देवैः कृता स्कन्दस्तुतिः

देवैः कृता स्कन्दस्तुतिः

(शिवरहस्यान्तर्गते ईशाख्ये) देवाः ऊचुः । सुब्रह्मण्याय महते ब्रह्मणस्पतये नमः । उमासुताय दिव्याय अतिपर्णाय ते नमः ॥ ६॥ कार्तिकेयाय वन्याय तारकान्तकराय ते । वल्लीसेनासमेताय सर्वदेवस्तुताय च ॥ ७॥ कुमाराय हरायाथ वीरबाहुनताय च । अम्बिकातनयाद्यैव प्रसन्नास्याय ते नमः ॥ ८॥ षडाननाय ते धाम्ने वेदसीम्ने नमोनमः । शिवप्रियाय शान्ताय गुहाय मथनाय च ॥ ९॥ प्रणवार्थाय साराय जगतां पालकाय च । सेनान्ये ते नमस्तुभ्यं शक्तिहस्ताय रंहसे ॥ १०॥ गोप्त्रे धात्रे विधात्रे च सर्गसृष्ट्यन्तहेतवे । हिरण्यकवचायाथ शरकार्मुकधारिणे ॥ ११॥ महापाशुपतास्त्राग्निदग्धदैत्याय ते नमः । गङ्गागर्भाय महते कृत्तिकासूनवे नमः ॥ १२॥ उमागर्भाय कान्ताय ताराय तरणाय च । कनकाङ्गदकेयूरमकुटालङ्कृताय च ॥ १३॥ षोडशस्वरवक्त्राय पात्रायाक्षररूपिणे । विनायकानुजायाथ सुरसैन्याविने नमः ॥ १४॥ कन्दर्पकोटिलावण्यदेहाय परमात्मने । यक्षीयक्षधरायाथ हेमवर्णाय ते नमः ॥ १५॥ गन्धर्वगणगीताय शम्बराय स्तुताय च । विशालवक्षसे पात्रे सर्वदेवस्तुताय च ॥ १६॥ अखण्डिताय नित्याय सत्याय प्रथिताय च । षष्ठीप्रियाय वात्याय रभसाय गणाय च ॥ १७॥ नतप्रियाय मान्याय सर्वयज्ञसुता(मया)य च । ओजसे तेजसे चैव वरेण्याय तथा भृते ॥ १८॥ गिरिवासाय मुष्टाय पुष्टाय बलशालिने । केकिवाहाय दान्ताय नमः कुक्कुटकेतवे ॥ १९॥ शरकाण्डभवायाथ महतेऽणीयसे नमः । सनातनाय व्योमाय शिवज्ञानप्रदायिने ॥ २०॥ शतपुष्करमालाय शक्रपालाय ते नमः । त्वयैव पालिता लोकास्त्वया सृष्टाश्चराचराः ॥ २१॥ तारकार्तिविनाश्यैव देवाश्चेमे सुपालिताः । त्वं यज्ञस्त्वं स्वधा स्वाहा त्वया वर्णाश्रमा भुवि ॥ २२॥ पालिता मुनयो यज्ञैर्यजन्त्यद्य सुखेन हि । ग्रहा नित्यं प्रमोदन्ते ऋक्षैरृषिगणैश्च खे ॥ २३॥ शक्रस्त्रिविष्टपपतिरद्याभूत्त्वत्कृपावशात् । अग्निर्वहति हव्यानि कव्यानि पितृसन्मुखे ॥ २४॥ लोका निरर्गलं सौख्यं भजन्ति तव विक्रमैः । त्रिविक्रमो वै वैकुण्ठं पाति सर्वचराचरम् ॥ २५॥ ब्रह्मापि सत्यलोकस्थः सृष्टिं वितनुतेऽखिलाम् । समुद्राश्च तथा नद्यो नोद्वेलं प्रवहन्ति च ॥ २६॥ वायुः सौम्येन वपुषा वाति नित्यं सुखेन हि । सोमः ऋक्षैर्भ्राजते खे तवाद्य विजयेन हि ॥ २७॥ अर्कोऽयं भाति किरणैस्तव विक्रमतोषितः । यथापूर्वं स्थिता लोकास्त्वयात्र निहतेऽसुरे ॥ २८॥ ॥ इति शिवरहस्यान्तर्गते देवैः कृता स्कन्दस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । अध्यायः २३ (भुजङ्गकथनम्) शिवसमागमः । ६-२८ ॥ - .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . adhyAyaH 23 (bhujangakathanam) shivasamAgamaH . 6-28 .. Notes: Skanda स्कन्द is eulogized by the Deva-s देवाः as He wins the battle against Tārakāsura तारकासुर that results in his annihilation, thus getting them liberated from the perpetual atrocities being committed by him. Skandāṣṭāśītirnāmāvaliḥ स्कन्दाष्टाशीतिर्नामावलिः derived from this Devaiḥ Kṛtā SkandaStutiḥ देवैः कृता स्कन्दस्तुतिः can be accessed from one of the links given below. Proofread by Ruma Dewan
% Text title            : Devaih Krita Skanda Stuti
% File name             : devaiHkRRitAskandastutiH.itx
% itxtitle              : skandastutiH (devaiH kRitA shivarahasyAntargatA)
% engtitle              : devaiH kRRitA skandastutiH
% Category              : subrahmanya, shivarahasya, stuti
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | IshAkhyaH dvAdashamAMshaH | adhyAyaH 23 (bhujaNgakathanam) shivasamAgamaH | 6-28 || see corresponding nAmAvalI
% Indexextra            : (Scan, nAmAvalI)
% Latest update         : December 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org