तैन तीर्थेश्वरो दृष्टः स्वप्ने सर्वसुरेश्वरः । दृष्टाश्च शाम्भवास्तत्र शिवध्यानपरायणाः ॥ ११८॥ भस्मोद्धूलितरुद्राक्षत्रिपुण्ड्राङ्कितमस्तकाः । शिवलिङ्गार्चनेनैव सन्तुष्टाः सततं मुदा ॥ ११९॥ तल्लिङ्गपूजनं दृष्टा विमलैर्बिल्वपल्लवैः । नीलोत्पलैः पुण्डरीकैः कुन्दैश्च कुमुदैरपि ॥ १२०॥ रत्नाभरणसंयुक्तं दुकूलपरिवेष्टितम् । दिव्योपहारसंहारफलराजिविराजितम् ॥ १२१॥ धूपधूमसमाक्रान्तं पुष्पगन्धविराजितम् । कर्पूरदीपमालाभिः परितः परिवेष्टितम् ॥ १२२॥ वेदैर्मूर्तिधरैरेव स्तुतं सर्वार्थसिद्धिदम् । सर्वमङ्गलदं नित्यं स्मरणेनापि तत्परम् ॥ १२३॥ गीतनाट्यसमारम्भतत्तद्ध्वनिविराजितम् । देवदुन्दुभिनिर्घोषप्रतिध्वनिविजृम्भितम् ॥ १२४॥ देवगन्धर्वनारीणां समूहैश्च विराजितम् । गौरीपूजनसंसक्तसुरनारी समन्वितम् ॥ १२५॥ तादृशं मन्दिरं दृष्ट्वा तीर्थेशस्य स शाम्भवः । पूजां तीर्थेशलिङ्गस्य चकारातीव भक्तितः ॥ १२६॥ पञ्चामृताभिषेकाद्यैः चन्दनैश्च मनोहरैः । दुकूलैः कुसुमैर्दिव्यैः मन्दाराद्यैर्विशेषतः ॥ १२७॥ धूपदीपादिभिर्दिव्यैः नैवेद्यैरपि सादरम् । नीराजनैश्च विविधैः दिव्यकर्पूरसम्भवैः ॥ १२८॥ प्रदक्षिणनमस्कारान् कृत्वा भक्तिपुरःसरम् । उपविष्टः शिवं पश्यन् जपन् पञ्चाक्षरं मनुम् ॥ १२९॥ तावन्नियममासाद्य तृषितेन जलान्यपि । न पीतान्येव तेनातः पिपासा वृद्धिमाप सा ॥ १३०॥ ततः परं समानीतं पानीयमतिशोभनम् । कृत्वा शिवार्पणं पातुं स चकार मतिं ततः ॥ १३१॥ तदानीमागतः कोऽपि तस्मिन् गिरिशमन्दिरे । भूतिरुद्राक्षवीताङ्गः शिवनामजपोत्सुकः ॥ १३२॥ समागत्य स तं प्राह शाम्भवाग्रे परं प्रियम् । मामा पिब जलं विप्र तदीशानर्पितं यतः ॥ १३३॥ शिवभक्तोऽसि धन्योऽसि तदीशानार्पितं जलम् । पातुमिच्छसि किं तत्तु गिरिशाय समर्पय ॥ १३४॥ तज्जलं भूतिसंयुक्तं कुरु भस्मविवर्जितम् । न गृह्णाति जलं शम्भुर्गाङ्गं वा किमुतेतरत् ॥ १३५॥ यञ्जलं भूतिसंयुक्तं न भविष्यति तज्जलम् । अदेयं शङ्करायेति न ज्ञातं किं त्वया परम् ॥ १३६॥ यद्यद्देयं महेशाय तद्भस्मरहितं यदि । न गृह्णाति महादेवस्ततो मा पिब तञ्जलम् ॥ १३७॥ ततः परं विभूतिर्वा क्वास्तीत्युक्तः स शाङ्करः । प्राह भूतिं गृहाणेति शाम्भवाय महात्मने ॥ १३८॥ ततो गृहीत्वा तां भूतिं भूतिदामतिभक्तितः । प्रक्षिप्य जलमध्ये तु मूलमन्त्रेण सादरम् ॥ १३९॥ ततस्तेनैव मन्त्रेण तत्कृत्वा शङ्करार्पणम् । पपौ शिवं स्मरन्नेव कृतार्थोऽस्मीति सादरम् ॥ १४०॥ तत्र स्थित्वा कियत्कालं शिवधर्मान् विशेषतः । स तस्मादेव शुश्राव सर्वपापविनाशकान् ॥ १४१॥ धर्मोपदेशके तस्मिन् तस्याभूद्गिरिशत्वधीः । तेन धर्मेषु विश्वासः तदुक्तेष्वभवत तदा ॥ १४२॥ ततः परं समुत्थाय तं प्रणम्यातिभक्तितः । तमेव गुरुरित्युक्त्वा त्यक्तनिद्रोऽभवत् ततः ॥ १४३॥ तस्मात् कुमाराः सर्वाणि पुष्पादीनि विशेषतः । भूतियुक्तानि देयानि मूलमन्त्रेण शम्भवे ॥ १४४॥ अपूतमपि पूतं स्यात् भस्मना संयुतं यदि । तस्माद्भस्मयुतं देयं लिङ्गे बिल्वादिकं सुताः ॥ १४५॥ यदि स्याद्भस्मरहितं पीयूषमपि तत्परम् । विषमित्येव मन्तव्यं यतो नेशार्पणं हि तत् ॥ १४६॥ हारेष्वपि दुकूलेषु सुवर्णाभरणेष्वपि । भूतिर्दया प्रयत्नेन महेशविनिवेदने ॥ १४७॥ शिवनैवेद्यपाकार्थं प्रवृत्तैर्भूतिसंयुतैः । पाकागार प्रवेशोऽपि कर्तव्यो यत्नपूर्वकम् ॥ १४८॥ तेन कीटादिसम्बन्धदोषोऽपि स विनश्यति । भूतिर्नैवेद्यपात्रेऽपि प्रदेया जलसंयुता ॥ १४९॥ भूतिरुद्राक्षपूताङ्गैर्नैवेद्यमपि यत् कृतम् । तद्गृह्णाति महादेवः तदेव हि सुधामयम् ॥ १५०॥ किं तया सुधया पुत्राः किञ्चिद्भस्मान्वितं यदि । जलमप्यपितं भक्त्या तदीशाय सुधां विदुः ॥ पूजनं च महेशस्य भूतिरुद्राक्षभूषितः । कर्तव्यमतियत्नेन मूलमन्त्रेण भक्तितः ॥ १५२॥ यः पञ्चाक्षरमुच्चरन् अतिसितां भूतिं वहन् मस्तके भाले वक्षसि बाहुदण्डयुगले रुद्राक्षमालामपि । शर्वाराधनतत्परो जललवैर्बिल्वैश्च दूर्वाङ्कुरैः पुष्पैर्वा स शिवं प्रयाति स परं धन्योत्तमो वस्तुतः ॥ १५३॥ त्यज त्यज तटिन्नटीविधिवधूटिकाचेटिका विकारकरमिन्दिरारुचिरभूविहारं परम् । भजाशु भज धूर्जटिं पटुकृपीटयोनिस्फुर- ल्ललाटपटलोल्लसत्समभिभूतभानुप्रभम् ॥ १५४॥ ॥ इति शिवरहस्यान्तर्गते विश्वावसुप्रोक्तं शिवार्चनमहिमानुवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ३६। ८५-१५४ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 36. 85-154 .. Proofread by Ruma Dewan
% Text title            : Vishvavasuproktam Shivarchanamahimanuvarnam
% File name             : vishvAvasuproktaMshivArchanamahimAnuvarNanam.itx
% itxtitle              : shivArchanamahimAnuvarNanam vishvAvasuproktam (shivarahasyAntargatam)
% engtitle              : vishvAvasuproktaM shivArchanamahimAnuvarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 36 | 85-154 ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org