यजुर्वेदप्रोक्ता शिवस्तुतिः

यजुर्वेदप्रोक्ता शिवस्तुतिः

(शिवरहस्यान्तर्गते उग्राख्ये) यजुर्वेद उवाच अणोरणीयान्महतो महीया- नात्मा गुहायां निहितोऽस्य जन्तोः । तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥ ६१॥ ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं वदाम्यहम् ॥ ६२॥ हिरण्यबाहुमीशानं हिरण्यपतिमव्ययम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ ६३॥ अम्बिकापतिमव्यक्तमुमापतिमनामयम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ ६४॥ रुद्रं पशुपति स्थाणुमाद्यन्तरहितं शिवम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ ६५॥ अनन्तमप्रतीकारमपरावृत्ततेजसम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ ६६॥ आनन्दमयमीशानमद्वैतं निष्कलं प्रभुम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ ६७॥ निर्गुणं निर्मलं शुद्धं निरवद्यं निरञ्जनम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ ६८॥ शान्तं प्रसन्नवदनमुमासंश्लिष्टविग्रहम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ ६९॥ उग्रं भीमं भवं शर्वं भक्तसर्वप्रदं हरम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ ७०॥ महेशं शङ्करं शम्भुं शरणागतवत्सलम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ ७१॥ भगवन्तमुमाकान्तमनन्तमपराजितम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ ७२॥ विश्वेश्वरं महादेवं त्रियम्बकमजं शिवम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ ७३॥ त्रिपुरान्तकमाराध्यमाराधकवरप्रदम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ ७४॥ त्रिकाग्निकालं साकरं निराकारं सुमङ्गलम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ ७५॥ कालाग्निरुद्रं कामारिं कालकूटविषादनम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ ७६॥ नीलकण्ठं भस्मभूषं सर्वेश्वरमकल्मषम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ ७७॥ सदाशिव शिवाकारं महादेवमुमापतिम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ ७८॥ ईशानं सर्वविद्यानां सर्वविद्याप्रदं सदा । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ ७९॥ ईश्वरं सर्वभूतानां ब्रह्माधिपतिमक्षयम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ ८०॥ ब्रह्मणोऽधिपतिं देव परब्रह्म शिवात्मकम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ ८१॥ विश्वतश्चक्षुषं देवं विश्वतोमुखमव्ययम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ ८२॥ विश्वतो बाहुमव्यक्तं विश्वतः पादमक्षरम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ ८३॥ समस्तहेतुमाशास्यं सोमं सोमार्धशेखरम् । भस्म धृत्वा ललाटादौ भजध्वं वृषभध्वजम् ॥ ८४॥ भजध्वं श्रीमहादेवं चतुर्वर्गफलप्रदम् । हरिं हरन्तं श्रीरुद्रं विश्वस्येशानमव्ययम् ॥ ८५॥ भजध्वं मुनयो नित्यं त्यक्त्वान्यामरपूजनम् । भ्रमं त्यक्त्वा भवन्तस्तु भवानीरमणं प्रभुं ॥ ८६॥ भगवन्तं भवारातिं भजध्वमभयप्रदम् ॥ ८७॥ ॥ इति शिवरहस्यान्तर्गते यजुर्वेदप्रोक्ता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २२। ६१-८७॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 22 . 61-87.. Proofread by Ruma Dewan
% Text title            : Yajurvedaprokta Shiva Stuti
% File name             : yajurvedaproktAshivastutiH.itx
% itxtitle              : shivastutiH yajurvedaproktA (shivarahasyAntargatA)
% engtitle              : yajurvedaproktA shivastutiH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 22| 61-87||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org