देवैः कृतं स्कन्दसहस्रनामस्तोत्रम्

देवैः कृतं स्कन्दसहस्रनामस्तोत्रम्

(शिवरहस्यान्तर्गते ईशाख्ये) देवा ऊचुः । स्कन्दनामसहस्रस्य ऋषिश्च परमेश्वरः । अनुष्टुप् छन्द एवास्य सुब्रह्मण्योऽधिदेवता ॥ ३॥ सौं बीजं शक्तिरेवास्य शक्तिः परतरा स्मृता । ग्लौं कीलकं सर्वकामसिध्यर्थे जप ईरितः ॥ ४॥ अथ ध्यानम् । गाङ्गेयं वहिगर्भं शरवणजनितं शक्तिहस्तं कुमारं ब्रह्मण्यं स्कन्ददेवं गुरुमचलभिदं मन्त्रतेजःस्वरूपम् । सेनेशं तारकघ्नं गणगण सहितं कार्तिकेयं षडास्यं सुब्रह्मण्यं मयूरध्वजरथसहितं कार्तिकेयं नमामि ॥ ५॥ अथ स्कन्दसहस्रनामस्तोत्रम् । ॐ सुब्रह्मण्यः सुरेशानः सुरारिकुलनाशनः । ब्रह्मण्यो ब्रह्मविद्ब्रह्म ब्रह्मविद्यागुरुर्गुरुः ॥ ६॥ ईशानगुरुरव्यक्तो व्यक्तरूपः सनातनः । प्रधानपुरुषः कर्ता कर्म कार्यं च कारणम् ॥ ७॥ श्रीकुमारो ह्यधिष्ठानो भोक्ता भोगश्च केवलः । अनादिनिधनः साक्षी नियतं नियमो यमः ॥ ८॥ वाक्पतिर्वाक्प्रदो वाग्मी वाच्यो वक्ता च वाचकः । पितामहगुरुर्लोकः गुरुस्तत्त्वार्थबोधकः ॥ ९॥ वेदान्तो वेदगुह्यश्च वेदशास्त्रप्रभेदकः । सर्वविद्यात्मकः शान्तश्चतुष्षष्टिकलागुरुः ॥ १०॥ मन्त्रार्थो मन्त्रमूर्तिश्च मन्त्रतन्त्रप्रवर्तकः । मन्त्री मन्त्रो मन्त्रबीजं महामन्त्रोपदेशकः ॥ ११॥ महोत्साहो महाशक्तिर्महाशक्तिधरः प्रभुः । जगत्स्रष्टा जगत्पाता जगन्मूर्तिर्जगन्मयः ॥ १२॥ जगदादिरनादिश्च जगद्बीजं जगद्गुरुः । ज्योतिर्मयः प्रशान्तात्मा सच्चिदानन्दविग्रहः ॥ १३॥ सुखमूर्तिः सुखकरः सुखी सुखवराकृतिः । ज्ञाता ज्ञानं ज्ञेयरूपो ज्ञप्ता ज्ञानफलं बुधः ॥ १४॥ विष्णुर्जिष्णुर्ग्रसिष्णुश्च प्रभविष्णुः सहिष्णुजः । तितिष्णुरजिरं भूष्णुर्वर्धिष्णुः शान्तविग्रहः ॥ १५॥ ऋजुः सुगृह्यः सुलभो दुर्लभो लोभवर्जितः । अभिज्ञो ज्ञश्च यज्ञात्मा शिवज्ञानप्रदो गुहः ॥ १६॥ हृदयादिरहङ्करो भूतादिर्भूतभावितः । भूतं भव्यं भवसुतो भूतभव्यभवत्प्रभुः ॥ १७॥ देवसेनापतिर्नेता कुमारो देवनायकः । तारकारिर्महावीरः शूरपद्मशिरोहरः ॥ १८॥ अनेककोटिब्रह्माण्डपरिपूर्णेऽसुरान्तकः । स्फुटाट्टहासकृत्तारतारकासुरनाशनः ॥ १९॥ महाक्रोधो महोत्साहो महाबलपराक्रमः । महाबुद्धिर्महासिद्धिर्महामायो महाभुजः ॥ २०॥ रणभीमः शत्रुहरो धीरो दान्तो गुणोत्तरः । महाधनुर्महाबाणो महादेवप्रियात्मजः ॥ २१॥ महाभुजो महापादो महातन्त्रो महाद्युतिः । महर्द्धिर्महनीयाङ्गो मयूरवरवाहनः ॥ २२॥ मयूरबर्हातपत्रो मयूरनटनप्रियः । महानुभावोऽमेय श्रीरमेयात्मा महाप्रभुः ॥ २३॥ सगुणो दुर्गुणद्वेषी निर्गुणो निर्मलोऽमलः । चञ्चलो विमलः कान्तो कमलापतिपूजितः ॥ २४॥ कालः कमलपत्राक्षः कलिकल्मषनाशनः । महारणो महायोधो महाबुद्धिप्रदायकः ॥ २५॥ महारथो महाभागो महाभीष्टफलप्रदः । चन्द्रचूडाङ्गभूभागविहारणविशारदः ॥ २६॥ चन्द्रपीडाकराम्भोजपरिमृष्टभुजावलिः । ईशाननयनानन्दकन्दो लावण्यशेवधिः ॥ २७॥ लम्बोदरसहक्रीडालम्पटः शरसम्भवः । अमरीनयनालोकचकोरीपूर्णचन्द्रमाः ॥ २८॥ सर्वाङ्गसुन्दरः श्रीश श्रीकरः श्रीप्रदः शिवः । वल्लीसेनापतिर्वीरो जपाशोणग्रतालुकः ॥ २९॥ षड्जमध्यमगान्धारतन्त्रीसुमधुरस्वरः । मेघगम्भीरनिर्घोषः प्रियवाक् प्रीतनिर्जरः ॥ ३०॥ स्मितवक्त्रो ह्युत्पलाक्षश्चारुगम्भीरवीक्षणः । कर्णान्तदीर्घनयनः कर्णभूषणभूषितः ॥ ३१॥ सुकुण्डलश्चारुगण्डः कम्बुग्रीवो महाहनुः । पीनाङ्गो गूढजत्रुश्च पीनवृत्तभुजावलिः ॥ ३२॥ रत्नाङ्गो रत्नकेयूरकङ्कणो रत्नभूषितः । व्याकीर्णकलसद्वामप्रकोष्ठवलयोज्ज्वलः ॥ ३३॥ रेखाङ्कुशध्वजच्छत्रपाणिपद्ममहायुधः । (छत्राङ्कुशपताकाब्जरेखारञ्जितसत्करः) सुरलोकाभयकरबालारुणकरावलिः ॥ ३४॥ अङ्गुलीयकरत्नांशुद्विगुणोद्यन्नखाङ्कुरः । पीनवक्षा महाहारो नवरत्नविभूषितः ॥ ३५॥ हिरण्यगर्भो हेमाङ्गो हिरण्यकवचो हरः । हिरण्मयशिरस्त्राणो हिरण्याक्षो हिरण्यदः ॥ ३६॥ हिरण्यनाभस्त्रिवलीललितोदरसुन्दरः । सुवर्णसूत्रविलसद्विशङ्कटकटीतटः ॥ ३७॥ पीताम्बरधरो मुक्तासरोद्भासितमध्यमः । नवरत्नावलिप्रोद्यन्मेखलोऽङ्गुलिभूषणः ॥ ३८॥ पीवरोरुः सुवृत्तोद्यत्सुजानुः सुप्रगुल्फकः । शङ्खचक्राब्जकुलिशध्वजरेखालसत्पदः ॥ ३९॥ सुरेन्द्रमकुटप्रोद्यन्मणीरञ्जितपादुकः । पूज्याङ्घ्रिश्चारुनखरः सुरालिनतपादुकः ॥ ४०॥ पार्वतीपाणिकमलपरिमृष्टाङ्गसुन्दरः । मत्तमातङ्गगमनो मान्यो मान्यगुणाकरः ॥ ४१॥ क्रौञ्चदैत्यमहोद्दामवक्षःस्थलविदारणः । सुगमो दुर्गमो दुर्गे दुरारोहोऽरिदुःसहः ॥ ४२॥ सुभगः सुमुखः सूर्यः सूर्यमण्डलमध्यगः । सृष्टिकर्तोपसंहर्ता कृपासंरक्षिताखिलः ॥ ४३॥ जगत्स्रष्टा जगद्भर्ता जगत्संहारकारकः । स्थावरं जङ्गमो जेता विजयो विजयप्रदः ॥ ४४॥ जयशीलो जितारातिर्जितमानो जितासुरः । जितकामो जितक्रोधो जितमोहमदो युवा ॥ ४५॥ कामदः कामभृत्कामी कामिकाद्यागमप्रियः । जितकल्पः कलिध्वंसी कल्हारकुसुमप्रियः ॥ ४६॥ रामो रमयितारम्यो रमणीजनवल्लभः । रसज्ञो रसमूर्तिश्च रस्यो नवरसात्मकः ॥ ४७॥ रता(सा)त्मा रसिकात्मा च रासक्रीडापरो रतिः । कोटिसूर्यप्रकाशाभः सोमसूर्याग्निलोचनः ॥ ४८॥ कालाभिज्ञः कलारूपः कलावान् सकलप्रभुः । बिन्दुनादकलामूर्तिः कालातीतः क्षराक्षरः ॥ ४९॥ मात्रास्वराकृतिश्चैक एकमात्रो द्विमात्रकः । त्रिमात्रकश्चतुर्मात्रो मात्रतीतोऽतिमात्रकः ॥ ५०॥ व्यञ्जनात्मा वियुक्तात्मा युक्तोमुक्तिप्रदो गुरुः । विसर्जनीयोऽनुस्वारः सर्ववर्णतनुर्महान् ॥ ५१॥ अकारात्मा उकारात्मा मकारात्मा त्रिवर्णकः । ओङ्कारश्च वषट्कारः स्वाहाकारः स्वधाकृतिः ॥ ५२॥ अकृतिर्भवनो हव्यं होताऽध्वर्युर्महाहविः । ब्रह्मोद्गाता सदस्यश्च बर्हिरिध्मः समिच्चरुः ॥ ५३॥ गव्यः पशुः पुरोडाशश्चामिक्षा वाजिवाहनः । पवनः पावनः पूतः पवमानः पराकृतिः ॥ ५४॥ पवित्रः परिधिः पूर्णपात्रः पूर्णमनोरथः । विशोधनः पशुपतिः पशुपाशविमोकः ॥ ५५॥ पाकयज्ञो महायज्ञो यज्ञो यज्ञपतिर्यजुः । यज्ञाङ्गो यज्ञ इज्यश्च यज्वा यज्ञफलप्रदः ॥ ५६॥ यज्ञाङ्गभूर्यज्ञभूमिर्यज्ञश्रीर्यज्ञवाहनः । याज्ञिको यज्ञविध्वंसी यज्ञेशो यज्ञरक्षकः ॥ ५७॥ सहस्रबाहुर्विश्वात्मा सहस्राक्षः सहस्रपात् । सहस्रवदनो नित्यः सहस्रात्मा विराट् स्वराट् ॥ ५८॥ सहस्रशीर्षा विश्वश्च तेजः प्राज्ञो ह्यथात्मवान् । अणुर्बृहत्कृशः स्थूलो दीर्घो ह्रस्वो लघुर्गुरुः ॥ ५९॥ सूक्ष्मः सूक्ष्मतरोऽनन्तो विश्वरूपो निरञ्जनः । अमृतेशोऽमृताहारोऽमृतदाताऽमृताङ्गवान् ॥ ६०॥ अहोरूपस्त्रियामा च सन्ध्यारूपो दिनात्मकः । मुहूर्तो घटिकारूपो यमरूपो यमात्मकः ॥ ६१॥ पूर्वाह्णरूपो मध्याह्नरूपः सायाह्नरूपकः । अपराह्णोऽतिनिपुणः सवनात्मा प्रजाकरः ॥ ६२॥ वेद्यो वेदयिता वैद्यो वेदद्रष्टा विदांवरः । विनयः सत्यसन्धश्च विद्वान् विद्वज्जनप्रियः ॥ ६३॥ विश्वगोप्ता विश्वभोक्ता विश्वकृद्विश्वभेषजम् । विश्वम्भरो विश्वपतिर्विश्वेशो विश्वतोमुखः ॥ ६४॥ विश्वसाक्षी विश्वहन्ता वीरो विश्वम्भराधिपः । वीरबाहुर्वीरहन्ता वीराग्र्यो वीरसैनिकः ॥ ६५॥ वीरवादप्रियः शूरः शूरसेनः सुराधिपः । शूरपद्मासुरद्वेषी तारकासुरभञ्जनः ॥ ६६॥ ताराधिपस्तारहारः शूरहन्ता सुरार्चितः । शरवान् शरसम्भूतः शक्तः शरवणोद्भवः ॥ ६७॥ शाम्भवः शङ्करः शम्भुः साधुः साधुजनप्रियः । सारङ्गः सागरः सर्वः शर्वः शर्वप्रियः स्वराट् ॥ ६८॥ गङ्गाधरोऽतिगम्भीरो गभीरहृदयोऽनघः । अमोघघोषो विक्रम्यः शम्भुः शक्रप्रपूजितः ॥ ६९॥ चक्रपाणिश्चक्रपतिर्दिक्चक्रान्तमहीपतिः । सार्वभौमः सुरपतिः सर्वलोकाभिरक्षकः ॥ ७०॥ चिद्रूपः सत्यसङ्कल्पः सत्यः सत्यवतांवरः । सत्यप्रियः सत्यपतिः सत्यलोकजनप्रियः ॥ ७१॥ भूतो भव्य भूतनाथ भावाभावविवर्जितः । भूतादिर्भूतमध्यस्थो भूतविप्लवकारकः ॥ ७२॥ भूतिभूषितसर्वाङ्गो भूताधिष्ठानकोऽव्ययः । बीजरूपो गुणानिधिस्तेजोराशिरकल्मषः ॥ ७३॥ कल्मषघ्नः कल्यहीनः कारुण्यामृतवारिधिः । कल्याणमूर्तिः कल्याणाचलकार्मुकसम्भवः ॥ ७४॥ कामात्मा कामदः कान्तः कामक्रोधविवर्जितः । गोप्ता गोपायिता गुप्तिर्गुणातीतो गुणाश्रयः ॥ ७५॥ सत्वमूर्ती रजोमूर्तिस्तमोमूर्तिश्चिदात्मकः । देवसेनापतिर्दिव्यमहिमा महिमाकरः ॥ ७६॥ प्रकाशकृतपापघ्नः पवनः पावनोऽनलः । कैलासनिलयः कान्तः कनकाचलसन्निभः ॥ ७७॥ विद्रुमो वेदमूर्तिश्च व्याकृतिः कृतिरक्षकः । इन्द्रोपेन्द्रादिवन्द्याङ्घ्रिरुरुजङ्घ उरुक्रमः ॥ ७८॥ विक्रान्तो विजयाक्रान्तो विजयी विनयप्रियः । अविनीतजनध्वंसी सर्वापगुणवर्जितः ॥ ७९॥ शेषाचलैकनिलयो वल्लीवाञ्छितविभ्रमः । शाम्भवः शम्भुतनयः शङ्कराङ्गविभूषणः ॥ ८०॥ स्वयम्भूः स्ववशः स्वस्थः पुष्करः पुरभिद्भवः । मनुर्मानवगोप्ता च स्थविष्ठः स्थविरो युवा ॥ ८१॥ बालः शिशुर्नित्ययुवा नित्यकौमारवान् महान् । अग्राह्यरूपो ग्राह्यश्च सुग्राह्यः सुन्दराकृतिः ॥ ८२॥ प्रमर्दनः प्रभूतश्रीर्लोहिताक्षोऽरिमर्दनः । त्रिधामा त्रिककुब्भव्यस्त्रिलोकनिलयो लयः ॥ ८३॥ शर्मदः शर्मवान् शर्मी शरण्यः शरणालयः । स्थाणुः स्थिरतरः स्थेयान् ? (स्थेय) स्थिरश्रीः स्थिरविक्रमः ॥ ८४॥ स्थिरप्रतिज्ञः स्थिरधीर्विश्वरेताः प्रजोद्भवः । अव्ययः प्रत्ययः प्रष्ठः सर्वज्ञः सर्वदर्शनः ॥ ८५॥ सर्ववागीश्वरः सिद्धः शिवयोगः ? (शिवयोगी) शिवप्रियः । मनस्वी मानदो मान्यो जैगीषव्यगुरुर्बुधः ॥ ८६॥ समात्मासमदर्शी च सम्मतः समदर्शनः । भस्मत्रिपुण्ड्कषड्भालो रुद्राक्षकरकङ्कणः ॥ ८७॥ शिवलिङ्गार्चनप्रीतः षडक्षरजपादरः । शुचिः शुचिमनाः शुद्धः शुचिकीर्तिः शुचिश्रवाः ॥ ८८॥ रौद्रकर्मा महाकर्मा रुद्रांशो रुद्रसम्भवः । अनेकमूर्धाविश्वात्मानेकबाहुररिन्दमः ॥ ८९॥ वीरबाहुगणाध्यक्षो विष्वक्सेनो वितर्दनः । सर्वदः सर्वगः सर्वः सर्ववेदान्तगोचरः ॥ ९०॥ कविः पुराणः शास्ता च सुब्रह्मण्यालयो हरिः । भ्राजिष्णुर्विष्णुविनुतः कृष्णकेशः कृशोदरः ॥ ९१॥ भोजनं भाजनं भोक्ता विश्वभोक्ता विशां पतिः । विश्वयोनिर्विशालाक्षो विरागो वीरसेवितः ॥ ९२॥ पुष्यः पुरुयशाः पूज्यः पुरुकीर्तिः पुनर्वसूः । सुरेन्द्रः सर्वलोकेन्द्रो महेन्द्रोपेन्द्रवन्दितः ॥ ९३॥ विश्ववेद्यो विश्वपतिर्विश्वभुग्विश्वभेषजम् । मधुर्मधुरसङ्गीतो माधवः शुचिरूष्मलः ॥ ९४॥ शुक्लः शुभ्रगुणः शुक्रः शोकहर्ताशुचिस्मितः । महेष्वासो विगुप्तिश्च? (विगुप्तश्च) महीभर्ता महीपतिः ॥ ९५॥ मरीचिर्दमनो मायी मातङ्गगतिरुद्रुतः । हंसः सुपर्णः सुमना भुजङ्गाभभुजावलिः ॥ ९६॥ पद्मनाभः पशुपतिः पापघ्नः पापपारगः । पण्डितः परवीरघ्नः स्कन्धः सेनापतिर्महान् ॥ ९७॥ अर्षणो दुष्टशास्ता च दुर्धर्षो युद्धहर्षणः । विश्वात्मा सुविधेयात्मा विश्वप्रख्यातविक्रमः ॥ ९८॥ सन्मार्गदर्शको मार्गरक्षको मार्गपालकः । अनिरुद्धोऽनिरुद्ध श्रीरादित्यो दैत्यमर्दनः ॥ ९९॥ अनिमेषोनिमेषोऽथस्त्रिजङ्गद्ग्रामणिर्गुणी । संवृतात्मा निवृत्तात्मा सर्वात्माऽमितविक्रमः ॥ १००॥ अर्चिष्मानच्युतप्रीतः पाशभृत्पावको मरुत् । सोमः सौम्यः सोमनुतः सोमयुक् सोमभूषणः ॥ १०१॥ सर्वसामप्रियः साम सर्वयज्ञस्तुतो गुरुः । उपशान्तिरुमासूनुः उत्फुल्लमुखपङ्कजः ॥ १०२॥ अमृत्युरसुरारातिर्मूर्तो मृत्युभयोज्झितः । मन्दारकुसुमापीडो मदनान्तकवल्लभः ॥ १०३॥ माल्यवान् मदनाकारो मालतीकुसुमप्रियः । सुप्रसादः सुराध्यक्षः सुमुखः सुमहायशाः ॥ १०४॥ वृषपर्वा विरूपाक्षो वृषसेनो वृषोदरः । मुक्तो मुक्तगतिर्भोक्ता मुकुन्दो मुद्गरो मुनिः ॥ १०५॥ श्रुतवान् श्रुतशास्त्रश्च श्रुतिगम्यः श्रुतिस्तुतः । वर्धमानो वनरतिः वानप्रस्थनिषेवितः ॥ १०६॥ वाग्विदो वावदूकात्मा वासुदेवो वरप्रदः । महेश्वरो महेशष्वासः शक्तिहस्तस्त्रिशूलधृक् ॥ १०७॥ ओजस्तेजश्च तेजस्वी प्रतापी सुप्रतापवान् । ऋद्धिः समृद्धिः संसिद्धिः सुसिद्धिः सिद्धसेवितः ॥ १०८॥ अमृतांशुश्चामृतपो ह्यमृतश्चामृतप्रदः । चन्द्रमाश्चन्द्रवदनश्चण्डश्चन्द्रसुशीतलः ॥ १०९॥ मतिमान्नीतिमान्नीतिः कीर्तिमान् कीर्तिवर्धनः । औषधं चौषधीनाथः प्रतीपो भवमोचनः ॥ ११०॥ भास्करो भास्करतरो भानुः पाशविमोचनः । चतुर्युगव्यवस्थाता युगधर्मप्रवर्तकः ॥ १११॥ अयुगो मिथुनं योगो योगज्ञो योगपारगः । महाशनो महादाता महाघोरपराक्रमः ॥ ११२॥ युगान्तकृद्युगावर्तो दृश्यादृश्यस्वरूपवान् । सहस्रजित्सहस्रात्मा सहस्रायुधमण्डितः ॥ ११३॥ अनन्तशूरसंहर्ता सुप्रतिष्ठः सुशाङ्करः । अक्रोधः क्रोधहन्ता च शत्रु क्रोधविवर्धनः ॥ ११४॥ विश्वमूर्तिर्विश्वबाहुर्विश्वदृक् विश्वतोमुखः । विश्वपो विश्वनेता च द्यावाभूम्योर्विवर्धनः ॥ ११५॥ अपांनिधिरकर्ता च अन्नदो विनयोज्जवलः । षाण्मातुरोऽम्बुजभवः प्राणदः प्राणवर्धनः ॥ ११६॥ स्कन्दः स्कन्दधरो धुर्यो धैर्यौ धैर्यविवर्धनः । जितारातिर्धनाध्यक्षो वैद्यनाथोऽनसूयकः ॥ ११७॥ देवदेवो बृहद्भानुः स्वभानुः पद्मवल्लभः । अकुलः कुलनेता च कुलेष्टश्च कुलेश्वरः ॥ ११८॥ कुलाचलसुतासूनुरसुहृच्चासुरार्दनः । निधिर्निधिपतिः पद्मः शङ्खो निधिपतिः पतिः ॥ ११९॥ शतानन्दः शतावर्तः शतायुश्च शतायुधः । पद्मासनः पद्मनेत्रः पद्माऽङ्घ्रिः पद्मसंस्थितः ॥ १२०॥ कारणात्मा च कार्यात्मा कामात्मा कामवर्धनः । त्रिशरीरः शरीरी च शरीरारोग्यवर्धनः ॥ १२१॥ जाग्रत् प्रपञ्चाधिपतिर्विश्वलोकेश्वरेश्वरः । सुषुप्तिस्थो भीमसेनो महासेनस्तुरीयकः ॥ १२२॥ स्वापनः स्वःपतिर्लीनो विश्वमूर्तिर्विलोचनः । वीरायुधो वीरवेषो वीरायुधकरोज्ज्वलः ॥ १२३॥ सर्वलक्षणसम्पन्नो लक्ष्मीतान् ? (लक्ष्मीवान्) सर्वलक्षणः । समयज्ञो यज्ञसेनः समाधिः सामवल्लभः ॥ १२४॥ अमलो मान्यसुप्रीतो वल्लभो भल्लवो बलः । अहेतुर्हेतुमान् हेतुर्हेतिधृक् हर्तुराश्रयः ॥ १२५॥ विक्षरो रोहितो रक्तो विरक्तो विजनप्रियः । महीधरो मातरिश्वा माङ्गल्यो मकरालयः ॥ १२६॥ मध्यः शतादिरक्षोभ्यो रक्षोदारणविक्रमः । गुहो गुहाशयो गोप्ता गुहेशो गुणवर्धनः ॥ १२७॥ निरुद्योगो महोद्योगो निरीहो निर्णयो मधुः । महावेगो महाक्रोधो महाप्राणो महेश्वरः ॥ १२८॥ अमृताश्यमृताहारो मितभाष्यमितार्थवित् । अक्षोभ्यः क्षोभकृत्क्षेमः क्षेमवान् क्षोभनाशनः ॥ १२९॥ रुद्रो रुद्रप्रियो मत्तो मत्तकेकिवहः परः । धर्माधर्मविदां श्रेष्ठो वैकुण्ठो वासवप्रियः ॥ १३०॥ पर(रि)धीरपराक्रान्तः परितुष्टः परासुहृत् । रञ्जनो रणगो रुष्टो रमणो रात्रिवर्धनः ॥ १३१॥ विरजो विक्रमो विद्वान् वीरभद्रप्रियः क्रतुः । विनायकानुजो धाता नन्दप्रियसखो वटुः ॥ १३२॥ सर्वशक्तिमतां श्रेष्ठः सर्वदैत्यभयङ्करः । हत्रुघ्नः सर्वलोकेशः शत्रुश्लाघ्यपराक्रमः ॥ १३३॥ शिशिरो वर्षको ग्रीष्मो वसन्तो माधवो मधुः । वसन्तकेलिनिरतो वनकेलिविशारदः ॥ १३४॥ पुष्पधूलीपरिचितो वनपल्लवशेखरः । जलकेलीपरिवृतो जह्नुकन्योपलालितः ॥ १३५॥ गाङ्गेयो गीतकुशलो गङ्गापूरविहारणः । गङ्गाधरो गणपतिर्गणायुत(र्गणयूथ)समावृतः ॥ १३६॥ विश्रामो विक्रमोद्धूतो विश्वभुग्विश्वदक्षिणः । विश्वगोविश्वधृग्घोरो विश्वरक्षणतत्परः ॥ १३७॥ विनतानन्दकारी च पार्वतीप्राणनन्दनः । विशाखः षण्मुखः शास्ता कार्तिकेयो वरप्रदः ॥ १३८॥ ॥ इति शिवरहस्यान्तर्गते देवैः कृतं स्कन्दसहस्रनामस्तोत्रं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । ३८ । ३-१३८ ॥ - .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . 38 . 3-138 .. Notes: Devāḥ देवाः eulogize Skanda स्कन्द with SahasranāmaStotram सहस्रनामस्तोत्रम् towards the conclusion of the discourse of The ŚivaRahasyam शिवरहस्यम्. SkandaSahasranāmāvaliḥ स्कन्दसहस्रनामावलिः derived from the SkandaSahasranāmaStotram स्कन्दसहस्रनामस्तोत्रम्, can be accessed from one of the links given below. Proofread by Ruma Dewan
% Text title            : Devaih Kritam Skandasahasranama Stotram
% File name             : devaiHkRRitaMskandasahasranAmastotram.itx
% itxtitle              : skandasahasranAmastotram (devaiH kRitaM shivarahasyAntargatam)
% engtitle              : devaiH kRRitaM skandasahasranAmastotram
% Category              : subrahmanya, shivarahasya, sahasranAma, stotra
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | IshAkhyaH dvAdashamAMshaH | 38 | 3-138 || See corresponding nAmAvalI
% Indexextra            : (Scan, nAmAvalI)
% Latest update         : December 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org