श्रीषडाननदण्डकम्

श्रीषडाननदण्डकम्

श्रीमहागणपतये नमः । हरिः ॐ । श्रीरामश्रीकेशवश्रीरामगुरुचरणारविन्दाभ्यां नमः । श्रीकुमारगुरवे नमः । तारकान्तकाय नमः । ॐ । अन्तेवसन्मानसराजहंसं षड्दर्शनीनीरधिपूर्णचन्द्रम् । प्रतीपविद्वत्करिपञ्चवक्त्रं श्रीकेशवं देशिकमानतोऽस्मि ॥ १॥ प्रणम्य रामदेशिकं गणेशमम्बुजार्भकं मुरान्तकं पुरान्तकं दुरन्ततापवारकम् । समस्तपूरुषार्थदं षडाननस्य दण्डकं करोमि धीमतां मुदे कुमारभक्तिसम्पदे ॥ २॥ कुन्देन्दुमन्दस्मितसुन्दरास्यं वन्दारुभूदेववरैरुपास्यम् । वृन्दारकारातिजनैरशास्यं वन्दे भवानीतनयं षडास्यम् ॥ ३॥ जय गङ्गावरसुत जय गाङ्गेयभूषित । जय सङ्गीतचरित जय भृङ्गिमुखार्चित ॥ ४॥ जय शिवसुत सर्वभूमण्डलालङ्कृतिस्वर्धुनीभानुजाभारतीगोमतीनर्मदाबाहुदापुण्यगोदावरीगण्डकी(गौतमी) कृष्णवेणीमहासह्यजीमूत जातुङ्गभद्रादिपुण्यापगावारसम्मिश्रितब्रह्महत्यासुरापानचामीकरस्तेयगुर्वङ्गनागामिताकारितद्योगिपापौघविध्वंसनप्रौढधारानदीतीरनानाविधप्रत्नरत्नावलीबद्धसौवर्णकुम्भावलीसङ्गसम्भिन्नमेघौघनिष्यन्दिकीलालधारासमासक्तसौधाञ्चितोत्तुङ्गगाङ्गेयसालान्तरागारमध्यस्थितानेकमाणिक्यरत्नाढ्यचामीकरोदारसिंहासनाधिष्ठिते, सिद्धसंवेष्टिते; विक्रमौदार्यगाम्भीर्यसद्धैर्यसौन्दर्यकारुण्यतारुण्यदाक्षिण्यसाद्गुण्यसत्पुण्यसन्दोहवाराकरे, भक्तवाञ्छाकरे; नम्रवृन्दारकस्तोममौलिस्फुरत्प्रत्नरत्नव्रजाबद्धसौवर्णकोटीररत्नच्छटादीपिकाराजिनीराजितोदाररेखाध्वजाम्भोजवज्राङ्कुशाद्यङ्कसंयुक्तपादद्वयप्रस्फुरद्भानुबिम्बप्रतिच्छायहैरण्यसद्रत्नजालज्वलन्नूपुरध्वाननिष्पौरुषारातिसन्दोहसंहारके, भक्तसन्तारके; फुल्लसन्मल्लिकापुष्पसन्दोहबाणावलीपूरितानङ्गतूणीरमेधाकरोद्दामजङ्घालते, मञ्जुलीलागते; सप्तसप्तिस्फुरद्बिम्बसम्भावनायोग्यरत्याप्तलीलोपलादर्शबिम्बप्रतिच्छायजानुद्वये, दिव्यकन्याद्वये; हेमपीताम्बरछन्नरम्भातरुद्वन्द्वशोभापराभूतिदानक्षमानङ्गसेनासमुत्तुङ्गमातङ्गशुण्डोपमोरुद्वये, सर्वदोद्यद्दये; मञ्जुशिञ्जत्कटीसूत्रदूरीकृतानङ्गकाण्डासनप्रोतचामीकरज्यालताडम्बरे, दिव्यहेमाम्बरे; रुवमजीमूतमध्यस्थितश्र्याममेवावलीमध्यदेशस्फुरद्देवतानाथबाणासनभ्रान्तिसम्पादकस्वर्णसावर्ण्यसंयुक्तमध्यस्थलप्रोल्लसन्नीलचेलोपरिस्यूतपट्टावलीयुक्तसौवर्णरत्नाढ्यकाञ्चीलताकान्तिविद्योतितध्यानदूरीकृताशेषभक्तौघदुर्वारसंसारतापत्रये, त्रातलोकत्रये ॥ १॥ मनसिजनवरत्नसम्बद्धसौवर्णसोपानकासारसदेहसन्धायकप्रोल्लसद्वृत्तगम्भीरनाभीतटीराजदुद्दामशैवालशङ्काकरोदाररोमावलीनीलशोभासमुल्लाससम्पादितानेक मित्रात्मजे, वैरिमित्रात्मजे; तप्तजाम्बूनदप्रोल्लसत्कोटिशम्पालताकारकान्तिच्छटाटोपदूरीकृताशेषलोकस्थितानन्तवृत्रौघकोट्यर्कसङ्काशनीरन्ध्रनिःसाम्यदिव्योत्तरासङ्गसंवेष्टिते, चित्रसच्चष्टिते; तारकादिद्विषद्वीरवक्त्रावलीपङ्कजव्राततारावलीयुक्तराकाशशिस्तोमसम्भावनायोग्यमुक्तामणिप्रोतनिष्कावलीदीप्ततारावलीचारुतारावलीमुख्यभूषाविशेषप्रभाभास्वरत्पीनविस्तारवक्षःस्थले, चन्द्रवच्छीतले; दिव्यसौवर्णपाञ्चालिकातर्कितानन्यसम्प्राप्यलावण्यमोघीकृताशेषलेखाङ्गनादेहसौन्दर्यसर्वस्वदेदीप्यमानामरेन्द्रात्मजादिव्यसौरभ्य पन्नसिन्दूरपाटीरकस्तूरिकापङ्कसंलिप्तसौवर्णकुम्भोपमस्थूलमुक्तावलीभूषितोत्तुङ्गबर्हिर्मुखाधीशमातङ्गकुम्भाभदिव्यस्तनाश्लेषसंसक्तसिन्दूरमुख्याङ्गरागस्फुरद्दन्तिशुण्डोपमद्वादशार्कप्रतिच्छायरत्नावलीबद्धसौवर्णकेयूरभूषाज्वलद्दोर्लतामण्डले, तोषिताखण्डले; नीलरत्नोर्मिकाकान्तिसन्दोहसन्दर्शनोद्भूतदूर्वाङ्कुरभ्रान्तिशीघ्रागतानेकवातायुपोतावलीलालनासक्तसत्कङ्कणश्रेणिरत्नप्रभारञ्जितस्पष्टरेखाब्जचक्रध्वजाद्यङ्कहस्ताम्बुजे, हस्तिवक्त्रानुजे; शौर्यपद्मालयायुद्धसञ्जातनिर्णिक्ततालस्य शान्त्यर्थकस्वापतूलाढ्यतल्पोपमायोग्यदेवारिमायेयसम्भूतदुर्वारबाधार्तलोकत्रयत्राणधौरेयपीनांसके, वैरिविध्वंसके; स्वर्णकम्बूपमस्पष्टरेखात्रयालङ्कृतप्रत्नरत्नज्वलच्चारुचामीकरोदारदीनारसौवर्णचाम्पेयसन्मल्लिकापुष्पमालावलीभूषितोदारकर्णस्फुरन्निर्मलस्वान्तवैधात्रमुख्येड्ययोगीन्द्रसम्भाविते, भोगिनाथार्चिते ॥ २॥ नवमणिकृतशारदादित्यकोटिप्रतीकाशसन्दीप्तसत्कुण्डलालङ्कृतिप्रोल्लसद्गण्डषड्वक्त्रलावण्यविश्राणिताशेषसौन्दर्यराकोदितानेकजैवातृके, कृत्तिकामातृके; शोणबिम्बाधरद्योतविद्योतमानोल्लसद्दाडिमीबीजराजिप्रतीकाशदन्तालिके, कुम्भिनीबालके; बालिकाश्रोणिकाबद्धसुस्निग्धमुक्तावलीकुन्दपुष्पप्रतीकाशमन्दस्मितोदारकान्तिव्रजानेकचन्द्रप्रभाभासिताशेषदिङ्मण्डले, त्रातसन्मण्डले; फुल्लसन्नागचाम्पेयपुष्पप्रतीकाशनासान्विते, योगिसन्मानिते; शारदाम्भोजराजिप्रतिच्छायकर्णान्तविस्तारनेत्रालिकान्तिच्छटानिम्नगावीचिसन्दोहसञ्चारसंसक्तसन्तोषसन्तुष्टधन्याशये, शक्रकन्याशये; शूर्पकारातिबाणासनाकारसुभ्रूलतालङ्कृतप्रोल्लसत्तारकाधीशखण्डप्रतीकाशकान्तालिकप्रस्फुरद्वक्त्रसौरभ्यलोभभ्रमद्भृङ्गसन्दोहसन्देहसम्पादकस्निग्धकस्तूरिकासल्ललामावलीशोभिते, भूषणैर्भूषिते; नीलजीमूतभृङ्गाभसुस्निग्धमुग्धायतप्रोल्लसत्कुन्तलस्तोमसंदर्शनोऽद्भूतनीलाम्बुदभ्रान्तिसञ्जातसन्तोषनृत्यन्मयूरावलीकण्ठनिर्यत्स्वनापूरिताशेषभूमण्डले, सुप्रभामण्डले; प्रत्नरत्नस्फुरन्मेरुश‍ृङ्गप्रतिच्छायकोट्यर्कसङ्काशसौवर्णकोटीरकान्तिच्छटादीपितानेकलोकव्रजे, शैलकन्यात्मजे; विश्वकर्मप्रतिष्ठापितानेकरत्नाढ्यमेघावलीचुम्बिसौवर्णहर्म्याग्रसंविष्टदेवाङ्गनावारसङ्गीतदेवारिमायेयमुख्यासुरस्तोमसंहारलीलाकथाकर्णनायत्तचित्तेड्यवागीशपद्मेशगौरीशविघ्नेशनन्दीशमुख्यामरैरावृते, मेदिनीलालिते; पादसेवासमायातसालोक्यसामीप्यसारूप्यसायुज्यकैवल्यसिद्ध्यार्थिदेवर्षिविप्रर्षिराजर्षिसञ्जातसम्मर्दसद्रत्नसौवर्णसन्मन्दिरावाससंभूतनिःसामसन्तोषरत्नाकरे, सम्पदामाकरे; मञ्जुमञ्जीरकाञ्चीलतादिव्यरत्नोर्मिकाकङ्कणश्रोणिकेयूरहारावलीकुण्डलस्तोमकोटीरभूषोज्ज्वले, दिव्यमुक्ताफले ॥ ३॥ निरुपमबलकॢप्तलोकत्रयीबाधमायातनूजातमुख्यामरारातिसन्दोहसंहारसंभूतनिःसीमकीर्तिश्रिया भूषिते, स्त्रोत्रसन्तोषिते; पूर्वतः सर्वगीर्वाणसंयुक्तरम्भोर्वशीमुख्यवाराङ्गनागीतजम्भारिसम्भाविते, मञ्जुसम्भाषिते; दक्षिणे चित्रगुप्तादियुक्तेन धन्येन वैवस्वतेनार्चिते, चन्दनैश्चर्चिते; पश्चिमे पाशिना निर्जरारातिकण्ठार्पितस्वीयपाशेन भक्त्या स्तुते, वन्दिभिर्वन्दिते; उत्तरे किन्नरैश्चारणैर्यक्षगन्धर्वविद्याधरैः सोपदैर्यक्षराजेन सोपायनेनाश्रिते, भूसुरोपाश्रिते; चन्द्रकप्रस्फुरच्चारुपक्षद्वयं चित्ररत्नज्वलन्मेरुशैलोपमं वेगसम्पत्पराभूतपक्षीश्वरं पक्षपातातिदृरीकृतारिव्रजं कण्ठशोभासमाधूतनीलाम्बुदं नीलकण्ठं समारुह्य तेजोमयं शक्तिवज्रासिशूलाभयं खेटकं चक्रपाशाङ्कुशं चारुबाणासनं ताम्रचूडं वरं सन्दधाने करे, किङ्करश्रीकरे; सर्वमन्त्रात्मके सर्वतन्त्रात्मके सर्वसत्त्वात्मके सर्वतत्त्वात्मके सर्वविद्यात्मके सर्वशक्त्यात्मके सर्वमायात्मके सर्वदेवात्मके सर्वतो भास्वरे सर्वलोकेश्वरे सर्वयोगीन्द्रहृत्पद्मसन्मन्दिरे वैरिकीर्तिप्रजाम्भोधिसंशोषणप्रस्फुरद्वाडबप्रौढसद्विक्रम-प्राप्तलोकत्रयव्यापिकीर्त्याश्रये तेजसामाश्रये सन्मनोनन्दने पार्वतीनन्दने त्वय्यदो मानसं मामकं त्वत्पदध्यानतो निर्मलं मुक्तकामादिषड्वैरिवर्गं सदा खेलतां खेलतां खेलताम् । स्तोत्रमेतत् परं धर्मकामार्थदं सर्वसिद्धिप्रदं सर्वसम्पत्प्रदं सर्वविद्याप्रदं सर्वरक्षाकरं सारसारस्वतप्रक्रियापादकं तावकं येन वा प्रातरुत्थाय भक्त्यानिशं जप्यते तेन यद्यत् सदा प्रार्थ्यते तद्भवेत् त्वत्कृपापूरतस्तस्य भक्तिर्भवेत् त्वत्पदाब्जद्वये, सम्पदां सिद्धये; भावसन्तापसन्तप्तनिर्वाणदं पातकारण्यसन्दोहदावानलं भक्तिभाजां परं श्रेयसामास्पदं सर्वदा सर्वयोगीन्द्रसंसेवितं भक्तकैवल्यदं भक्तिगम्यं सदा सेवकानन्ददं भावकाभीष्टदं तावकं पद्मसङ्काशपादद्वयं देवसेनार्चितं मानसे भासताम्, सन्निधानं सताम्; त्वत्पदाम्भोजयुग्मं विनाभीष्टदं नास्ति मेऽन्या गतिर्लोचनं देहि मे सन्ततिं देहि मे सम्पदं देहि मे मङ्गलं देहि मे । त्वद्गतिं दुर्गतं त्वत्कथालापिनं त्वत्पदद्रोहिणं त्वत्कृपाभाजनं त्वत्कृपापूरितैर्लोचनैः पश्य मां सत्कृपापूरितैर्लोचनैः पश्य मां सत्कृपापूरितैर्लोचनैः पश्य माम्, सर्वतो रक्ष माम् । चिन्तयन्तं भवद्दिव्यरूपान्तरं ध्यानमात्रेण संसारतापापहं पण्डिताग्रेसरं कुण्डलीशोपमं दर्शनाम्भोधिसम्पूर्णजैवातृकं वादिविद्वत्करिव्यूहपञ्चाननं छात्रहंसावलीमोदपद्माकरं कान्तिसम्पत्समाधूतबालारुणं शीलसम्पत्तिसन्तुष्टवैश्वानरं रामनामाङ्कितं सद्गुरुं सर्वगं सर्वभूतात्मकं मन्मनोबोधकं सत्कृपासागरं देवसेनापते पहि मां पाहि मां पाहि मां देव तुभ्यं नमो देव तुभ्यं नमो देव तुभ्यं नमः ॥ ४॥ श्रीरामदेशिकपदाम्बुजयुग्मयोग- सञ्जातनिर्मलगुणोत्तरमानसेन । रामानुजेन शरसम्भवदण्डकोऽयं भक्त्या कृतो नवशतै रगणैः प्रसन्नः ॥ कटाक्षयतु गाङ्गेयो गाङ्गेयनगधर्मभूः । जैवातृको महासेनो जैवातृकसमाननः ॥ इति श्रीरामानुजदेशिककृतं श्रीषडाननदण्डकं समाप्तम् । ॐ श्रीरामश्रीकेशवश्रीरामदेशिकवरेभ्यो नमः । श्रीसुब्रह्मण्येश्वराय नमः । वन्दे धरादैवतवर्गशेखरं कन्दर्पलज्जाकरकान्तिसुन्दरम् । मन्दस्मितैर्निन्दितपूर्णचन्दिरं वन्दारुमन्दारमुमाकुमारकम् ॥ The author Ramanujadeshikam was a disciple of Ramadeshika whos is eulogized in the last section of this work. It is interesting to note that this daNDakA on shrI ShaNmukhA, after the well-known shyamalADaNDaka, has been composed by a shrIvaiShNava author. Proofread by Sivakumar Thyagarajan Iyer, Preeti Bhandare
% Text title            : Shadanana Dandakam
% File name             : ShaDAnanadaNDakam.itx
% itxtitle              : ShaDAnanadaNDakam (rAmAnujadeshikakRitam)
% engtitle              : ShaDAnanadaNDakam
% Category              : subrahmanya, daNDaka
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Author                : Ramanuja Deshikam
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sivakumar Thyagarajan Iyer, Preeti Bhandare
% Description/comments  : 5 in Stotrasamuchchaya 1, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scan)
% Latest update         : August 5, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org