विश्वावसुप्रोक्तं शिवार्चनमहिमानुवर्णनम्
- विश्वावसुपुत्रसंवदे -
विश्वावसुः -
शिवं सर्वोत्तमं मत्वा भजध्वमतियत्नतः ।
अन्यथा मदनावस्था भविष्यति न संशयः ॥ ८५॥
शङ्करे सर्वदा प्रीतिर्विधेया स दयार्णवः ।
अपर्णारमणः प्रीतिः प्रणतो मुक्तिदायकः ॥ ८६॥
प्रीतश्चेत् स ददाति शैलतनयाकान्तः प्रभुत्वं परं
लोकानामविनश्वरं सततमप्यन्ते तु मुक्तिं पराम् ।
तं तावन्निगमान्तवाक्यविनुतं सन्तः कृतार्थाः
परं संसाराद्विरताः प्रयान्ति शरणं देवाग्रगण्यं मुहुः ॥ ८७॥
यावत्पूजा सावधानं क्रियते गिरिजापतेः ।
तावन्न हानिवार्तापि हानिर्दुरतरा यतः ॥ ८८॥
शङ्कराराधनोद्युक्ते सिद्धयस्तु पदे पदे ।
ततो न दुःखवार्तापि भो पुत्राः शम्भुपूजकाः ॥ ८९॥
शिवपूजासाधनानि कुसुमानि वने वने ।
अतिरम्याणि तिष्ठन्ति पूजयध्वं सदाशिवम् ॥ ९०॥
अरुणोदयवेलायां कुरुध्वं शिवचिन्तनम् ।
ध्येयः साम्बो महादेवः सर्वमङ्गलविग्रहः ॥ ९१॥
ततः स्नात्वा भस्मनापि सम्यगुद्धूल्य सादरम् ।
त्रिपुण्ड्रधारणं कार्यं कार्यं रुद्राक्षधारणम् ॥ ९२॥
ततः परं शङ्करमन्दिरेषु सम्यक् शिवाराधनसाधनानि ।
सम्पाद्य पूजापि विधे विधेया कार्या प्रयत्नेन च शाङ्गलिङ्गे ॥ ९३॥
(सम्पाद्य पूजा विविधैर्विधानैः कार्या प्रयत्नेन च शाङ्गलिङ्गे)॥ ९३॥
शिवलिङ्गार्चनं काले काले कार्यं निरन्तरम् ।
तेनैव पापनाशः स्यात् सुखं मुक्तिश्च जायते ॥ ९४॥
यद्यप्यत्यन्तसुलभं शाम्भवानां शिवार्चनम् ।
तथापि दुर्लभं मन्ये प्रमादे सति सर्वथा ॥ ९५॥
अप्रमादेन कर्तव्यं श्रीमहादेवपूजनम् ।
स्वप्नेऽप्यन्यसुरार्चायां आदरस्त्याज्य एव हि ॥ ९६॥
त्याज्यं सर्वात्मना त्याज्यं शिवान्यसुरपूजनम् ।
स्वप्नेऽपि शिवपूजैव कर्तव्यातिप्रयत्नतः ॥ ७७॥
अशिवानि भविष्यन्ति शिवान्यसुरपूजनात् ।
अतस्तन्नैव कर्तव्यं न कर्तव्यं कदाचन ॥ ९८॥
वाञ्छितं शिवमस्माकं अतः कार्यं शिवार्चनम् ।
यतः स्वयं शिवः क्षीरं कामधेनुः शिवार्चनम् ॥ ९९॥
शिवार्चनस्य महिमा न ज्ञातो ब्रह्मणाप्यतः ।
तज्ज्ञानविरहेऽप्याशु कर्तव्यं शिवपूजनम् ॥ १००॥
कालान्तरे मया कार्यं शिवपूजनमित्यपि ।
आलस्यं नैव कर्तव्यं कालो हि कठिनो यतः ॥ १०१॥
क्व तावदायुरस्माकमित्येवाद्भुतचिन्तया ।
कर्तव्यमिति यत्नेन सत्वरं शिवपूजनम् ॥ १०२॥
विषमप्यमृतं भूयादालस्येन ततः सुताः ।
कर्तव्यमतियत्नेन लिङ्गे शङ्गार्चनं मुदा ॥ १०३॥
शाङ्गलिङ्गार्चनं लोके सर्वदा दुर्लभं सुताः ।
विघ्नानपि निराकृत्य कुर्वन्तु शिवपूजनम् ॥ १०४॥
शिवार्चनस्य समये यदि विघ्नो भविष्यति ।
तदा तन्नाश्ययत्नेन कर्तव्यं शिवपूजनम् ॥ १०५॥
शिवार्चनं खलु श्रेयः श्रेयसां विघ्नसम्भवः ।
सम्भावितस्ततस्तस्य नाशोऽपि शिवपूजया ॥ १०६॥
शिवार्चनं परं तावत् सर्वारिष्टविनाशनम् ।
सर्वेष्टदायकं चेति कर्तव्यं शिवपूजनम् ॥ १०७॥
शिवार्चनात् परं लोके किंवा पुण्यं भविष्यति ।
तत् पुण्योत्तममित्येव ज्ञातव्यं सर्वथा बुधैः ॥ १०८॥
येन केनापि वा भक्त्या कृतं यदि शिवार्चनम् ।
तदा ददाति गौरीशस्तस्मै मुक्तिमसंशयम् ॥ १०९॥
अपारसुकृताम्बुधिर्यदि भवेत् प्रवृद्धस्तदा
शिवार्चनरतिभवेदिति मतिः प्रवृद्धा ततः ।
अवश्यमसकृत्स्मृतः प्रणत एव वा पूजितो
ददाति परमं पदं गिरिश इत्यवैमि ध्रुवम् ॥ ११०॥
विनाशयति पातकामितमहागिरीनेकदा
स्मृतोऽपि गिरिशः सुताः सकृदपारपुण्यप्रदः ।
स एव सुरपुङ्गवैर्मनसि सर्वदा पूज्यते
स एव मुनिपुङ्गवैरपि समाधिनिष्ठैरपि ॥ १११॥
अपूर्वमीशार्चनमेकमेव लोके प्रसिद्धं सकलार्थहेतुः ।
तत्तुल्यमन्यन्न मयापि दृष्टं वेदैर्न दृष्टं सुरपुङ्गवैर्वा ॥ ११२॥
न यागदानाध्ययनादिभिर्वा लिङ्गार्चनात्यादरपुण्यतुल्यम् ।
पुण्यं भविष्यत्यत एव तावत् तत्पुण्यपुण्यं विदुरास्तिकास्ते ॥ ११३॥
आचारमन्यद्वक्ष्यामि (रहस्यमन्यद्वक्ष्यामि)शृणुध्वमतिसादरम् ।
श्रुते तस्मिन् शिवाचारे भक्तिवृद्धिर्भविष्यति ॥ ११४॥
या शिवार्चनसामग्री सर्वा सा भूतिपावना ।
कर्तव्या मूलमन्त्रेण तया तुष्टो भवेत् शिवः ॥ ११५॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
विजयानगरे कश्चित् स्थितः शाम्भवपुङ्गवः ॥ ११६॥
स समाराधयन्नेव भावलिङ्गं शिवात्मकम् ।
भस्मोद्धूलितसर्वाङ्गो ददर्श स्वप्नमेकदा ॥ ११७॥
तैन तीर्थेश्वरो दृष्टः स्वप्ने सर्वसुरेश्वरः ।
दृष्टाश्च शाम्भवास्तत्र शिवध्यानपरायणाः ॥ ११८॥
भस्मोद्धूलितरुद्राक्षत्रिपुण्ड्राङ्कितमस्तकाः ।
शिवलिङ्गार्चनेनैव सन्तुष्टाः सततं मुदा ॥ ११९॥
तल्लिङ्गपूजनं दृष्टा विमलैर्बिल्वपल्लवैः ।
नीलोत्पलैः पुण्डरीकैः कुन्दैश्च कुमुदैरपि ॥ १२०॥
रत्नाभरणसंयुक्तं दुकूलपरिवेष्टितम् ।
दिव्योपहारसंहारफलराजिविराजितम् ॥ १२१॥
धूपधूमसमाक्रान्तं पुष्पगन्धविराजितम् ।
कर्पूरदीपमालाभिः परितः परिवेष्टितम् ॥ १२२॥
वेदैर्मूर्तिधरैरेव स्तुतं सर्वार्थसिद्धिदम् ।
सर्वमङ्गलदं नित्यं स्मरणेनापि तत्परम् ॥ १२३॥
गीतनाट्यसमारम्भतत्तद्ध्वनिविराजितम् ।
देवदुन्दुभिनिर्घोषप्रतिध्वनिविजृम्भितम् ॥ १२४॥
देवगन्धर्वनारीणां समूहैश्च विराजितम् ।
गौरीपूजनसंसक्तसुरनारी समन्वितम् ॥ १२५॥
तादृशं मन्दिरं दृष्ट्वा तीर्थेशस्य स शाम्भवः ।
पूजां तीर्थेशलिङ्गस्य चकारातीव भक्तितः ॥ १२६॥
पञ्चामृताभिषेकाद्यैः चन्दनैश्च मनोहरैः ।
दुकूलैः कुसुमैर्दिव्यैः मन्दाराद्यैर्विशेषतः ॥ १२७॥
धूपदीपादिभिर्दिव्यैः नैवेद्यैरपि सादरम् ।
नीराजनैश्च विविधैः दिव्यकर्पूरसम्भवैः ॥ १२८॥
प्रदक्षिणनमस्कारान् कृत्वा भक्तिपुरःसरम् ।
उपविष्टः शिवं पश्यन् जपन् पञ्चाक्षरं मनुम् ॥ १२९॥
तावन्नियममासाद्य तृषितेन जलान्यपि ।
न पीतान्येव तेनातः पिपासा वृद्धिमाप सा ॥ १३०॥
ततः परं समानीतं पानीयमतिशोभनम् ।
कृत्वा शिवार्पणं पातुं स चकार मतिं ततः ॥ १३१॥
तदानीमागतः कोऽपि तस्मिन् गिरिशमन्दिरे ।
भूतिरुद्राक्षवीताङ्गः शिवनामजपोत्सुकः ॥ १३२॥
समागत्य स तं प्राह शाम्भवाग्रे परं प्रियम् ।
मामा पिब जलं विप्र तदीशानर्पितं यतः ॥ १३३॥
शिवभक्तोऽसि धन्योऽसि तदीशानार्पितं जलम् ।
पातुमिच्छसि किं तत्तु गिरिशाय समर्पय ॥ १३४॥
तज्जलं भूतिसंयुक्तं कुरु भस्मविवर्जितम् ।
न गृह्णाति जलं शम्भुर्गाङ्गं वा किमुतेतरत् ॥ १३५॥
यञ्जलं भूतिसंयुक्तं न भविष्यति तज्जलम् ।
अदेयं शङ्करायेति न ज्ञातं किं त्वया परम् ॥ १३६॥
यद्यद्देयं महेशाय तद्भस्मरहितं यदि ।
न गृह्णाति महादेवस्ततो मा पिब तञ्जलम् ॥ १३७॥
ततः परं विभूतिर्वा क्वास्तीत्युक्तः स शाङ्करः ।
प्राह भूतिं गृहाणेति शाम्भवाय महात्मने ॥ १३८॥
ततो गृहीत्वा तां भूतिं भूतिदामतिभक्तितः ।
प्रक्षिप्य जलमध्ये तु मूलमन्त्रेण सादरम् ॥ १३९॥
ततस्तेनैव मन्त्रेण तत्कृत्वा शङ्करार्पणम् ।
पपौ शिवं स्मरन्नेव कृतार्थोऽस्मीति सादरम् ॥ १४०॥
तत्र स्थित्वा कियत्कालं शिवधर्मान् विशेषतः ।
स तस्मादेव शुश्राव सर्वपापविनाशकान् ॥ १४१॥
धर्मोपदेशके तस्मिन् तस्याभूद्गिरिशत्वधीः ।
तेन धर्मेषु विश्वासः तदुक्तेष्वभवत तदा ॥ १४२॥
ततः परं समुत्थाय तं प्रणम्यातिभक्तितः ।
तमेव गुरुरित्युक्त्वा त्यक्तनिद्रोऽभवत् ततः ॥ १४३॥
तस्मात् कुमाराः सर्वाणि पुष्पादीनि विशेषतः ।
भूतियुक्तानि देयानि मूलमन्त्रेण शम्भवे ॥ १४४॥
अपूतमपि पूतं स्यात् भस्मना संयुतं यदि ।
तस्माद्भस्मयुतं देयं लिङ्गे बिल्वादिकं सुताः ॥ १४५॥
यदि स्याद्भस्मरहितं पीयूषमपि तत्परम् ।
विषमित्येव मन्तव्यं यतो नेशार्पणं हि तत् ॥ १४६॥
हारेष्वपि दुकूलेषु सुवर्णाभरणेष्वपि ।
भूतिर्दया प्रयत्नेन महेशविनिवेदने ॥ १४७॥
शिवनैवेद्यपाकार्थं प्रवृत्तैर्भूतिसंयुतैः ।
पाकागार प्रवेशोऽपि कर्तव्यो यत्नपूर्वकम् ॥ १४८॥
तेन कीटादिसम्बन्धदोषोऽपि स विनश्यति ।
भूतिर्नैवेद्यपात्रेऽपि प्रदेया जलसंयुता ॥ १४९॥
भूतिरुद्राक्षपूताङ्गैर्नैवेद्यमपि यत् कृतम् ।
तद्गृह्णाति महादेवः तदेव हि सुधामयम् ॥ १५०॥
किं तया सुधया पुत्राः किञ्चिद्भस्मान्वितं यदि ।
जलमप्यपितं भक्त्या तदीशाय सुधां विदुः ॥
पूजनं च महेशस्य भूतिरुद्राक्षभूषितः ।
कर्तव्यमतियत्नेन मूलमन्त्रेण भक्तितः ॥ १५२॥
यः पञ्चाक्षरमुच्चरन् अतिसितां भूतिं वहन् मस्तके
भाले वक्षसि बाहुदण्डयुगले रुद्राक्षमालामपि ।
शर्वाराधनतत्परो जललवैर्बिल्वैश्च दूर्वाङ्कुरैः
पुष्पैर्वा स शिवं प्रयाति स परं धन्योत्तमो वस्तुतः ॥ १५३॥
त्यज त्यज तटिन्नटीविधिवधूटिकाचेटिका
विकारकरमिन्दिरारुचिरभूविहारं परम् ।
भजाशु भज धूर्जटिं पटुकृपीटयोनिस्फुर-
ल्ललाटपटलोल्लसत्समभिभूतभानुप्रभम् ॥ १५४॥
॥ इति शिवरहस्यान्तर्गते विश्वावसुप्रोक्तं शिवार्चनमहिमानुवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ३६। ८५-१५४ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 36. 85-154 ..
Proofread by Ruma Dewan