यमप्रोक्तं शिवार्चनोपदेशम् २
(शिवरहस्यान्तर्गते उग्राख्ये)
यम उवाच ।
यः पूजयति यत्नेन स शिवो भवति ध्रुवम् ।
विना यज्ञैर्विना दानैस्तपोभिश्च विना शिवम् ॥ ३३३॥
सम्पूज्य बिल्वपत्रेण प्राप्तानन्दाः शिवाः ध्रुवम् ।
अनन्तान्यपि पापानि नश्यन्ति शिवपूजया ॥ ३३४॥
ततः प्रयाति च शिवं तयैव शिवपूजया ।
अनन्तोत्तमगोदानभूदानानां च यत्फलम् ॥ ३३५॥
ततोऽनन्तगुणं पुण्यं शिवपूजाविधेः फलम् ।
अनन्तमत्तमातङ्गदानानामपि यत्फलम् ॥ ३३६॥
ततोऽनन्तगुणं पुण्यं शिवपूजाविधेः फलम् ।
शिवपूजाकल्पवृक्षः स्वेष्टानन्तफलप्रदः ॥ ३३७॥
ततः सा सर्वदा कार्या शिवपूजां मुमुक्षुभिः ।
शिवार्चनफलं यावत्तावत्फलमनेकधा ॥ ३३८॥
कृतैरप्यमृ(मि)तैर्धमैर्नैव सम्प्राप्यते ध्रुवम् ।
विनापि यज्ञदानाद्यैः केवलं शिवपूजया ॥ ३३९॥
मुक्ता भवन्ति मनुजास्त्यक्तपातकपञ्जराः ।
पापिनोऽपि शिवं यान्ति नूनं कृतशिवार्चनाः ॥ ३४०॥
न तपोमूर्तयोऽपीशं यान्ति त्यक्तशिवार्चनाः ।
वृथा तपो वृथा दानं धर्माश्च विविधा वृथा ॥ ३४१॥
किन्त्वेकं सार्थकं श्रौतं श्रीमहादेवपूजनम् ।
शिवे दत्तमयत्नेनाप्येकं बिल्वदलं नवम् ॥ ३४२॥
विना धर्मान्तरापेक्षां मोक्षदं भवति ध्रुवम् ।
सम्प्राप्य महदैश्वर्यमिन्द्रत्वादिपदान्यापि ॥ ३४३॥
बहुभिः शिवसायुज्यं प्राप्तं शङ्करपूजया ।
सकृदप्यर्चितो भक्त्या महेशः करुणानिधिः ॥ ३४४॥
ददात्यतुलमैश्वर्यं स्वसायुज्यं च शाश्वतम् ।
सुते पितेव तनुते प्रीतिमीशः स्वपूजके ॥ ३४५॥
ततो ददाति सुप्रीतः शिवस्तद्वाञ्छितं फलम् ।
तोयेन विल्वपत्रेण पूतेनैकेन वा शिवम् ॥ ३४६॥
यः पूजयति सश्रद्धं तस्य मुक्तिरदूरतः ।
यः पश्येत्क्रूरया दृष्ट्या मोहात् शङ्करपूजकम् ॥ ३४७॥
स तिष्ठेन्नरकेऽवश्यं यावदाचन्द्रतारकम् ।
धन्यं धन्यं महादेवं पूजकस्यैव जीवनम् ॥ ३४८॥
यो भुक्त्वा विविधान्भोगान्मुक्तिमन्ते समश्नुते ।
तस्यैव जनको मान्यो यस्य पुत्रः शिवार्चकः ॥ ३४९॥
तस्यैव जननी मान्या सुषुवे या शिवार्चकम् ।
तस्य धन्यतरो वंशो यन्त्र जातः शिवार्चकः ॥ ३५०॥
तद्वंशजन्या धन्या हि यद्वंशे शङ्करार्चकाः ।
नृत्यन्ति पितरस्तस्य यस्य वंशे शिवार्चकः ॥ ३५१॥
कदाचिदपि गौरीशं पयसा योऽभिषिञ्चति ।
तस्येह जननीस्तन्यं भविष्यति सुदुर्लभम् ॥ ३५२॥
नरा भवन्ति निष्पापा दृष्ट्वापि शिवपूजकम् ।
अतः शिवार्चको धन्यो भाग्यवांश्च न संशयः ॥ ३५३॥
शिवार्चनेन यल्लभ्यं तल्लभ्यं नान्यधर्मतः ।
यदन्यधर्मतो लभ्यं तल्लभ्यं शिवपूजया ॥ ३५४॥
शिवार्चकास्त्रिपुण्ड्राङ्काः शिवपारिषदाः दोऽमलाः
(दाः शुभाः) ।
नमो नमः शाम्भवेभ्यः शाम्भवेभ्यो नमो नमः ॥ ३५५॥
नमो नमः शाम्भवेभ्यः पुनर्भूयो नमो नमः ।
भुव्यन्तरिक्षे पाताले ये भविष्यन्ति शाम्भवाः ॥ ३५६॥
तभ्यो नमो नमो नित्यं नमो नित्यं नमो नमः ।
अस्माभिरेते दृश्यन्ते भाग्येन शिवपूजकाः ॥ ३५७॥
भूरिभाग्यं विनाऽस्माकं कुतः शाम्भवदर्शनम् ।
अनन्तदानधर्माणामनन्ततपसामपि ॥ ३५८॥
फलं श्रुतिश्रुतं साक्षादन्तकाले शिवार्चनम् ।
येन केनापि रूपेण यस्य कस्यापि देहिनः ॥ ३५९॥
यद्यन्ते शिवपूजा स्यात्स मुक्तो भवति ध्रुवम् ।
॥ इति शिवरहस्यान्तर्गते यमसभासदप्रति यमप्रोक्तं शिवार्चनोपदेशं २ सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २८ मध्यार्जुनमहिमानुवर्णनम् । ३३३-३५९॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 28 madhyArjunamahimAnuvarNanam . 333-359..
Notes:
Yama यम; delivers Upadeśa उपदेश (to Yamasabhāsada यमसभासद) about merits of worshiping Śiva शिव.
Proofread by Ruma Dewan